॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥
जन्माद्यधिकरणम् ।। 2 ।।
इत्थं व्युत्पत्त्यभावमूलानारम्भशङ्कां निरस्य प्रतिपत्तिदौस्थ्यमूलां शङ्कां तत्प्रतिपत्त्यर्थलक्षणसमर्थनेन निराचिकीर्षुः किं” पुनस्तद्विचार्यं ब्रह्मेत्याकांक्षायां तल्लक्षणमाह —
जन्माद्यस्य यतः।।1.1.2।।
भृगुवल्ल्यां श्रूयते – ‘यतो वा इमानि भूतानी’ त्यारभ्य तद्ब्रह्मेत्यन्तम् । तस्य चायमर्थः । जीवन्ति – येनात्मभूतेन जीवन्तीत्यर्थः । प्रयन्ति सन्ति भूतानि यदयमभिसम्विशन्ति – यत्र लीयन्ते । समित्येकीकरणे । एकीकृततया प्रवेशस्संवेशः । यद्वा – यत्प्रयन्तीति मोक्षः । अभिसम्विशन्तीति प्रलयः । अस्मिन् पक्षे यच्छब्दस्यावृत्तिः । यतो वेत्यादिवाक्यत्रयेऽपि प्रतिवाक्यम् तद्ब्रह्मेत्यनुक्तेः न जगज्जन्मादिप्रत्येकं लक्षणम्।प्रत्येकं लक्षणत्वे लक्षणान्तरवैयर्थ्यप्रसङ्गात् ।अतस्समुदितमेव लक्षणम्। न च जन्मादिसमुदायस्य लक्षणत्वे व्यावृत्त्याभावेन निष्प्रयोजनत्वम्। लक्ष्याकारविपरीतशङ््कानिवारणक्षमत्वेन सप्रयोजनत्वात्। उत्पत्तिकारणत्वमात्रेऽभिहिते हि तस्य स्थितिप्रलयकारिणीभूतवस्त्वन्तरशङ््कया जगज्जन्ममात्रकरणस्य ब्रह्मणो निरतिशयबृहत्त्वं” न सिद्ध्येत्। तथा लयकारणत्वाभिधाने आत्यन्तिकलयरूपमोक्षान्तरसद्भावशङ््कया मोक्षप्रदत्वप्राप्यत्वानुगुणगुणैर्बृहत्वम् न सिद्ध्येत् ।अतो जगज्जन्मकारणमात्रस्य समस्तवस्तुव्यवच्छेदक्षमत्वेऽपि जन्मादिकारणसमुदायस्यैव बृहत्त्वातिशयौपयिकत्वात् सृष्टि-स्थितिप्रलयसमुदायकारणत्वम् लक्षणमिति ज्ञापितम्।
यतो येन यदिति यद्वृत्तयोगात् कारणमनूद्यते। तद्ब्रह्मेति कारणत्वस्य ब्रह्मत्वं विधीयते।तेन कारणत्वस्य ब्रह्मलक्षणत्वं” सिद्धं भवति ।तद्विजिज्ञासस्वेति न विचारस्योपासनस्य वा विधिः। विचारात्मकं ज्ञानं रागप्राप्तत्वान्न विधेयम् । उपासनात्मकस्य तु ज्ञानस्य -ब्रह्मविदाप्नोती–ति प्राकरणिकवाक्यान्तरसिद्धत्वात् उपक्रमे, अधीहि भगवोब्रह्मे,ति प्रश्नस्यातत्परत्वेन उपासनविषयत्वाभावाच्च नोपासनाज्ञानमिह विधेयम्। अतो विजिज्ञासस्वेति उपदिश्यमानार्थे सावधानत्वार्थं सन्देहनिवृत्यर्थं वा प्रोक्तम्। या गन्धवती तां पृथिवीं विद्धीतिवत्। अतः कारणत्वस्य ब्रह्मलक्षणत्वमेवास्य वाक्यस्य विधेयम्। यथा यत्रायं” सारसस्स देवदत्तकेदार इत्युक्ते सारससम्बद्धस्य देवदत्तकेदारत्वमुक्तं स्यात् तद्वदिति व्यासार्यैरुक्तम् ।
ननु ईश्वरस्य लिलक्षयिषितत्वे तर्हि तदसाधारणसार्वज्ञ्यादिप्रदिपादकसत्यज्ञानादिवाक्यानादरेण जन्मादिवाक्येन किमर्थम् लक्ष्यत इति चेदुच्यते। गुणैः स्वरूपस्य लक्ष्यत्वे तदपेक्षया बहिष्ठाय विभूते रूपस्यान्तर्भावो न प्रतीयेत। सर्गादिविषयभूतया तु विभूत्या स्वरूपे लक्ष्यमाणे विभूतेस्सर्गाद्यौपयिकगुणानामपि सर्वज्ञत्वादूनाम् जिज्ञास्यान्तर्भावस्सिद्ध्यति। विभूतेश्च जिज्ञास्यान्तर्भावः-, उपासा त्रैविध्यादि-, ति सूत्रितः।
नन्वेवमपि कृत्स्नविभूतेर्जिज्ञास्यान्तर्भावः न सिद्ध्यति त्रिपाद्विभूतेः जन्माद्यस्पृष्टत्वादिति चेन्न। यत्प्रयन्तीति प्रलयवाक्यस्थयच्छब्देन मुक्तप्राप्यस्य ब्रह्मणो विवक्षितत्वात् नित्यविभूतिविशिष्टस्यैव मुक्त-प्राप्यत्वात् नित्यविभूतेरपि जिज्ञास्यत्वसिद्धिः। एवञ्च जगत्कारणत्वं विशिष्टनिष्ठं सत्यज्ञानत्वलक्षणन्तु विशेष्यनिष्ठमिति भिदा ।
यत इति पञ्चमी हेत्वर्थिका। यच्छब्दस्यानुवादरूपत्वादनुवादस्य च प्रापकवाक्यसापेक्षतया तद्विरुद्धार्थपरत्वासम्भवात् प्रापकवाक्येषु, एकमेवाद्वितीयं, तदैक्षत बहुस्याम्, तत्तेजोऽसृजते,- ति निमित्तत्वोपादानत्वयोः” प्रतिपादनात् तदनुवादिनि लक्षणवाक्ये यत इति पदमुभयविषयकं मन्तव्यम् । न च हेतौ पञ्चमी नानुशिष््टेति शङ््क्यम्।-, अइउ -,णिति सूत्रे विवारभेदादिति भाष्यनिर्देशेन -,विभाषा गुणे स्त्रिया,- मित्यत्र विभाषेति योगविभागस्य आश्रिततया तत एव हेतुपञ्चम्युपपत्तेरिति द्रष्टव्यम् ।
इदमत्र विचार्यते-, यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ती,- त्यत्र जगज्जन्मादयो न विशेषणत्वेन ब्रह्म लक्षयितुं” शक्नुवन्ति । विशेषणानाम् व्यावर्तकत्वस्वभावत्वेन व्यावर्त्यबहुत्वावश्यम्भावेन विशेषणानाम् बहुत्वे विशेष्यनानात्वप्रसङ्गात् ।खण्डो मुण्डः पूर्णशृङगो गौरित्यत्र विशेषणबहुत्वेन विशेष्यबहुत्वस्य दर्शनात्। न च देवदत्तश्श्यामो युवा लोहिताक्षस्समपरिमाण इत्यादौ विशेषणबहुत्वेपि विशेष्यैक्यं” दृष्टमिति वाच्यम् ।प्रत्यक्षावगतविशेष्यैक्यबलात् तत्र विशेष्यभेदत्यागेऽपि प्रत्यक्षाद्यप्रतिपन्ने अलौकिके ब्रह्मणि उत्सर्गप्राप्तस्य विशेषणभेदप्रयुक्तविशेष्यभेदस्य त्यागायोगात्।
नाप्युपलक्षणतया जन्मादीनां व्यावर्तकत्वम्। यत्रायं, सारसस्सदेवदत्तकेदार, इत्यत्र केदारत्वादिना केनचिदाकारेण पूर्वप्रतिपन्न एव केदारः देवदत्तकेदारत्वरूपधर्मान्तरवत्तया सारसेनोपलक्ष्यते।इह तु जगज्जन्मादिभिर्निरतिशयबृहति उपलक्षणीये उपलक्ष्याकारसमानाधिकरणकेदारत्वस्थानीयः पूर्वप्रतिपन्नः कश्चन आकारो वक्तव्यः। न चेह ब्रह्मणि पूर्वप्रतिपन्नः कश्चिदाकारोऽस्ति । ”सत्यं ज्ञानमनन्तं ब्रह्मे”ति वाक्यप्रतिपन्नसत्यत्वज्ञानत्वादीनां” न पूर्वप्रतिपन्नाकारत्वसम्भवः सत्यत्वादिष्वपि विशेषणत्वोपलक्षणत्वदौःस्थ्येन तेषामपि लक्षणत्वासम्भवादिति पूर्वपक्षे प्राप्त उच्यते, – जन्माद्यस्य यत, – इति ।।
अस्य अचिन्त्यविविधविचित्ररचनस्य ब्रह्मादिस्तम्बपर्यन्तक्षेत्रज्ञमिश्रस्य जगतःजन्मस्थितिलया यतो भवन्ति तब्रह्मेति सूत्रार्थः।ततश्च जन्मादिहेतुत्वं ब्रह्मलक्षणमिति सूत्रकारतात्पर्यम् ।अयं भावः”- विशेषणानां” यद्यपि व्यावर्तकत्वं स्वभावः, अथापि विशेषणं स्वविरुद्धधर्माश्रयात् स्वाश्रयं व्यवच्छिनत्त््येव। न तु स्वाविरुद्धधर्माश्रयादपि स्वाश्रयं व्यावर्तयति । नीलमुल्पलमित्यादौ शौक्ल्याश्रयव्यावर्तकत्ववत् दैर्घ्याश्रयव्यावर्तकत्वाभावात्। प्रकृते च जन्महेतुत्वादीनां परस्परविरपद्धत्वाभावात् व्यक्तिबहुत्वस्याप्रसक्तेः। खण्डो मुण्ड इत्यादौ खण्डत्वादीनां परस्परविरुद्धत्वात् स्वाश्रयभेदकत्वम्। उपलक्षणत्वपक्षेऽपि न दोषः । उपलक्षणभूताज्जगज्जन्मादिहेतुत्वादुपलक्ष्याच्च निरतिशयबृहत्वादन्यस्य बृहत्वसामान्यस्य पूर्वप्रतिपन्नाकारस्य सम्भवेन उपलक्षणत्वपक्षेऽपि दोषाभावात्।
ननु परस्परविरुद्धयोः” विशेषणत्वोपलक्षणत्वपक्षयोः कथमभ्युपगम इति चेत् ।
अत्र केचित्, — विशिष्टनिष्ठं जगत्कारणत्वं” विशेष्यनिष्ठं तु सत्यत्वादिकमिति व्यासार्यैस्तत्र तत्रोक्तम् । भाष्ये च जगत्कारणत्वोपलक्षितस्वरूपस्येति बहुशो व्याहृतत्वात् जगत्कारणत्वं चिदचिद्विशिष्टस्य ब्रह्मणो विशेषभूतं लक्षणम् । शुद्धस्वरूपस्य तु उपलक्षणम् । जगत्कारणत्वस्य शुद्धस्वरूपनिष्ठत्वाभावात्। तदभिप्रायेणैव विशेषणत्वोपलक्षणत्वपक्षोपगमः” । न च शुद्धस्वरूपानिष्ठस्य विशिष्टनिष्ठस्य जगत्कारणत्वस्य कथम् शुद्धस्वरूपोपलक्षणत्वमिति वाच्यम् । तटस्थस्यापि शाखाग्रस्य चन्द्रोपलक्षणत्वदर्शनात्,इति वदन्ति। अन्ये तु, –” विशेष्यनिष्ठत्वानिष्ठत्वाभ्यामेव विशेषणोपलक्षणभेदमाश्रित्य जगत्कारणत्वस्य ब्रह्मनिष्ठतया विशेषणत्वं, प्रपञ्चगतजन्मादेस्तु ब्रह्मनिष्ठत्वाभावेन उपलक्षणत्व,,मिति वर्णयन्ति ।
अपरे तु यतो वा इमानीति वाक्येन जन्मादिविशिष्टे ब्रह्मत्वं वोपपद्यते । तदुपलक्षिते । नाद्यः । जन्मविशिष्टेब्रह्मत्वबोधने विशेषणभूतजन्मादावपि ब्रह्मत्वप्रसङ्गः । उपलक्षणत्वपक्षे आकारान्तराप्रतिपत्तिर्दोष इति पूर्वपक्षिणो भाव इति तन्न । न विधेयान्वयित्वं विशेषणत्वम् । येन जन्मादेर्विशेषणत्वेन विधेयभूतबृहत्वान्वयोऽपि प्रसज्येत । अपि तु यदन्विततया ज्ञाते ब्रह्मणि ब्रह्मत्वान्वयधीरिति विशेषणत्वे नानुपपत्तिः।
यदि विधेयान्वय्येव विशेषणमित्याग्रहः, तर्हि उपलक्षणपक्षो वास्तु । बृहत्वसामान्यलक्षणतृतीयाकारप्रतिपत्तेस्सम्भवादिति सिद्धान्तिनोऽभिप्रायः । न तु विशेषणत्वोपलक्षणत्वपक्षयोस्समुच्चय ”इति । इतरे तु -”तद्विजिज्ञासस्वेत्यत्र उपासनम् विधीयते । तत्र केषुचिदुपासनेषु जगत्कारणत्वमनुसन्धेयम् । तत्र ज्ञाप्यान्तर्गतत्वात् जगत्कारणत्वं विशेषणम् । यत्र तु नानुसन्धेयम् तत्रोपलक्षणम् । ज्ञाप्यानन्तर्गतत्वादिति, ”इतरे त्वर्थसामान्या”दिति व्यासार्योक्तेः । तदनुसारेण विशेषणत्वोपलक्षणत्वसमुच्चयोऽपि नानुपपन्न,”इति वदन्ति । अतो जगज्जन्मादिहेतुत्वं ब्रह्मलक्षणमिति स्थितम् ।।
इति जन्माद्यधिकरणम्।।