अन्तराधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाव प्रथमाध्यायस्य द्वितीयः पादः ॥

अन्तराधिकरणम् ॥३॥

 

एतदधिकरणचिन्तोपयुक्तम् प्रकरणमेव लिख्यते –

 

*अथ हाग्नयस्समूदिरे तप्तो ब्रह्मचारी कुशलन्नः पर्यचारीत् हन्तास्मै ब्रह्मा-वोचामे*(छान्.४-१०-४)ति स्पष्टोऽर्थः । *तस्मै होचुः । प्राणो ब्रह्म कम् ब्रह्म खम् ब्रह्मेति । स होवाच विजानाम्यहम् यत् प्राणो ब्रह्म कञ्च तु खञ्च न विजानामीति* (छान्.४-१०-५) अस्यायमभिप्रायः मुमुक्षोर्मोक्षोपदेशाय प्रवृत्तैरग्निभिः ब्रह्मैवोपा- स्यमुपदिष्टम् । तत्र प्राणादिसमानाधिकरणम् ब्रह्म निर्दिष्टम् । तत्र जगत्प्राण-यितृत्वयोगेन प्राणशब्दितत्वम् ब्रह्मण उपपन्नम् । कम् ब्रह्म खम् ब्रह्मेत्युक्तम् तु न जानामि । किम् वैषयिकसुखशरीरकमात्मशरीरकम् ब्रह्म, उत तयोरन्योऽ-न्यविशेषणविशेष्यभावेन अपरिच्छिन्नसुखम् ब्रह्मेत्यनयोर्मध्ये क्वार्थे तात्पर्यमिति न जान इत्यर्थः । *ते होचुः यद्वाव कम् तदेव खम् यदेव खम् तदेव कमिति*

(छान्.४-१०-५) विशेषणविशेष्यभाव एवाभिमत इत्यर्थः । ननु पुनरुक्तिर्व्यर्थेति चेन्न अपरिच्छिन्नसुखत्वेन सुखरूपापरिच्छिन्नत्वेन च उपासनार्थत्वात् । *प्राण-ञ्चास्मै तदाकाशम् चोचुः*(छान्.४-१०-४) प्राणत्वविशिष्टम् यद् ब्रह्म तदेव परि-च्छिन्नसुखरूपम् चेत्यग्नय उक्तवन्त इत्यर्थः । *अथ हैनम् गार्हपत्योऽनुशशास*

(छान्.४-११-१) सकलजगत्प्राणयितृ अपरिच्छिन्नसुखरूपम् च ब्रह्मेत्युपदिश्य एवमुपदिष्टमेनमुपकोसलम् गार्हपत्योऽग्निः स्वविद्याम् वक्ष्यमाणमुपदिदेशेत्याह। अथशब्दः प्रकृतविषयत्वद्योतनार्थः । *अथ हैनमि*(छान्.४-११-१)ति शब्दा-भ्याम् वक्ष्यमाणाग्निविद्यायाः प्रकृतब्रह्मविद्याङ्गत्वमुपदिश्यते । अनुशासन- प्रकारमेवाह – *पृथिव्यग्निरन्नमादित्य इति । य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति*(छान्.४-११-१) । पृथिव्यग्न्यन्नादित्यलक्षणानाम् चतुर्णाम् रूपाणाम् मध्ये अग्न्यादित्यरूपयो: पक्तृत्वप्रकाशकत्वरूपधर्म- सम्बन्धादैक्यम् । पृथिव्यन्नयोस्तु भोज्यत्वादिनैक्यम् । अग्नेरादित्येन यादृश- मैक्यम् न तादृशम् पृथिव्यन्नाभ्याम्, तस्मादादित्य एवाहमस्मीत्यग्निरुवाचेत्यर्थः । *स य एतमेवम् विद्वानुपास्ते अपहते पापकृत्याम्*(छान्.४-११-२) ब्रह्मप्राप्ति-विरोधि पापम् कर्मापहन्ति । *लोकी भवति*(छान्.४-११-२) ब्रह्म प्राप्नोतीत्यर्थः । यद्यपि ब्रह्मप्राप्तिविरोधिनिवृत्तेः ब्रह्मप्राप्तेश्च प्रधानभूतब्रह्मविद्याफलत्वमेव

तथाऽपि अङ्गिफलेन अङ्गानि स्तूयन्त इति द्रष्टव्यम् । *सर्वमायुरेति*(छान्.४-११-२)ब्रह्मोपासनप्राप्त्यै यावदायुरपेक्षितम् तत्सर्वमेवैति । *ज्योग् जीवति*(छान्. ४-११-२) व्याध्यादिभिरनुपहतस्सन्नुज्वलो जीवति । *नास्यावरपुरुषाः क्षीयन्ते*

(छान्.४-११-२) अस्य शिष्यप्रशिष्यादयः पुत्रपौत्रादयश्च ब्रह्मविद एव भवन्ति ।

*उप वयन्तम् भुञ्जामोऽस्मिन्श्च लोकेऽमुष्मिन्श्च य एतमेवम् विद्वानुपास्ते*      (छान्.४-११-१) । वयम् – अग्नयः ।। उपभुञ्जामः – विघ्नेभ्यः प्रतिपालयाम इत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । *अथ हैनमन्वाहार्यपचनोऽनुशशास*(छान्. ४-१२-१) अन्वाहार्यपचनः – दक्षिणाग्निः । *आपो दिशो नक्षत्राणि चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति स य एतमेवम् विद्वा-नुपास्ते*(छान्.४-१२-१) इत्यादि पूर्ववत् । *अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स एवाहम- स्मीति स य एतमेवम् विद्वानि*(छान्.४-१२-१)त्यादि पूर्ववत् । *ते होचुरुपकोस- लैषा सोम्य ते अस्मद्विद्या चात्मविद्या च*(छान्.४-१४-१) । प्रत्येकमनुशासना-नन्तरम् मिलित्वा तेऽब्रुवन् अस्मद्विद्या – अग्निविद्या आत्मविद्या –परमात्मविद्ये-त्यर्थः । चशब्दोऽङ्गाङ्गिविद्यारुपदेशक्रियायाम् समुच्चयद्योतनार्थः न तु समप्रा-धान्यद्योतनार्थः । *आचार्यस्तु ते गतिम् वक्ते*(छान्.४-१४-१)त्येवम् वदताम- ग्नीनामयमभिप्रायः । हे उपकोसल ब्रह्मविद्यामनुपदिश्य प्रोषिते गुरौ तदलाभा-दनास्वासम् त्वामुज्जीवयितुम् ब्रह्मस्वरूपमात्रम् तदङ्गभूता-मग्निविद्याम् च उपादिक्षाम, आचार्याद्वैव विदिताया विद्यायास्साधिष्ठत्वात् आचार्य एव सम्यद्वामत्वादिगुणकम् ब्रह्म अक्षिरूपोपासनस्थानम् अर्चिरा-दिकाम् च गतिमुपदिशत्विति । ततश्च *गतिम् वक्ते*(छान्.४-१४-१)त्यस्य अवशिष्टम् वक्तेत्यर्थः, न तु गतिमात्रमिति द्रष्टव्यम् । *आजगाम हास्याचार्यस्तमाचा-र्योऽभ्युवाद उपकोसला इति भगव इति ह प्रतिशुश्राव । ब्रह्मविद इव सोम्य ते मुखम् भाति कोऽनु त्वाऽनुशशासेति*(छान्.४-१४-१) स्पष्टोऽर्थः । एवमुक्त आह *इमे नूनमीदृशा अन्यादृशा इति हाग्नीनभ्यूदे*(छान्.४-१४-२) इदानीम् ईदृशज्वलनाकाराः पूर्वमन्याकारास्सन्त इमे अग्नय उपदिष्टवन्त इत्युक्तवा-नित्यर्थः । आचार्य आह – *किन्नु सोम्य किल तेऽवोचन्*(छान्.४-१४-२) । इतर आह – *इदमिति ह प्रतिजज्ञे*(छान्.४-१४-३) एतावदुक्तमिति प्रतिज्ञात-वानित्यर्थः । इतर आह – *लोकान्वाव किल सोम्य तेऽवोचन् अहम् तु ते तद्वक्ष्यामि, यथा पुष्करपलाश आपो न श्लिष्यते एवमेवम् विदि पापम् कर्म न श्लिष्यते*(छान्.४-१४-३) इति । हे सोम्य ते अग्नयः पृथिव्यादीन् लोकानेव तवोक्तवन्तः, न तु ज्ञातव्यम् ब्रह्म कार्त्स्न्येन अहम् तु ते पद्मपत्रजलाश्लेष-तुल्यसर्वपापाश्लेषापादकविद्याविषयभूतम् ब्रह्म वक्ष्यामि, यदि शुश्रूषस इत्यर्थः । पापाश्लेषो नाम पापहेतुभूतकर्माचरणेऽपि पापोत्पत्तिप्रतिबन्धकशक्तिमत्त्वम् । इदम् च प्रामादिकपापविषयम् । पापशब्दश्च सुकृतदुष्कृतसाधारणः । इतर आह – *ब्रवीतु मे भगवानिति तस्मै होवाच य एषोऽक्ष्णि पुरुषो दृश्यत एष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्मेति*(छान्.४-१४-३) । योगिभिर्योऽक्ष्य-न्तर्वृत्तिपुरुषो दृश्यते अयमेवात्मा नियन्तेत्यर्थः । अमृतत्वम् निरतिशयभोग्यत्वम् अभयत्वम् – दुःखासम्भिन्नत्वम् ब्रह्मत्वम् -निरतिशयबृहत्त्वम् *एतम् संयद्वाम इत्याचक्षते एतम् हि सर्वाणि वामान्यभिसम्यन्ति य एवम् वेद*(छान्.४-१५-२) । सम्यन्ति सङ्गतानि वामानि वननीयानि यस्मिन् स संयद्वामः । सर्व कल्याण-गुणाश्रयत्वम् सत्यसङ्कल्पत्वम् वा  संयद्वामत्वम् । तदुपासकस्यापि तत्क्रतु-न्यायात्तद्भवतीत्यर्थः । *एष उ एव वामनीरेष हि सर्वाणि वामानि नयति च एवम् वेद*(छान्.४-१५-३) वामनीत्वम् – स्वाश्रितेषु शोभनधीप्रापकत्वम् । तत्क्रतु-न्यायेन तद्गुणोपासकस्यापि तद्भवतीत्यर्थः । *एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति य एवम् वेद*(छान्.४-१५-४) | भामनीत्वम् सर्वलोकव्याप्तदीप्ति- मद्विग्रह युक्तत्वम् । उपासकस्यापि तद्भवत्यपेक्षायाम् सत्यामित्यर्थः । अत्र

संयद्वामत्ववामनीत्वभामनीत्वेषु फलकथनम् फलरूपतात्पर्यलिङ्गोपन्यासेन तेषु गुणेषु तात्पर्यप्रदर्शनार्थम्, न तु स्तुतिरूपमिति प्रदर्शनार्थम् । *अथ यदु चैवास्मिन् शव्यम् कुर्वन्ति यदु च न अर्चिषमेवाभिसम्भवन्ति*(छान्.४-१५-५) । अथशब्दः प्रकृतविषयत्वद्योतनार्थः । अस्मिन् – ब्रह्मविदि सामान्याभिप्रायत्वा-देकवचनस्य उत्तरत्र *अभिसम्भवन्ती*(छान्.४-१५-५)ति बहुवचनेन न विरोधः । यत् – यदि शव्यम् – दहनादिकर्म । अर्चिरादिशब्दाश्च तदभिमानिदेवतापरा इत्यन्यत्र स्थितम् । अत्र केचित् – उपकोसलविद्याङ्गभूताग्निविद्यावैभवेन शव-दहनादिवैगुण्येऽपि उपकोसलविद्यानिष्ठस्य न क्षतिः । विद्यान्तरनिष्ठस्य दहना-दिवैगुण्ये किञ्चिद्वैगुण्यमस्तीति वदन्ति । तन्न *न कर्मणा लिप्यत*( तै.काठक-३-५-६)इति श्रुतिसिद्धार्थानुवादित्वादस्य एतादृशार्थप्रत्यायकत्वाभावात्, अतो *यदु चैवास्मिन्नि*(छान्.४-१५-५)त्येतत् सर्वब्रह्मवित्साधारणमेव । *अर्चिषोऽहरह* (छान्.४-१५-५)इत्यादि ।

 

अत्र शङ्कयते – *य एषोऽक्षिण पुरुषो दृश्यत*(छान्.४-१५-१) इति निर्दि-श्यमानः प्रतिबिम्बात्मा प्रसिद्धवन्निर्देशात्, *दृश्यत*(छान्.४-१५-१) इत्यपरो-क्षाभिधानाच्च, जीवो वा स्यात् । चक्षुषि तस्य विशेषेण सन्निधानात् प्रसिद्धिरुप-पद्यते । उन्मीलितचक्षुरुद्वीक्षणेन जीवस्य स्थितिगतिनिश्चयात् दृश्यत इत्युक्ति- रुपपद्यते न तु परमात्मा । तस्यानाधारत्वाददृश्यत्वाच्च । न च आत्मत्वाभयत्व-

ब्रह्मत्वादिविरोधः । *एष आत्मेति होवाचे*(छान्.४-१५-१)ति इतिकरणेन *मनो ब्रह्मेत्युपासीते*(छान्.३-१८-१)तिवदर्थाविवक्षाया दर्शितत्वादिति प्राप्त उच्यते –

अन्तर उपपत्तेः ॥११३॥

 

अक्ष्यन्तरः परमात्मा । तत्रैव आत्मत्वामृतत्वसंयद्वामत्ववामनीत्वादिधर्मा-णामुपपत्तेः । च इतिकरणेन तेषामविवक्षा आशङ्क्या । यत्रोच्यमानस्यार्थस्य अनुक्तार्थवचनसम्बन्धः प्रतिपाद्यः, तत्रेतिशब्दो नार्थविवक्षाम् वारयति *इति हस्मोपाध्यायःकथयती*ति । तस्मात् इह अमृतत्वादिना आचार्यवचनसम्बन्धस्य प्रतिपाद्यत्वात् इतिशब्दो *मनो ब्रह्मेति*(छान्.३-१८-१)वन्नार्थविवक्षावारकः । तथा च स्वाभाविकामृतत्वादीनाम् जीवे असम्भवात् तथा प्रतिबिम्बे *रश्मिभि-रेषोऽस्मिन् प्रतिष्ठित*( बृह.५-७-१)इति चक्षुः प्रतिष्ठितत्वेन श्रुतिप्रसिद्धादित्य-रूपदेवताविशेषे चासम्भवात् परमात्मैव अक्ष्यन्तरवर्ती ॥

 

यदुक्तम् निराधारस्य परमात्मनश्चक्षुरवस्थितिर्नसम्भवतीति तत्राह –

 

स्थानादिव्यपदेशाच्च ॥११४॥

 

*यश्चक्षुषि तिष्ठन्नि*(बृह.५-७-१८) ‘त्यादावन्तर्यामिब्राह्मणेषु चक्षुषि स्थिति-नियमनादेः परमात्मधर्मतया श्रवणात् योगिभिर्दृश्यत इत्युपपत्तेश्च अक्ष्यन्तर-वर्तिनः परमात्मत्वे नानुपपत्तिः ॥

 

सुखविशिष्ठाभिधानादेव च ॥११५॥

 

*के ब्रह्म खम् ब्रह्मे*(छान्.४-१०-५)ति अपरिच्छिन्नत्व विशिष्टसुखरूप-स्याग्निभिरुपदिष्टस्य ब्रह्मण एव *य एषोऽक्षिणिपुरुषो दृश्यत* (छान्.४-१५-१) इतिवाक्येप्रकृतपरामर्शिना *य एष*(छान्.४-१५-१) इति सर्व-नाम्नाऽभिधीय-मानत्वाच्च। न च तत् ब्रह्म अग्निविद्यया व्यवहितमिति वाच्यम् । अग्निविद्याया अपि ब्रह्मविद्याङ्गत्वेन *न हि स्वाङ्गमि*ति न्यायेन अव्यवधायक-त्वात् । तदङ्ग-त्वञ्च तत्प्रकरणमध्यपातात् । *अथ हैनम् गार्हपत्योऽनुशशासे* (छान्.४-११-१) ति ब्रह्मविद्याधिकृतस्यैव अग्निविद्योपदेशप्रतिपादनात् ब्रह्म-विद्योपयुक्तफलव्यतिरिक्तफलान्तराश्रवणाच्च ।

ननु *कम् ब्रह्म खम् ब्रह्मे*(छान्.४-१०-५)ति वाक्येन अपरिच्छिन्नसुखरूपम् ब्रह्मेति नोपदिश्येत । अपि तु *प्राणो ब्रह्म कम् ब्रह्म खम् ब्रह्मे*(छान्.४-१०-५)ति त्रिभिर्वाक्यैः मुख्यप्राणे वैषयिकसुखे आकाशे च ब्रह्मदृष्टिर्विधीयते तत्राह-

 

अत एव च स ब्रह्म ॥११६॥

 

अत एव अपरिच्छिन्नसुखस्य ब्रह्मत्वाभिधानादेव अपरिच्छिन्नरूपम् ब्रह्मैव । नाब्रह्मणि ब्रह्मदृष्टिः । अब्रह्मभूतेषु मुख्यप्राणलौकिकसुखाकाशेषु च ब्रह्म-दृष्टिविधिरूपत्वे तत्रानुपपत्तेरेवा भावेन “विजानाम्यहम् यत्प्राणो ब्रह्म कञ्च तु खञ्च न विजानामी*(छान्.४-१०-५)ति प्रश्नस्य, *यद्वाव कम् तदेव खम् यदेव                                                                                               खम् तदेव कमि*(छान्.४-१०-५)ति प्रतिवचनस्यच, असङ्गतत्वापत्तेः । अनुपपत्तिप्रकार श्च एतद्वाक्य व्याख्यानावसरे वर्णितः अतः अक्ष्यन्तरः परब्रह्म ।

 

श्रुतोपनिषत्कगत्यभिधानाच्च ॥११७॥

 

श्रुतोपनिषत्कस्य अधिगतपरमपुरुषयाथात्म्यस्य अनुसन्धेयतया श्रुत्यन्तरप्रतिपाद्यमाना अर्चिरादिका या गतिः तामपुनरावृत्तिलक्षणपरम-पुरुषप्राप्तिकरी उपकोसलायाक्षिपुरुषम् श्रुतवते *अथ यदु चैवास्मिन् शव्यम् कुर्वन्ति यदु च ने*(छान्.४-१५-५)त्यादिना आचार्य उपदिशति । अतोऽप्ययम् परमपुरुषः परमात्मा ।

 

अनवस्थितेरसम्भवाच्च नेतरः ॥११८॥

 

प्रतिबिम्बादीनाम् नियमेन अक्षणि अनवस्थानात्, अमृतत्वादीनाम् च निरु-पाधिकानाम् तेष्वसम्भवात्, न परमात्मेतरच्छायादिरक्षिपुरुषो भवितुमर्हतीति स्थितम् ।

इति अन्तराधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.