अत्त्रधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाव प्रथमाध्यायस्य द्वितीयः पादः ॥

अत्त्रधिकरणम् ॥२॥

 

कठवल्लीष्वाम्नायते – *यस्य ब्रह्म च क्षत्रञ्च उभे भवत ओदनः | मृत्युर्यस्योपसेचनम् क इत्था वेद यत्र सः*(कठ.१-२-२४)  ब्रह्मक्षत्राख्यवर्णद्वयोपलक्षितकृत्स्नचराचरात्मकमिदम् जगत् यस्यौदनो भवति – विनाश्यम् भवतीत्यर्थः । यस्य मृत्युः स्वयमद्यमानत्वे सति अन्यस्या-दनहेतुर्भवति तत्प्रकारम् इदमित्थमिति को वेदेत्यर्थः ।

ननु ब्रह्मक्षत्रशब्देन कृत्स्नचराचरग्रहणे किम् बीजमिति चेत्, उच्यते – ब्रह्म क्षत्रञ्च ओदन इत्युक्ते ब्राह्मणक्षत्रियवर्णयोः कञ्चित् प्रति ओदन-शब्दमुख्यार्थत्वासम्भवात् ओदनशब्देन भोज्यत्वम् भोग्यत्वम् वा विना-श्यत्वम् वा लक्षणीयम् । न हि ब्रह्मक्षत्रमात्रभो तन्मात्रसम्हर्ता वा क्वचि-ज्जीवो वा परमात्मा वाsस्ति । न च अन्तरादित्यविद्यायाम् *ये चामु-ष्मात्पराञ्चो लोकास्तेषाञ्चेष्टे*इति सर्वलोकेश्वरे परमात्मनि उपासनार्थम् लोकविशेषेशितृत्वश्रवणवत् सर्वसम्हर्तर्यपि परमात्मनि ब्रह्मक्षत्रसम्हरणम् उपासनार्थमुपदिश्यतामिति वाच्यम् । तद्वदस्योपासनाप्रकरणत्वाभावात्। अत: ब्रह्मक्षत्रग्रहणस्य चराचरमात्रोपलक्षणत्वम् युक्तमिति द्रष्टव्यम्।

नन्वेमपि ओदनशब्देन किमिति विनाश्यत्वम् लक्षणीयम् । गौणत्व- मपि शब्दस्य साधारणगुणमपहाय असाधारणगुणेनैव निर्वाह्यम् । न हि *अग्निर्माणवक* इत्यत्र अग्निशब्देन पैङ्गळ्यादेरिव द्रव्यत्वादेरुपस्थि-तिरस्ति । अत एव च प्रोद्गातृशब्दः सर्वर्त्विक्साधारणगुणम् विहाय उद्गातृगणमात्रलक्षकः पूर्वतन्त्रे निर्णीतः, तद्वादिहापि ब्रह्मक्षत्रयोः ओदन-शब्दमुख्यार्थत्वासम्भवेऽपि भोज्यत्वभोग्यत्वरूपान्तरङ्गाकारलक्षकत्व-मेव युक्तम्, नत्वत्यन्तबहिरङ्गस्य विनाश्यत्वाकारस्य । येन निखिल-चराचरसम्हर्ता परमात्माऽत्र वाक्ये प्रतीयते इति चेत् उच्यते – यद्यपि विनाश्यत्वम्साधारणाकारः, तथाऽपि *मृत्युर्यस्योपसेचनमि*(कठ.१-२-२४) ति वाक्य – शेषानुरोधात् साधारणोऽपि गौण्या वृत्त्या लक्षयितुमुचितः । न च उपसैचनशब्दस्य ओदनशब्दस्वारस्यानुरोधेन असाधारणाकाररूप-भोग्यत्वे लक्षिते जघन्यमुपसेचनपदम् अबाधकत्वाभिप्रायेण कथञ्चि-न्नीयताम् अतश्च यो ब्रह्मक्षत्रभोक्ता यस्य च मृत्युरबाधकः सोऽस्मिन् मन्त्रे प्रतिपाद्यतामिति वाच्यम् । उपसेचनत्वेन रूपितस्य मृत्योः ओदन-त्वरूपितेन ब्रह्मक्षत्रशब्दितेन दध्यन्नवत् प्रतीतस्य सम्बन्धस्य सर्वा-त्मना बाधप्रसङ्गात् । न हि यस्य ब्रह्मक्षत्रम् भोग्यम् यस्य च मृत्यु-रबाधक इत्युक्ते मृत्योः ब्रह्मक्षत्रस्य च सम्बन्धः प्रतीयते । अत: उपसेचनशब्दस्य ओदनशब्दापेक्षया जघन्यत्वेऽपि अबाधकत्वरूपसाधा-रणगुणम् विहाय स्वयमद्यमानत्वे सति अन्यादनहेतुत्वरूपासाधारणाकार एव ग्राह्यः । अतश्च एकवाक्यान्तर्गतचरमश्रुतोपसेचनपदानुसारेण ओदन-शब्देनापि विनाश्यत्वमेव लक्षणीयम् । स्वबुद्ध्युपस्थापनीयविशेषा-काररूपगुणग्रहणादपि एकवाक्यतापन्नपदान्तरोपस्थापितविशेषाकार- रूपगुणग्रहणस्यैव बुद्धिलाघवेन एकवाक्यतासामार्थ्यानुरोधेन न न्याय्य-त्वादिति अत्त्रधिकरणे निर्णीतत्वादित्यलम् पल्लवितेन ।

*क इत्था वेद यत्र स*(कठ.१-२-२४)इत्यस्यार्थस्य दुर्बोधत्वेन न वयम् तदुपासने शक्ता इति मन्यामानम् प्रति उपास्योपासकयोरेकगुहानु- प्रवेशेन परमात्मनश्च सूपास्यत्वम् द्वाभ्याम् मन्त्राभ्याम् दर्शयति -ऋतम् पिबन्तौ सुकृतस्य लोके गुहाम् प्रविष्टौ परमे परार्द्ध्ये छायातपौ ब्रह्म-विदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः*(कठ.१-३-१)। सत्यपद-वाच्यावश्यम्भावि कर्मफलमनुभवन्तौ सुकृतसाध्यलोक-वर्तिनौ हृदयगुहाम् प्रविष्टौ परार्द्ध्ये उत्कृष्टे परमाकाशे वर्तमानौ अज्ञसर्वज्ञरूपतया छाया-तपशब्दनिर्दिष्टौ पञ्चाग्निशुश्रूषापरिशुद्धान्तः करणाः त्रिणाचिकेता ब्रह्म-विदो वदन्तीत्यर्थः । अत्र वाक्ये छाया-शब्देन जीवम् निर्दिशतोऽय-मभिप्रायः । उपास्योपासकयोरेकगुहावर्तित्वे तयोरेव प्राप्यप्राप्तृतया प्राप्यस्य च तत्प्राप्तिसाधनत्वेन निरूपिते शरीरे अवस्थानम् न युक्तम् । न हि रथेन प्राप्तव्योऽर्थो रथस्थो भवतीति शङ्का न कार्या । प्राप्यस्य परमात्मनस्तत्रावस्थित्वेऽपि जीवस्य *पराभिध्यानात्तु तिरोहितमि* (ब्र.सू. ३-२-४)त्युक्तरीत्या परमात्मसङ्कल्प-रूपाविद्यावेष्टिततया तदनुभवलक्षण-तत्प्राप्तेरभावेन प्राप्तृप्राप्ययोः रथत्वरूपितशरीरान्तर्वर्त्येकगुहावर्तित्वे-नानुपपत्तिः ।

तत्र *यस्य ब्रह्म च क्षत्रञ्चे*(कठ.१-२-२४)ति वाक्ये ब्रह्मक्षत्रिययोरेव ओदनत्वरूपणेन भोज्यत्वस्य वा भोग्यत्वस्य वा प्रतीतेः तत्प्रतिसम्ब-न्धि यस्येति षष्ठ्यन्तयच्छब्दनिर्दिष्टो भोक्ता जीव एव स्यात्, परमा- त्मनो भोक्तृत्वासम्भवादिति पूर्वपक्षे प्राप्ते *अत्ता चराचरग्रहणादि* त्यादि भिश्चतुर्भिस्सूत्रैः सिद्धान्तः कृतः

 

अत्ता चराचरग्रहणात्॥१-२-९॥

 

*उभे भवत ओदन*(कठ.१-२-२४) इति ओदनप्रतिसम्बन्धितया प्रती-यमानः अत्ता परमात्मैव । ब्रह्मक्षत्रशब्दगृहीतनिखिल चराचरसम्हर्तृत्वस्य अस्मिन् मन्त्रे प्रतिपादनात् ।

 

प्रकरणाच्च ॥१-२-१०॥

 

प्रकरणञ्चेदम् परस्यैव ब्रह्मणः । *महान्तम् विभुमात्मानमि*(कठ.१-२-२१)ति प्रस्तुतत्वेन तस्य ब्रह्मप्रकरणमध्यगतत्वाच्च ।

ननु *ऋतम् पिबन्तावि*(कठ.१-३-१)त्युत्तरमन्त्रे कर्मफलभोगान्वयि-नोरेव प्रतिपादनात् परमात्मनश्च जीववत् कर्तृत्वेन वा अन्तः करणवत् करणत्वेन वा अन्वयासम्भवात्, परमात्मप्रकरणमध्यगतत्वन्नास्तीत्या-शङ्कायामाह-

 

गुहाम् प्रविष्टावात्मानौ हि तद्दर्शनात् ॥१-२-११॥

 

गुहाम् प्रविष्टौ जीवपरमात्मानावेव तयोरेव अस्मिन् प्रकरणे गुहाप्रवेश- दर्शनात् । *तम् दुर्दुर्शम् गूढमनुप्रविष्टम् गुहाहितमि*(कठ. १-२-१२)ति परमात्मनो गुहाप्रवेशश्श्रूयते । *या प्राणेन सम्भवत्यदितिर्देवतामयी । गुहाम् प्रविश्य तिष्ठन्ती*(कठ.२-१-७)ति पिबदपिबतोः छत्रिन्यायेन *ऋतम् पिबन्तावि*(कठ.१-३-१)ति निर्देशस्य सम्भवात् *ऋतम् पिबन्ता-वि*(कठ.१-३-१)ति मन्त्रेन परमात्मप्रकरणविच्छेदश्शक्यशङ्कः ॥

 

विशेषणाच्च ॥१-२-१२॥

 

अस्मिन् प्रकरणे *ब्रह्मजज्ञम् देवमीड्यम् विदित्वे*(कठ.१-२-१७)ति जीवपरयोः उपास्यत्वोपासकत्वादिना विशेषितत्वात् तयोरेव उपासन-सौकर्याय एकाधिकरणस्थत्वप्रतिपादनार्थत्वात्, *ऋतम् पिबन्तावि*       (कठ.१-३-१)ति मन्त्रस्य जीवपरप्रतिपादकत्वमेव । अतो *यस्य ब्रह्म च क्षत्रञ्चे*(कठ.१-२-२५) तिमन्त्रः परमात्मपर एव ।

ननु कर्मफलभोगशून्ये परमात्मनि *ऋतम् पिबन्तावि*(कठ.१-३-१) ति निर्दिष्टकर्मफलभोक्तृत्वासम्भवात्, सुकृतसाध्यलोकवर्तित्वगुहाव-च्छिन्नत्वयोस्सर्वगते परस्मिन् ब्रह्मण्यसम्भवात्, छायातपशब्दनिर्दिष्टा- प्रकाशकत्वप्रकाशकत्वयोरपि जीवपरमात्मपरत्वे असम्भवात्, बुद्धिजीव-परत्वे तु तस्य सर्वस्याप्युपपत्तेः, कर्मफलभोगे करणे कर्मत्वोपचारेण *पिबन्तावि*(कठ.१-३-१)ति निर्देशस्याप्युपपत्तेः बुद्धिजीवपरत्वमेवास्य मन्त्रस्य युज्यत इति चेत् । उच्यते – सङ्ख्याश्रवणे सति एकस्मिन् सम्प्रतिपन्ने द्वितीयाकाङ्क्षायाम् प्रतिपन्नजीवजातिमुपजीव्य व्यक्ति-विशेषपरिग्रहे बुद्धिलाघवाद्विजातीयपरिग्रहे जातिव्यक्तिबुद्धिद्वयापेक्षागौर-वात् सम्प्रतिपन्नजातिपरिग्रहो युक्तः । लोकेऽपि *अस्य गोर्द्वितीयोऽन्वे-ष्टव्य* इत्यादिषु तथा दर्शनात्। तथा च ऋतपानलिङ्गावगतस्य जीवस्य द्वितीयशेतनत्वेन तत्सजातीयः परमात्मैव ग्राह्यः । परमात्मनः प्रयोजक- कर्तृतया पिबन्ताविति निर्देशस्यापि सम्भवात्, अन्तःकरणे स्वतन्त्र-कर्तृत्वप्रयोजककर्तृत्वयोरभावेन ऋतम् *पिबन्तावि*(कठ.१-३-१)ति निर्देशस्य सर्वथाऽप्यसङ्गतत्वात्, सर्वगते ब्रह्मणि सुकृतसाध्यलोक-वर्तित्वस्यापि सम्भवात्, अस्मिन्नेव प्रकरणे *गुहाहितम् गह्वरेष्ठमि* (कठ.१-२-१२)ति परमात्मनो गुहाप्रवेशश्रवणेन गुहाम् प्रविष्टावित्यस्या- प्युपपत्तेः, छायातपशब्दाभ्याम् किञ्चिज्ज्ञसर्वज्ञयोः प्रतिपादनाज्जीव-परमात्मपर एवायम् मन्त्र इति समर्थितत्वात्, न त्वदुक्तशङ्कावकाशः । *तयोरन्यः पिप्पलम् स्वाद्वत्ती(मुण्ड.३-११)ति सत्वमि*ति पैङ्गिरहस्य- ब्राह्मणानुसारेण *द्वासुपर्णे*(मुण्ड.३-११)ति मन्त्रस्य जीवपरत्वात्, *इयदा-मननादि*(ब्र.सू.३-३-३४)त्यधिकरणे *ऋतम् पिबन्तावि*(कठ.१-३-१)ति मन्त्रस्य *द्वासुपर्णे*(मुण्ड.३-११)ति मन्त्रैकार्थ्यस्य प्रतिपादितत्वात्, अयमपि मन्त्रो बुद्धिजीवपर एवेत्यस्याश्शङ्कायाः *गुहाम् प्रविष्टा-वात्मनावि*(ब्र.सू.१-२-११)ति सूत्रकृतैव निराकृतत्वात् नास्माभिस्स- न्नह्यते । किञ्च जीवे गुहाप्रवेशस्य बुद्ध्युपाधिकतया स्वतः प्रवेशवत्या बुद्ध्या सह जीवस्य *गुहाम् प्रविष्टावि*(ब्र.सू.१-२-११)ति गुहाप्रवेशवर्णनम् न सङ्गच्छते । उपष्टम्भकाधीनगुरुत्वशालिनि सुवर्णे गुरुसुवर्णमिति व्यवहारसम्भवेऽपि उपष्टम्भकसुवर्णे गुरुणी इति व्यव-हारादर्शनात् । अत एव परपक्षे सूत्रानुसारेण अस्य मन्त्रस्य जीवपर-मात्मपरतया कृतम् योजनान्तरमप्यनुपपन्नम् । *अनेन जीवेनात्मने* (छान्.६-३-२)ति श्रुत्यनुसारेण परमात्मनः जीवभावेन अनुप्रवेशेऽपि परमात्मरूपेण अनुप्रवेशाभावात् जीवपरमात्मानौ गुहाम् प्रविष्टाविति निर्देशानुपपत्तेः, जीवभावेन ब्रह्मणस्सम्सारमभिप्रेत्य ब्रह्म सम्सरतीति व्यवहारसत्वेऽपि जीवब्रह्मणी सम्सरत इति व्यवहारासम्भवात्, जीवे-शावाभासेन करोति माया चाविद्या च स्वयमेव भवति । *कार्योपाधिरयम् जीवः कारणोपाधिरीश्वर* इति वचनानुसारेण परिगृहीते अविद्याया वा अन्तः करणस्य वा जीवोपाधित्वमिति पक्षद्वयेऽपि नाविद्यान्तःकर-णयोः प्रतिबिम्बोपाधित्वम् युज्यते । स्वच्छद्रव्यप्रतिहतिपरावृत्तनायन-रश्मिगृह्यमाणस्यैव प्रतिबिम्बशब्दार्थतया अचाक्षुषस्य चैतन्यस्य प्रतिबि-म्बत्वासम्भवेन अविद्याप्रतिबिम्बो वा अन्त:करणप्रतिबिम्बो वा जीव

इत्याश्रयणायोगात्, अविद्यावच्छिन्नो वा अन्त:करणावच्छिन्नो वा जीव इति पक्षद्वयमेव परिशिष्यते । तत्र च हृदयगुहाया अविद्याऽन्तःकरणाभ्या-मवच्छिन्नत्वेन अनवच्छिन्नपरमात्मनो गुहाप्रवेशवर्णना श्रुतेर्वा अन्तर्या-मिब्राह्मणस्य वा नाञ्जस्यमित्यलमतिचर्चया ॥

इति अत्त्रधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.