॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाव प्रथमाध्यायस्य द्वितीयः पादः ॥
अदृश्यत्वादिगुणकाधिकरणम् ॥५॥
मुण्डकोपनिषदि – *शौनको ह वै महाशालोऽङ्गिरसम् विधिवदुपसन्नः पप्रच्छ, कस्मिन्नु भगवो विज्ञाते सर्वमिदम् विज्ञातम् भवतीति*(मुण्ड.१-१-३) सर्वोपादानम् किमिति प्रश्नार्थः । *तस्मै स होवाच द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति*(मुण्ड.१-१-४) । अत्र प्राप्तुमित्यध्याहारः । अत्र यद्वस्तु प्राप्तुम् द्वे ज्ञाने उपादेये इति ह वेदाभिज्ञाः पराशरादयः *तत्प्राप्तिहेतुर्ज्ञानश्च कर्म चोक्तम् महामुने । आगमोत्थम् विवेकाच्च द्विधा ज्ञानम् तथोच्यते ॥ शब्दब्रह्मागममयम् परम्ब्रह्म विवेकजमि*(वि.पु. ६-५-६०, ६१)ति वदन्ति,
तस्मिन् विज्ञाते सर्वामिदम् विज्ञातम् भवतीत्यन्वयः । अयम् भावः-अत्र प्राप्तु-मितिपदानध्याहारे यत्पदवैयर्थ्यम्, *कस्मिन्नु भगव*(मुण्ड.१-१-३) इति सर्वोपादाने पृष्टे विद्याद्वयकथनञ्च असङ्गतम् स्यात् । अध्याहारे च सति
यत्प्राप्तुमेतत्प्रेप्सुभिरित्यर्थस्सम्पन्नः । विद्याशब्दस्य ज्ञानपरत्वम् *आग-मोत्थम् विवेकाच्चे*(मुण्ड.१-१-४)ति उपबृह्मणानुसारेण मुख्यया वृत्त्याऽङ्गीकृतम् तदनुसारेणैव परोक्षत्वापरोक्षत्वरूपेण द्विधा – ज्ञानमप्युपपन्नम् । नचैवमु-त्तरसन्दर्भविरोधः, *अथ परा यया तदक्षरमधिगम्यत* (मुण्ड. १-१-५) इति एकस्या एव विद्यायास्तत्प्राप्तिहेतुत्वकथनादिति वाच्यम् । प्राप्तुमित्यध्याहृत-पदसहितेन प्रथमश्रुतेन *द्वे विद्ये वेदितव्ये*(मुण्ड.१-१-४) इत्यनेन विद्याद्वय-स्यापि प्राप्तिहेतुत्वावगमात् अपरविद्याया अपि *आगमोत्थम्*(मुण्ड.१-१-४) – इत्युपबृह्मणा- नुसारेण ऋग्वेदादिलक्षणागमजन्यपरोक्षज्ञानत्वसम्भवात् न कोऽपि विरोधः । ततश्चायम् निर्गळितोऽर्थः – यत्प्राप्तुम् यत्प्रेप्सुभिर्ब्रह्मविषये परोक्षापरोक्षविषये द्वे विद्ये द्वे ज्ञाने वेदितव्ये उपादेये इति तस्माद्यथोक्त एवार्थः। अपरज्ञान-स्वरूपमाह – *तत्रापरा ऋग्वेदो यजुर्वेदस्सामवेदोऽथर्ववेद- श्शिक्षा कल्पो व्याकरणम् निरुक्तम् छन्दो ज्योतिषमितिहासम् न्यायपुराणमीमाम्सा-धर्मशास्त्राणीति*(मुण्ड. १-१-५) षडङ्गोपेतसशिरस्कसोपबृम्हणावेदश्रव-णादिजन्यज्ञानानन्तरभाविदर्शनसमानाकारम् परज्ञानमित्यर्थः । अधिगम्यते –आधिक्येन गम्यत इत्यर्थः । श्रीविष्णुपुराणे-*द्वे विद्ये वेदितव्ये वै इति चाथर्वणी श्रुतिः। परया त्वक्षरप्राप्तिरि*(वि.पु. )ति अधिगम्यत इत्यस्य प्राप्त्यर्थतया उपबृम्हितत्वात् । तथा व्याख्याने चापरोक्षत्वप्रतिपादकभाष्य-विरोध इति चेत्तर्हि *इति हस्म यद्ब्रह्मविद*(मुण्ड.१-१-४) इति पूर्ववाक्ये द्वयोरपि
विद्ययोर्ब्रह्मप्राप्तिहेतुत्वस्य कथित्वेन परविद्याया अव्यावर्तकत्व प्रसङ्गेनाध्या-हृतसाक्षात्पददाने यया साक्षादक्षरमधिगम्यते प्राप्यत इत्यस्तु, *निचाय्य तम्*(कठ.१-३-१५) *तस्मिन् दृष्टे परावर*(मुण्ड. २-२-९) इत्यादिभिररर्थ सिद्धापरोक्ष्य- प्रतिपादकम् भाष्यमिति मन्तव्यम् । ननु *तेषामेवैताम् ब्रह्मविद्याम् वदेते* (मुण्ड.३-२-१०)त्युपसम्हारगतब्रह्मविद्याशब्दस्य ब्रह्मविद्याम् वेदविद्यामित्युपनिषत्परतया व्याख्यातत्वात्,*प्रोवाच ताम् तत्वतो ब्रह्मविद्यामि* (मुण्ड. १-२-१३)ति द्वितीयखण्डे उपक्रमे च *ब्रह्मविद्याम् सर्वविद्याप्रतिष्ठा-मथर्वाय ज्येष्ठपुत्राय प्राहे*(मुण्ड. १-१-१) “त्युक्तिकर्मतया श्रूयमाणयोर्ब्रह्म-विद्याशब्दयोरु-पनिषद्ग्रन्थरूपत्वस्यैवौचित्यात्, *तत्रापरा ऋग्वेदोयजुर्वेद* (मुण्ड. १-१-५) इत्यत्र ऋग्वेदादिशब्दानाम् तज्जन्यज्ञानलक्षणाया अयुक्तत्वेन विद्याशब्दस्यैव ग्रन्थपरत्वाश्रयणस्य युक्तत्वात्, परविद्याशब्देनापि साक्षाद्ब्रह्म-प्रतिपादकोपनिषद्भाग एवाभिधातुमुचितः, न तु परोक्षापरोक्षज्ञानपरत्वमिति चेत् यदि परविद्याशब्देन उपनिषद्ग्रन्थसन्दर्भ विशेषः प्रतिपाद्यः, ऋग्वेदादिशब्देन मुख्यया वृत्त्या ऋग्वेदादय एव प्रतिपाद्याः, तर्हि ब्रह्मप्रतिपादकोपनिषदाम् ऋग्वेदादिबहिर्भावप्रसङ्गेन *या वेदबाह्याः स्मृतय*(मनुस्मृतिः.१२-९६) इत्युक्तरीत्या असदर्थत्वमेव स्यात् । ऋग्वेदादिशब्दानाम् मुख्यत्वमाश्रित-वद्भिरपि परैरुपनिषदाम् वेदब्राह्मत्वप्रसङ्गात्, परविद्याशब्दो ज्ञानवाचीति व्याख्यातम् । इयाम्स्तु विशेषः | परमते *द्वे विद्ये वेदितव्ये*(मुण्ड.१-१-४) इत्यत्र सकृत्प्रयुक्त एव विद्याशब्दोऽसत्यपि साधारणे प्रवृत्तिनिमित्ते ऋग्वेदादिग्रन्थ-सन्दर्भलक्षणाम् अपरविद्याम् ब्रह्मज्ञानलक्षणाम् परविद्याञ्च वक्तीति दोषोऽस्ति । अस्मन्मते स नास्ति । किञ्च परव्याख्याने ऋग्वेदादिवेद्य-विलक्षणत्वाद्ब्रह्मणः *वेदैश्च सर्वैरहमेव वेद्य*(गी.१५-१५) इति स्मृतिः । पीड्येत । अतः ऋग्वेदा-दिजन्य-ज्ञानम् ब्रह्मविषयकमेवेत्येव युक्तम् । अतः परापरशब्दितापरोक्ष-परोक्षज्ञानविषयत्वम् ब्रह्मण एवेति भाष्यकारीयारीतिरेव साधीयसी ।
*यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्श्रोत्रम् तदपाणिपादम् नित्यम् विभुम् सर्वगतम् सुसूक्ष्मम् यद्भूतयोनिम् परिपश्यन्ति धीराः*(मुण्ड.१-१-६) अद्रेश्यम् – अदृश्यम् ज्ञानमिन्द्रियाविषयः । अग्राह्यम् –पाण्यादिकार्यहानो-पादानाद्य-विषयः । अगोत्रम् – कुलरहितम् । अवर्णम् –अपेतब्रह्मक्षत्रादिकम् अचक्षुश्श्रोत्रम् – ज्ञानेन्द्रियरहितम् । तत् – प्रसिद्धम् अपणिपादम् – कर्मेन्द्रियरहितम् नित्यम् – कालापरिच्छिन्नम्। सर्वगतम् –सर्वमन्तःप्रविश्या-वस्थितम् तत्र हेतुमाह – सुसूक्ष्ममिति उक्तविशेषणविशिष्टम् यत्तदव्ययम्
*अथ परा यया तदक्षरमि*(मुण्ड.१-१-५)त्यत्र अक्षरशब्दनिर्दिष्टमित्यर्थः । धीराः – ब्रह्मज्ञानशालिनः यत् सर्वभृतोपादानतया पश्यन्तीत्यर्थः । योनिशब्दस्य उपा-दानवचनत्वम् *यथोर्णनाभिस्सृजते गृह्णते चे*(मुण्ड.१-१-७)ति वाक्यशेषादव-गम्यते । ननु भूतयोनिशब्दनिर्दिष्टम् सर्वोपादानत्वम् ब्रह्मणो न सम्भवति, घटा- दिषु मृदादेरेव उपादानत्वदर्शनेन ब्रह्मण उपादानत्वासम्भवादित्याशङ्क्य मृदादिष्वपि ब्रह्मण आत्मतया व्याप्तत्वात् मृदादिरूपस्य ब्रह्मण उपादानत्वे नानुपपत्तिरित्यभिप्रयन्नाह – *यस्मात्परम् नापरमस्ति*(श्वेत.३-९, तै.महाना.१२-३) अत्र परशब्दः उत्कृष्टवचनः अपरशब्दः अन्यवचनः । यस्मादन्यदुत्कृष्टम् नास्तीत्यर्थः । नात्र परापरयोर्द्वयोरपि निषेधः ञः सकृच्छ्रुतस्यावृत्ति-प्रसङ्गात् । *यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित्*(श्वेत.३-९, तै.महाना.१२-३) अणीयस्त्वम् – सूक्ष्मत्वम् व्यापित्वमिति यावत् । ज्यायस्त्वम् – सर्वेश्वरत्वम् सर्वव्यापित्वा- त्सर्वेश्वरत्वात् एतद् व्यतिरिक्तस्य क स्यापि अणीयस्त्वज्यायस्त्वे नास्तीत्यर्थः । कश्चिदिति लिङ्गव्यत्ययः छान्दसः । किञ्चिदित्यर्थः । *वृक्ष इव स्तब्धो दिवि तिष्ठत्येकः*(श्वेत.३-९, तै.महाना.१२-३) नन्तव्यवस्त्वभावात् वृक्ष इवाप्रणतस्स्वभावः । दिवि – परमपदे आस्त इत्यर्थः । *तेनेदम् पूर्णम् पुरुषेण सर्वम्*(श्वेत.३-९, तै.महाना.१२-३) । नियमनार्थमन्तः प्रविष्टेन सर्वमिदम् व्याप्त-मित्यर्थः । अतश्च मृदादिशरीरकस्य ब्रह्मणः घटादावप्युपादानत्वसम्भवात् भूतयोनित्यत्वम् नानुपपन्नमिति भावः । लोके उपादानस्य स्वभिन्ननिमित्त-कारणसापेक्षत्वदर्शनात् एकविज्ञानेन सर्वविज्ञानमनुपपन्नम् । किञ्च एकस्य ब्रह्मणः परस्परविलक्षण-प्रपञ्चोपादानत्वमपि न सम्भवति । किञ्च घटाद्युत्पत्तौ उपादानमृत्पिण्डादिषु पूर्वावस्थोपमर्दो दृश्यते । प्राकारोपादानभूता स्विष्टकासु चतुरश्रत्वादिलक्षणपूर्वाकारतिरोधानम् दृश्यते । अक्षरशब्दितस्य निर्विकारस्य ब्रह्मणः । पूर्वाकारोपमर्द तिरोधानयोरसम्भवेन उपादानत्वम् न सम्भवतीत्याशङ्क्याह – *यथोर्णनाभि-स्सृजते गृह्णते च*(मुण्ड.१-१-७) | *यथोर्णनाभिर्हृदयादूर्णाम् सन्तत्य वक्त्रतः । तथा विहृत्य भूयस्ताम् ग्रसत्येवम् जनार्दन* इत्युक्तरीत्या यथा लूताख्यकीटविशेषस्य स्वान्तस्थित-तन्तुनिस्सरणतत्प्रवेशयोर्निरपेक्ष-कर्तृत्वम्, *यथा पृथिव्यामोषधयस्सम्भवन्ति* (मुण्ड.१-१-७) यथा एकस्या एव पृथिव्याः पूर्वावस्थोपमर्द तिरोधाना-भावेऽप्यतिविलक्षणानन्तौषध्युपादानत्वम्, *यथा सतः पुरुषात्केश-लोमानि*(मुण्ड.१-१-७) यथा जीवतः परस्परविलक्षणस्यापि चेतनस्याचेतनकेशलोमाद्युपादानत्वम्, *तथाऽक्षरात्सम्भवतीह विस्वम्*(मुण्ड.१-१-७) एवमेव निमित्तान्तरन्तनिर-पेक्षादुपादेयविलक्षणान्निर्विकारात् परमात्मनः परस्परविलक्षणम् चेतनाचेत-नात्मकम् निखिलम् जगत्सम्भवतीत्यर्थः । ब्रह्मणो विस्वोत्पत्तिप्रकार उच्यते – *तपसा चीयते ब्रह्म ततोऽन्नमभि जायते । अन्नात् प्राणो मनस्सत्यम् लोकाः कर्मसु चामृतम्*(मुण्ड.१-१-८) पूर्वमन्त्रोक्ततपश्शब्दम् विवृण्वन् भूतयोनिभूतस्य ब्रह्मणस्सृष्ट्युपकरणसार्वज्ञ्यम् दर्शयति *यस्सर्वज्ञ-स्सर्ववित् यस्य ज्ञानमयम् तपः*(मुण्ड.१-१-१०) सर्वज्ञः – सर्वविषयकज्ञानवान् ।
सर्ववित् – तत्तद्वस्तुगतसर्वप्रकारज्ञानवान् । अस्मिन् मन्त्रे भूतयोने: स्वरूपतः प्रकारतश्च सर्वविषयकज्ञानवत्त्वम् विधेयम्, अप्राप्तत्वात् । ननु सर्वज्ञसर्वविच्छब्दयोरपौनरुक्त्याय सर्वज्ञशब्दस्य रूढिरभ्युपगन्तव्या,*कृशा- नुरेतास्सर्वज्ञ*(अमर कोशः (र्स्वगःवर्गः)) इति निघण्टुपाठेन सर्वज्ञशब्दस्य उमापतौ रूढत्वात्, तस्मात् सर्वविदो देवतान्तरान्निमित्तभूतात् *तपसा चीयते ब्रह्मे*(मुण्ड.१-१-८)ति पूर्वमन्त्रनिर्दिष्टम् *एतद् ब्रह्म नाम रूपम-न्नञ्च जायत*(मुण्ड.१-१-१०) इत्युपादानभृताद्ब्रह्मणो निमित्तभूतस्येश्वरस्य भेद एव प्रतीयत इति चेन्न । *यस्सर्वज्ञस्सर्ववित् यस्य ज्ञानमयम् तप*(मुण्ड.१-१-१०) इति तपसोपचीयमानतया पूर्वमन्त्रनिर्दिष्टाक्षरब्रह्मण एव सर्वज्ञत्वसर्व-विषयत्वयोस्सिद्ध्या तयोर्भेदासम्भवात्, निमित्तोपादानभेदविवक्षायाम् एक विज्ञानेन सर्वविज्ञानाभावेन *कस्मिन्नु भगवो विज्ञाते सर्वमिदम् विज्ञातम् भवती* (मुण्ड.१-१-३)ति प्रश्नप्रतिवचनासम्भवेन प्रतिपिपादयिषितप्रधानार्थविरोध प्रसङ्गात् ।
एतानि वाक्यान्यधिकृत्य चिन्त्यते । तथा हि *यत्तदद्रेश्यमग्राह्यमि*(मुण्ड. १-१-६) त्यचेतनधर्माणाम् दृश्यत्वादीनाम् निषेधः तत्प्रसक्तिमति अचेतन एव अवस्थान्तरापन्ने युज्यते । न तु तत्प्रसक्तिशून्ये परमात्मनि । युवा बालस्तरुण इत्यादिनिषेधाः तत्प्रसक्तिमति अवस्थान्तरापन्ने मनुष्यादावेव दृष्टाः, न तु तत्प्र-सक्तिशून्यकाष्ठादौ । किञ्च अदृश्यत्वादिविशिष्टस्य अक्षरस्य परमपुरुषत्वे *अक्षरात्परतः पर*(मुण्ड.२-१-२) इति ततोऽपि परस्य पुरुषस्य श्रवणम् नोप-पद्यते । अतः *अक्षरात्परत: पर*(मुण्ड.२-१-२) इति पुरुषगत परत्वावधितया अक्षरादिति निर्दिष्टस्य परमपुरुषत्वासम्भवात् भूतयोन्यक्षरम् प्रधानमेव, तत्प-रतया निर्दिश्यमानः पुरुषोऽपि पञ्चविम्शक एव, न तु परमपुरुषः, परम-पुरुषस्य अक्षरपरभूतजीवादपि परत्वेनाव्यवहितपरत्वाभावात् । न च *अक्ष-रात्परतःपर*(मुण्ड.२-१-२) इति पदयोर्वैयधिकरण्याश्रयणेन अक्षरादपि पर-भूताज्जीवात् परत्वमेव पुरुषस्य प्रतिपाद्यत इति वाच्यम् । *अक्षरात्परतः* (मुण्ड.२-१-२) इति पदयोस्सामानाधिकरण्येन वृत्तिसम्भवे तयोर्वैयधिकरण्ये प्रमाणाभावात् । अतो अत्र प्रकृति जीवावेव प्रतिपाद्यते इति पूर्वपक्षे प्राप्त उच्यते ।
अदृश्यत्वादिगुणको धर्मोक्तेः ॥१–२–२२॥
अदृश्यत्वादिगुणकः परमात्मैव । तद्धर्माणाम् सर्वज्ञत्वादीनाम् *यस्सर्वज्ञ-स्सर्वविदि*(मुण्ड.१-१-१०)ति वाक्येनात्र प्रकरणे उक्तत्वात् ।
विशेषणभेदव्यपदेशाभ्याम् च नेतरौ ॥१–२–२३॥
एकविज्ञानेन सर्वविज्ञानप्रतिज्ञादिसिद्धेन चेतनाचेतनात्मकनिखिलप्रपञ्चो-पादानत्वेन भूतयोन्यक्षरस्य विशेषणात्, *अक्षरात्परत: पर*(मुण्ड.२-१-२) इति प्रकृतिजीवाभ्याम् भेदव्यपदेशाच्च भूतयोन्यक्षरम् परमात्मैव । न च *अक्षरा-त्परत*(मुण्ड.२-१-२) इति पञ्चम्योस्सामानाधिकरण्यात् स्वकार्यवर्गापेक्षया पर- भूता दक्षरशब्दितादव्याकृतात्परत्वेन तद्भेदसिद्धावपि न जीवभेदास्सिद्ध्यतीति वाच्यम् असिद्धेः । न हि देवदत्तादुत्पन्नाद्भयमित्यत्र पञ्चम्योस्सामानाधिकरण्य-प्रतीतिरस्ति, सामानाधिकरण्ये सति वा परत्वावधिसमर्पकस्वकार्यवर्गवाचि-पदाध्याहार प्रसङ्गात्, वैयधिकरण्यपक्षे अध्याहाराभावात्, जीवादपि वैलक्षण्य-प्रतिपादकत्वेन सार्थक्यसम्भवे परत: पदस्य सामानाधिकरण्याश्रयणेन स्वकार्यवर्गपरत्वानुवादस्य निष्प्रयोजनस्य आश्रयणायोगात् । न च अक्षरात्परस्य पुरुषस्य परमात्मत्वे भूतयोन्यक्षरस्य कथम् परमात्मत्वम् सिद्धेदिति वाच्यम् ।
*अक्षरात्परतः पर*(मुण्ड.२-१-२) इति निर्दिष्टस्य *अथ परा यया तदक्षरमधि-गम्यते*(मुण्ड.१-१-५), *तथाऽक्षरात्सम्भवतीह विश्वम्*(मुण्ड.१-१-७), *तथाऽक्षराद्विविधास्सोम्य भावाः*(मुण्ड.२-१-१), *येनाक्षरम् पुरुषम् वेद सत्यमि *(मुण्ड.१-२-१३)ति निर्दिष्टभूतयोन्यक्षरापेक्षया भिन्नत्वात् । न च तत्र प्रमाणा-भावः – *दिव्यो ह्यमूर्तः पुरुषस्स बाह्यभ्यन्तरो ह्यजः । अप्राणो ह्यमनाश्शुभ्र* (मुण्ड.२-१-२) इति पूर्वसन्दर्भप्रतिपादितविशेषणविशिष्टम् भूतयोन्यक्षरम् *स*
(मुण्ड.२-१-२)इति पदेन परामृश्य तस्याक्षरतःपरतःपरत्वाभिधानात् । न हि तस्यैव ततः परत्वम् सम्भवति, विरोधात् । अतः *अक्षरात्परतःपर*(मुण्ड.२-१-२) इति वाक्यस्थमक्षरपदम् अव्याकृताभिधायि न तु भूतयोन्यक्षराभिधायि ।
रूपोपन्यासाच्च ॥१–२–२४॥
*अग्निर्मूर्द्धा चक्षुषी चन्द्रसूर्यावि*(मुण्ड.२-१-४)ति भगवत्सम्बन्धितया प्रसिद्धस्य रूपस्य भूतयोन्यक्षर सम्बन्धितयोपन्यासाच्च *पुरुष एवेदम् सर्वम्* (मुण्ड.२-१-१०), *दिव्यो ह्यमूर्तःपुरुष*( मुण्ड.२-१-२) इति भगवदसाधारण
पुरुषशब्दाभ्यासाच्च परमात्मैव प्रतिपाद्य इति सिद्धम् ॥
इति अदृश्यत्वादिगुणकाधिकरणम् ॥