॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाव प्रथमाध्यायस्य द्वितीयः पादः ॥
सर्वत्रप्रसिद्ध्यधिकरणम् ॥१॥
प्रथमे पादे समस्तप्रपञ्चविलक्षणपुरुषोत्तमाख्यवेदान्तवेद्यम् ब्रह्म एव जगत्कारणत्वम् प्रसाधितम् । तत्र जन्मादिसूत्रे ब्रह्म कारणमेव ब्रह्मैव कारणमिति अयोगान्ययोगव्यवच्छेदौ लक्षणस्य असम्भवातिव्याप्तिपरिहा- राय विवक्षितौ । तत्र अयोगव्यवच्छेदः प्रथमपादेन विवक्षितः । अन्ययोगव्यवच्छेदार्थस्त्रिपाद्यारम्भ इति विभागः । पूर्वपादे अस्पष्ट-जीवलिङ्गकानि विचारितानि। स्पष्टजीवलिङ्गानि द्वितीये, स्पष्टतरजीव-लिङ्गानि तृतीये, प्रधानच्छायानुसारीणि तुरीये, इति प्रायिकोऽयम् पादार्थ-विभागः ।
छान्दोग्ये- *सर्वम् खल्विदम् ब्रह्म तज्जलानिति शान्त उपासीत*(छान्. ३-१४-१) जायत इति जम् । लीयत इति लम् । जलशब्दौ डप्रत्ययान्तौ। अनितीत्यन् जीवतीत्यर्थः । क्विबन्तो विजन्तो वाऽयम् शब्दः । तस्य जलान् तज्जलान् । इतिर्हेत्वर्थः । सर्वशब्दः सर्वशरीरकपरः । इदमित्येतत् ब्रह्मणः सर्वस्य वा विशेषणम् । अतश्च तज्जत्वात् तलत्त्वा-त्तदनत्वात् सर्वात्मकम् ब्रह्मेति शान्तस्सन्नुपासीतेत्यर्थः । अत्र तज्जत्व- तल्लत्वे स्थूलचिदचिच्छरीरकब्रह्मगते । उपादानोपादेयभावस्याभिन्ननिष्ठ-त्वात्। तदनत्वरूपतन्नियाम्यत्वम् तु न ब्रह्मगतम्, ब्रह्मणस्तदसम्भवात्। अपि तु चिदचिन्मात्रगतमिति द्रष्टव्यम् । यद्वा – *सर्वभूतात्मके तात जग-न्नाथे जगन्मये । परमात्मनि गोविन्दे मित्रामित्रकथा कुतः*
इत्युक्तरीत्या रागद्वेषादिरहितस्सन् वक्ष्यमाणमनोमयत्वादिगुणकम् ब्रह्मो-पासीतेत्यर्थः । अस्मिन्पक्षे सार्वात्म्यम् नोपास्यगुणतया विवक्षितम्, उत्पत्तिशिष्टसार्वात्म्यगुणावरुद्धे वक्ष्यमाणमनोमयत्वादिगुणविधाना- नुपपत्तिप्रसङ्गात् । न च उपासनोत्पत्तिवाक्यश्रुतस्य सार्वात्म्यस्याविवक्षा कथमभ्युपगन्तव्येति वाच्यम् । *सर्वम् खल्विदम् ब्रह्म तज्जलानि* (छान्.३-१४-१)त्येतस्य वाक्यस्य खलुशब्दकृतेन प्रसिद्धवन्निर्देशेन *शान्त उपासीते*(छान्.३-१४-१)त्यनेनैकवाक्यत्वस्य निवारितत्वात् । न हि उपा- सीत खल्विति वचनव्यक्तिर्घटते । अस्मिन्वाक्ये उपास्याकाङ्क्षायाम् पूर्व-वाक्यप्रतिपन्नस्य ब्रह्मरूपधर्मिमात्रस्यैव उपास्यतया अन्वयः । न तु सार्वात्म्यविशिष्टस्य । ननु तर्हि एकवाक्यत्वस्य सम्भवे *तज्जलानि* (छान्.३-१४-१)त्यन्तस्य पृथग्वाक्यत्वकल्पनायोगात् सार्वात्म्यस्य उत्पत्तिवाक्यविहितत्वेऽपि मनोमयत्वादीनाम् उत्पत्तिशिष्टगुणाविरोधि-नामन्वये दोषाभावाच्च वाक्यभेदकल्पनम् वा शाण्डिल्यविद्यायाम् सार्वा-त्म्यस्य अनुपास्यत्वकल्पनम् वा व्यर्थमिति चेन्न । *उपासीते*(छान्. ३-१४-१)त्यनेन वाक्यैक- वाक्यत्वाभ्युपगमेऽपि पदैकवाक्यत्वनिराकरणे दोषाभावात्, शान्तिहेतुतया अन्वितस्य सार्वात्म्यस्य उपास्यत्वे प्रमाणा-भावाच्च | ननु ब्रह्मणस्सर्वात्मकत्वात् यत्र क्वचित् क्रियमाण-स्यापि रागद्वेषादेः आत्मद्वेषपर्यवसन्नत्वेन अयुक्तत्वात् *शान्तस्सन्नुपासीते* (छान्.३-१४-१)त्युक्ते ब्रह्मोपासीतेति कथमवगम्यते, *सर्वम् खल्विदम् ब्रह्मे *(छान्.३-१४-१)त्यस्य शमविध्यर्थवादभूतस्य उपास्यसमर्पकत्वाभावा-दिति चेत् सत्यम् । शमविध्यर्थतया निर्दिष्टस्यापि ब्रह्मणः उपास्या-काङ्क्षापूरकत्वस्यापि सम्भवात्, अन्यार्थतया पूर्ववाक्यनिर्दिष्टम् ब्रह्म विहाय उपास्यान्तरकल्पनस्य अनुचितत्वात्, *मूलतश्शाखाम् परिवास्य उपवेषम् करोती* त्यत्र *मूलत* इत्यस्य शाखापरिवासने अपादा-नतया अन्वितस्यआकाङ्क्षावशेन *उपवेषम् करीती* त्यनेनाप्यन्वयाभ्युपगमादिति द्रष्टव्यम् ।
विहितमुपासनम् स्तौति-*अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिन् लोके पुरुषो भवतीति तथेतःप्रेत्य भवति*(छान्.३-१४-१) । *तम् यथा यथोपासते तथैव भवती*(मुद्गल,३-खम्)ति श्रुत्यन्तरात् इह लोके पुरुषः यथाक्रतुः तथैव इत: प्रेत्य अमुष्मिन् लोके भवति । ततो हेतोः पुरुषः क्रतुमयः – क्रतुप्रधानः । उपासनप्रधान इत्यर्थः । एवम् विहितम् ब्रह्मोपासनम् मनोमयत्वादिगुणान्तरविधानाय अनुवदति । *स क्रतुम् कुर्वीत*(छान्.३-१४-१) । सः- पुरुषः क्रतुम् ब्रह्मोपासनम् कुर्वीतेत्यर्थः । *मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प: आकाशान्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वभिदमभ्यत्तोऽवाक्यनादरः*(छान्.३-१४-२)
मनोमयाविवेकादिसाधनसप्तकानुगृहीतपरमात्मोपासननिर्मलीकृतमनोमात्रग्राह्य इत्यर्थः । प्राणशरीरः- जगति सर्वेषाम् प्राणानाम् धारकः । प्राणो यस्य शरीरम् आधेयम् विधेयम् शेषभूतञ्च स प्राणशरीरः । एतेषामेव शरीरशब्दप्रवृत्तिनिमित्तत्वात् । भारूपः -भास्वररूपः । *आदित्यवर्णम्
तमसः परस्तात्*(तै.आर.३, पुरुषसूक्तम्.२०), *पश्यते रुक्मवर्णमि* (मुण्ड.३-१-३)त्यादिप्रमाणप्रतिपन्नस्वासाधारणनिरतिशयकल्याणगुण- गणनिरतिशयदीप्तियुक्त विग्रहशालीत्यर्थः । सत्यसङ्कल्पः – अप्रतिहत- सङ्कल्पः । आकाशात्मा – आकाशवत् सूक्ष्मस्वच्छस्वरूपः । अव्याकृता-काशस्यात्मभूत इति वा, स्वयम् च प्रकाशयतीति वा आकाशात्मा । सर्वकर्मा – क्रियत इति कर्म सर्वम् जगत् यस्य कर्म सर्वा वा क्रिया यस्यासौ सर्वकर्मा । सर्वकामः – काम्यन्त इति कामाः भोग्यभोगोप-करणादयः ते परिशुद्धास्तस्य सन्तीत्यर्थः । सर्वगन्धस्सर्वरसः । *अशब्दमस्पर्शमि*(कठ.१-३-१५)त्यादिना प्राकृतगन्धरसादिनिषेधात् अप्राकृताः स्वभोग्यभूतास्सर्वविधास्तस्य सन्तीत्यर्थः । सर्वमिदमभ्यात्तः- उक्तम् सर्वकल्याणगुणजातम् स्वीकृतवान् । *भुक्ता ब्राह्मणा* इतिवत् कर्तरिक्त प्रत्ययः । अवाकी अनादरः- आदर्तव्याभावात् । *एष म आत्माऽन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामा- कतण्डुलाद्वा*(छान्.३-१४-३) । मदीये हृदये व्रीह्याद्यपेक्षया अणुत्वेन आत्मत्वेन उपासनार्थमवासिक इत्यर्थः । तथाऽनुसन्धानम् कर्तव्य-मित्यर्थः । अन्तर्हृदये उपास्यमानस्य प्राप्याकारमनुसन्धेयम् निर्दिशति – *एष म आत्माऽन्तर्हृदये ज्यायान् पृथिव्या ज्यायानन्तरिक्षा-ज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः सर्वकर्मा सर्वकामस्सर्वगन्धस्सर्वरसस्सर्व-मिदमभ्यात्तोऽवाक्यनादरः*(छान्.३-१४-३) उक्तोऽर्थः । एवम् भूतम् परम्ब्रह्म परमकारुण्येन अस्मदुज्जिजीविषया अस्मद्धृदये सन्निहित-मित्यनुसन्धातव्यमित्याह *एष म आत्मे* (छान्.३-१४-३)ति । यथो-पासनम् ईदृशपरमात्मानम् *अस्माच्छरी-रात्समुत्थाये*(छान्.८-३-४) त्युक्तरीत्या देशविशेष- विशिष्टम् प्राप्तास्मीति निश्चयरूपमनुसन्धानम् कर्तव्यमित्याह *एतमितः प्रेत्याभिसम्भ-विताऽस्मीति*(छान्.३-१४-४) | अत्र इतीत्यस्य *स क्रतुम् कुर्वीते* (छान्.३-१४-१) त्यनेनान्वयः । *मनो-मय*(छान्.३-१४-१) इत्यारभ्य *एतमितः प्रत्यभिसम्भवितास्मी* (छान्. ३-१४-४) त्येतत्पर्यन्तोऽनुसन्धान प्रकारः । अत्र च इतिशब्द-निर्दिष्टो मनोमयत्वादिगुणगतः क्रमविशेष एक एव विधीयते मनोमयत्वाद्युपास्य- गुणानाम् तु आक्षेपतो विधानम् पृष्ठ-गतसर्वताविधानादिव पृष्ठानाम्, ततश्च प्राप्तानुवादेन मनोमयत्वाद्य-नेकगुणविधाने वाक्यभेद इति शङ्का प्रत्युक्ता ।
यद्वा – विधेयानाम् बहुत्वेऽपि क्रमरूपविधेयतावच्छेदकैक्यान्न वाक्यभेदः, *यदज्ञये च प्रजापतये*(मै.सम्.१-८-७) चेति वाक्ये देवतात्व-रूपविधेयतावच्छेदकैक्येन वाक्यभेदस्य तान्त्रिकैः परिहृतत्वात् ।
केचित्तु-प्राप्तोपासनानुवादेन अभ्युदयेष्टिवत् प्रयोगविधित्वसम्भवात् न वाक्यभेद इति वदन्ति ।
एवम् विधप्राप्यप्राप्तिनिश्चयोपेतस्य उपासकस्य प्राप्तौ सम्शयो नास्तीत्युपसम्हरति-*यस्य स्यादद्धा न विचिकित्साऽस्ति* (छान्.३-१४-४) । अत्र इतिशब्दाध्याहारः, पूर्ववाक्यस्थेतिशब्दस्य क्रम-वाचकस्यैव वा अनुषङ्गः । उक्तप्रकारेण यस्योपासकस्य अद्धा निश्चयोऽस्ति तस्य प्राप्तौ विचिकित्सा सम्शयो नास्तीत्यर्थः ।
अस्मिन् प्रकरणे *सर्वम् खल्विदम् ब्रह्मे*(छान्.३-१४-१)त्यत्र ब्रह्मशब्देन प्रत्यगात्मैव निर्दिश्यते । तस्यैव सर्वपदसामानाधिकरण्येन निर्देशोपपत्तेः । सर्वशब्दनिर्दिष्टम् हि ब्रह्मादिस्तम्बपर्यन्तम् कृत्स्नम् जगत् । ब्रह्मादिस्तम्बपर्यन्तभावश्च प्रत्यगात्मन एव अनाद्यविद्यामूल-कर्मविशेषोपाधिक उपपद्यते । परमात्मनो निरस्तसमस्ताविद्यस्य समस्त- हेयाकरसर्वभावोनोपपद्यते । प्रत्यगात्मन्यपि ब्रह्मशब्दः क्वचित् प्रयुज्यते *इदम् ब्रह्मायाती* त्यादौ । अत एव *परमात्मा* *परम् ब्रह्मे*ति परमेश्वरस्य क्वचित्सविशेषणो निर्देशः । प्रत्यगात्मनश्च निर्मुक्तोपाधेः ब्रह्मत्वञ्च विद्यते । *स चानंत्याय कल्पत*(श्वेत.४-९) इति पूर्वपक्षे प्राप्त उच्यते-
सर्वत्र प्रसिद्धोपदेशात् ॥१-२-१॥
सर्वस्मिन् जगति *सर्वम् खल्विदम् ब्रह्मे*(छान्.३-१४-१)ति तदात्म-कतया अभिधीयमानम् परम्ब्रह्मैव । कुतः प्रसिद्धोपदेशात् । तज्जत्व-तल्लत्वादिना सर्वद्धो खल्विदमिति प्रसिद्धवदुपदेशात्। यस्मात् जगजन्म- स्थितिलया: वेदान्तेषु प्रसिद्धाः तदेवात्र ब्रह्मेति प्रतीयते । वेदान्तप्रसिद्ध-त्वञ्च परब्रह्मण एव । *यतो वा इमानि भूतानि जायन्त*(तै.भृ. १) इत्यादिवेदान्तेषु परब्रह्मण एव प्रसिद्धेः न प्रत्यगात्मनः । ब्रह्मादिस्तम्ब- भावेऽपि प्रकारभूतशरीरगतानाम् दोषाणाम् प्रकारिण्यात्मनि अस्पर्शात्
निरस्तसमस्ताविद्यत्वस्य नानुपपत्तिः जीवानाञ्च प्रतिशरीरम् भिन्नाना-मन्योन्यतादात्म्यासम्भवेन सार्वात्म्यस्यासम्भावितत्वात् अत: सर्वजग-त्कारणत्वप्रयुक्तसर्वात्मत्वस्य परब्रह्मण्येव सम्भवात् परमेव ब्रह्मेह वाक्ये प्रतिपाद्यते ।
विवक्षितगुणोपपत्तेश्च ॥१-२-२ ॥
विवक्षितानाम् मनोमयत्वसत्यसङ्कल्पत्वादीनाम् गुणानाम् परमा-त्मन्येवोपपत्तेश्च । विवक्षितत्वम्-तात्पर्यविषयत्वम् । *यथाक्रतुरस्मिन् लोके पुरुषो भवती*(छान्.३-१४-१)ति वाक्येन मनोमयत्वादिगुणकोपास- नेन तद्गुणकब्रह्मप्राप्तेः फलत्वावेदनेन फलरूपतात्पर्यलिङ्गसद्भावात् मनो-मयत्वादीनाम् तात्पर्यविषयत्वलक्षणम् विवक्षितत्वमवसीयते ।
अनुपपत्तेस्तु न शारीरः ॥ १-२-३ ॥
विवक्षितानाम् गुणानाम् शारीरे अनुपपन्नत्वात् शारीरपरिग्रहशङ्का नास्तीत्यर्थः ॥
कर्मकर्तृव्यपदेशाच्च ॥१-२-४॥
*एतमितः प्रेत्याभिसम्भवितास्मी*(छान्.३-१४-४)ति प्राप्यतया परम्ब्रह्म व्यपदिश्यते प्राप्तृतया च जीवः । अतः प्राप्ता जीव उपासकः प्राप्यम् परम्ब्रह्मोपास्यमिति ।
शब्दविशेषात् ॥१-२-५॥
*एष म आत्माऽन्तर्हृदय*(छान्.३-१४-३) इति शारीरष्षष्ठ्या निर्दिष्टः, उपास्यस्तु प्रथमया अतो नोपासकस्य जीवस्यैवोपास्यत्वम् ।
स्मृतेश्च ॥१-२-६॥
*सर्वस्य चाहम् हृदि सन्निविष्टो मत्तस्स्मृतिर्ज्ञानमपोहनञ्च*(गी.१५-५) इति उपास्यहृदयगतम् उपासकाद्भिन्नम् परमात्मानम् दर्शयति ।
अर्भकौकस्त्वात्तव्यपदेशाच्च नेति चेन्न
निचाय्यत्वादेवम् व्योमवच्च ॥१-२-७॥
अर्भकौकस्त्वम् – अल्पायतनत्वम् । तद्व्यपदेशः-अल्पत्वव्यपदेशः। *एष म आत्मान्तर्हृदये*(छान्.३-१४-३)इति अणीयसि हृदयायतने स्थित- त्वात्, *अणीयान् व्रीहेर्वा यवाद्वे*(छान्.३-१४-३)ति स्वरूपेण अणीय-स्त्वव्यपदेशाच्च नायम् परमात्मा अपि तु जीव एव । परमात्मनः अल्पायतनत्वाल्पत्वयोरसम्भवादिति चेन्न । एवम् निचाय्यत्वात् – अल्पायतनत्वाल्पत्वाभ्याम् तस्यैव उपास्यत्वसम्भवात् । व्योमवच्चेदम् ब्रह्म व्यपदिश्यते-*ज्यायान् पृथिव्याः ज्यायानि*(छान्.३-१४-३)त्यादि । अतश्च ज्यायस्त्वे उपाध्यश्रवणात् ज्यायस्त्वम् स्वाभाविकम् । अणीय-स्त्वे उपाधिश्रवणादणीयस्त्वमौपाधिकमित्यवसीयते ॥
सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॥१-२-८॥
परब्रह्मणश्शरीरान्तर्वर्तित्वनिमित्तसुखदुःखोपभोगप्रसक्तिर्जीववत्स्यादिति चेन्न – तस्य अनपहतपाप्मत्वात् अपहतपाप्मत्वकृतहेतुविशेषसद्भावात् न भोगप्रसक्तिरिति ॥
इति सर्वत्रप्रसिद्ध्यधिकरणम् ॥