॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः ॥
(पे.४) अर्थान्तरत्वादिव्यपदेशाधिकरणम् ॥ १० ॥
पूर्व दहराकाशस्य परब्रह्मत्वसमर्थनाय अल्पश्रुतिपरिहारे कृते तत्प्रसङ्गात् अङ्गुष्ठमात्रस्य परमात्मत्वम् साधितम् तत्प्रसङ्गादागतम् तु अधिकरणत्रयम् । अथ पूर्वप्रकृतदहरविद्याया बुद्धिस्थत्वेन तदनन्तरश्रुतस्य आकाशवाक्यस्य परमात्मपरत्वम् निरूप्यत इति सङ्गतिः ।
छान्दोग्ये – *आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतम् स आत्मे*(छान्.८-१४-१)त्यादि श्रूयते । अत्र *नामरूपयोर्निर्वहिते* (छान्.८-१४-१)ति नामरूपानिर्वोदृत्व श्रवणात् नामरूपानिर्वोदृत्वस्य जीव एव स्वरसत्वात् *एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परञ्ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत*(छान्.८-१२-२) इति वाक्यप्रतिपाद्यस्य *नामरूपयोर्निर्वहिता ते यदन्तरे*(छान्.८-१४-१)ति वाक्ये प्रत्यभिज्ञानात्, पूर्व निरूढनामरूप एव पश्चाद्विमुक्त इह प्रतिपाद्यते आकाश-शब्दस्यापि यौगिक्या वृत्त्या मुक्तात्मनि सम्भवादित्येवम् पूर्वपक्षे प्राप्त उच्यते –
आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥१–३–४२॥
आकाशः परम्ब्रह्म, अर्थान्तरत्वादिव्यपदेशात् । *नामरूपयोर्निर्वहिते* (छान्.८-१४-१)ति जीवापेक्षया अर्थान्तरत्वस्य भेदकधर्मस्य व्यपदेशात् । न हि नितराम् वोदृत्वम् निर्वोदृत्वम्, रूढ्या निर्वोदृशब्दस्य
कर्तृत्वाभिधायित्वात्, *ते यदन्तरे*(छान्.८-१२-२)ति नामरूपास्पृष्टत्वकथनाच्च, नामरूपास्पृष्टत्वे सति नामरूपकर्तृत्वस्य बद्धे मुक्ते वाऽसम्भवात् मुक्तस्यापि *जगद्व्यापारवर्जमि*(ब्र.सू.४-४-२७)ति जगद्व्यापारराहित्यस्य प्रतिपादितत्वात् । आदिशब्देन अमृतत्वाभयत्वादीनाम् सङ्ग्रहः ।
ननु प्रत्यगात्मनो *अर्थान्तरत्वव्यपदेशादि*ति न वक्तुम् युक्तम् । शुद्धावस्थ एव हि प्रत्यगात्मा परमात्मा परम्ब्रह्मेति च व्यपदिश्यते । तत्राह –
सुषुप्त्युत्क्रान्त्योर्भेदेन ॥१–३–४३ ॥
वाजसनेयके – *कतम आत्मा योऽयम् विज्ञानमयः प्राणेष्वि*(बृह.६-३-७)ति प्रकृतस्य प्रत्यगात्मनः सुषुप्तावुत्क्रान्तौ च *प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यम् किञ्च न वेद नान्तरमि*(बृह.६-३-२१)ति *प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जन् याती* (बृह.३-३-५)ति च प्राज्ञेन परिष्वङ्गान्वारोहावाम्नायेते | जीवस्यैव शुद्धावस्थस्य परमात्मत्वे परिष्वङ्गान्वारोहौ नोपपद्येयाताम् नह्यभेदे तौ सम्भवतः ।
पत्यादिशब्देभ्यः ॥ १–३–४४ ॥
*सर्वस्य वशी सर्वस्येशानस्सर्वस्याधिपतिः*(बृह.६-४-२२) *स न साधुना कर्मणा भूयान्न् एवासाधुना कनीयान्*(बृह.६-४-२२) । *एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषाम् लोकानामसम्भेदाये*
(बृह.४-४-२२)ति प्रत्यगात्मासम्भावितानाम् पतित्वादिधर्माणाम् श्रवणात् नायमात्मा जीव इति स्थितम् ॥
इति अर्थान्तरत्वादिव्यपदेशाधिकरणम् ॥
इति श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमस्याध्यायस्य तृतीयः पादः ॥