॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः ॥
प्रमिताधिकरणम् ॥६॥
शब्दादेव प्रमितः ॥१–३–२३॥
पूर्वत्र अणीयस्त्वरूपमल्पपरिमाणम् परस्मिन्नुपपादितम् । इदानीमङ्गुष्ठ-मात्रत्वमप्यल्पपरिमाणम् तस्य उपपद्यत इति सङ्गतिः ।
*अङ्गुष्ठमात्रः पुरुषो मद्ध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते*(कठ २-४-१२) । कालत्रयवर्तिनिखिलचेतनाचेतनेश्वरः पुरुषः उपा-सकशरीरमध्ये अङ्गुष्ठपरिमाणस्सन्नास्ते । ततो भूतभव्येशानत्वादेव वात्सल्या-तिशयाद्देहगतानपि दोषान् भोग्यतया पश्यतीत्यर्थः । ननु अयम् मन्त्रो जीवपर एव *प्राणाधिपस्सञ्चरति स्वकर्मभिः*(श्वेत.५-७) *अङ्गुष्ठमात्रो रवितुल्य-रूपः*(श्वेत.५-८) *अङ्गुष्ठमात्रम् पुरुषम् निश्चकर्ष यमो बलादि* (महाभारतम्)त्यादिश्रुतिस्मृतिषु अङ्गुष्ठमात्रत्वेन जीवस्यैव प्रतिपा-दनात् । न च तस्य भूतभव्येशानत्वानुपपत्तिः । प्रथमश्रुतजीवलिङ्गानुरोधेन चरमश्रुतभूतभव्येशानत्वस्य आपेक्षिकतया योजयितुम् शक्यत्वादिति चेन्न । हृदयावच्छेदनिबन्धनाङ्गुष्ठपरिमाणस्य परमात्मन्यपि सम्भवात् *अङ्गुष्ठ- मात्रः पुरुषोऽङ्गुष्ठञ्च समाश्रित*(तै.महाना.१६-५) इति तैत्तिरीयके *अङ्गुष्ठ-मात्रः पुरुषोऽन्तरात्मा सदा जनानाम् हृदये सन्निविष्ट*(श्वेत.३-१३) इति श्वेताश्चतरे च अङ्गुष्ठमात्रत्वस्य परमात्मन्यपि श्रवणात्, पूर्वलिङ्गसाधारणत्वेन अनिर्णाय- कत्वात्, असङ्कुचितभूतभव्येशितृत्वस्यानन्यथासिद्धब्रह्मलिङ्गत्वात् अयम् परमात्मैवेति सिद्धान्तः ।
ननु कथम् तर्हि परमात्मनोऽङ्गुष्ठप्रमितत्वम् तत्राह –
हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥१–३–२४॥
हृदि – हृदये परमात्मनो वर्तमानत्वात्तदपेक्षयाऽङ्गुष्ठमात्रत्वमुपपद्यते । नच खरतुरगादीनामङ्गुष्ठशून्यानाम् हृदयस्याङ्गुष्ठप्रमितत्वाभावात् तदन्तर्वर्तिनः परमात्मनः कथमङ्गुष्ठमात्रत्वमिति वाच्यम्। उपासनाविधायिशास्त्रस्य मनुष्या-धिकारत्वात् तेषामङ्गुष्ठसम्भवात् हृदयवर्तिनः परमात्मनोऽप्यङ्गुष्ठ समपरि-माणहृदयावच्छेदनिबन्धनाङ्गुष्ठप्रमितत्वे नानुपपत्तिः । यत्त्वत्र कैश्चिदुच्यते अङ्गुष्ठमात्रत्वम् जीवलिङ्गमेव, अथापि *अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठती*(कठ.२-४-१२)ति पूर्वार्धेन जीवमनूद्य *ईशानो भूतभव्यस्ये*(कठ.२-४-१२)त्यनेन परमात्मभावो विधीयत इति तदसमञ्जसम् । तथाहि सति परमात्म-न्यङ्गुष्ठमात्रत्वसम्भावनाप्रदर्शकस्य *हृद्यपेक्षये*ति सूत्रस्यासङ्गतिप्रसङ्गात् ।
ननु अस्मिन् मन्त्रे न जीवानुवादेन ब्रह्मभावो विधीयते । आराग्रमात्रतया प्रति-पन्नस्य जीवस्य अङ्गुष्ठमात्रत्वे प्रमाणाभावादिति तटस्थशङ्कापरिहारार्थम् जीवस्याङ्गुष्ठमात्रत्वसाधनाय प्रवृत्तमिदम् सूत्रमिति चेन्न । पूर्वपक्षयुक्त्यनिरा-सकस्य सिद्धान्तहेत्वप्रतिपादकस्य तदनुपष्टम्भकस्य वा केवलतटस्थशङ्का- परिहारकस्य गुणसूत्रत्वायोगात् ।
ननु *ईश्वरश्शर्वईशान*(अमरकोशः स्वर्गवर्गः.३१४) इति निघण्टुपाठेन ईशानशब्दस्य देवताविशेषे रूढत्वात् *शब्दादेव प्रमित*(ब्र.सू. १-३-२३) इति सूत्रे *ईशानो भूतभव्यस्ये*(कठ.२-४-१२)ति शब्दादेव न तु भूतभव्यस्येशि-तृत्वम् कर्मवश्यस्य जीवस्य उपपद्यत इति भाष्यम् व्याकुर्वद्भिर्व्यासार्यैः *ईशानशब्दस्यैव शब्दशब्देन विवक्षितत्वान्नात्र लिङ्गान्निर्णयः । किन्त्वीश्वरवाचिशब्दादेवेत्येवकाराभिप्राय*(श्रुतप्रकाशिकाः) इति व्याख्या-तत्वात्, ईशानशब्दस्य श्रुतित्वाभ्युपगमात्, तयैव ईशानशब्दश्रुत्या जीवव्या-वृत्तिवदेव नारायणस्यापि व्यावर्तितत्वेन रुद्रपरत्वमेव स्यादिति चेन्न । योग-रूढिमतः पदस्य सन्निधौ अवयवार्थविशेषकपदान्तरसन्निधाने रूढ्यनुन्मेषस्य *पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्यूर्ध्वमुखैर्मयूखै*(कुमारसम्भवम्.१-१६) रित्यादिषु दर्शनात् । तत्र हि सरोरुहपदावयवार्थसरो विशेषकाग्र पदो-पादानेन सरोरुहपदरूढिभङ्गस्य दर्शनात् । इतरथा *पद्मानी*(कुमारसम्भवम्. १-१६)ति पदानुपादानापत्तेः । अतो न श्रुतित्वमिति किञ्चिदेतत् ॥
इति प्रमिताधिकरणम् ॥