॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्री शारीरकशास्त्रार्थ दीपिकायाम् प्रथमाध्यायस्य चतुर्थः पादः ॥
सङ्ख्योपसङ्ग्रहाधिकरणम् ॥ ३ ॥
अजाशब्दस्य स्वतन्त्रप्रकृतिपरत्वे विशेषस्याभावात् वाक्यान्तरा-नुरोधेन ब्रह्मात्मकत्वम् साधितम् । तदत्र न प्रसरति ब्रह्मसत्वे सङ्ख्या-धिक्यात्तेन विना सङ्ख्यापूरणेन अब्रह्मात्मिका प्रकृतिरिति निश्चयसम्भ-वादिति शङ्कया सङ्गतिः ।
वाजसनेयके – *यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेवम् मन्य आत्मानम् विद्वान्-ब्रह्मामृतोऽमृतम्*(बृह.६-४-१७) पञ्च-जनसञ्ज्ञाः पञ्च आकाशश्च यत्र प्रतिष्ठित इत्यर्थः । आकाशशब्दो भूतान्तरस्याप्युपलक्षकः । पूर्वस्मिन्मन्त्रे *तग्ं ह देवा ज्योतिषाम् ज्योतिरि*(बृह.६-४-१७)ति षष्ठ्यन्तज्योतिश्शब्दस्यार्थनिर्णायकसापेक्ष- त्वात् पञ्चजनशब्दस्याप्यर्थनिर्णायकान्तरसापेक्षत्वाच्च पञ्चत्वसङ्ख्या-न्वययोग्यानि ज्योतीम्षि इन्द्रियाण्येवेत्यवसीयन्ते । तदुक्तम् व्यासार्यैः – *श्रुत्या पञ्चसङ्ख्याविशेषितत्वात् पञ्चसङ्ख्याकज्योतिरन्तरप्रसिद्ध्य-भावाच्च परिशेषेणेन्द्रियत्वावगम*(श्रुतप्रकाशिका) इति । *तमेवमन्य आत्मानम् विद्वान्ब्रह्मामृतोऽमृतम्*(बृह.६-४-१७) तादृश-मात्मानम् अमृतम् ब्रह्मेत्येवम् विद्वानन्योऽप्यमृतो भवतीत्यर्थः । पञ्चजनशब्दनिर्दिष्टानि ज्योतीम्षि कानीत्यपेक्षायामाह – *प्राणस्य प्राणमुत चक्षुषश्चक्षुश्श्रोत्रस्य श्रोत्रम् मनसो ये मनो विदुस्ते निचिक्युर्ब्रह्मपुराणमग्र्यम्*(बृह.६-४-१८) । प्राणशब्देन स्पर्शनेन्द्रियम् गृह्यते । वाय्वाप्यायितत्वात्स्पार्शनेन्द्रियस्य, मुख्यप्राणस्य ज्योतिश्शब्देन प्रदर्शनायोगात् । चक्षुष इति चक्षुरिन्द्रियम् गृह्यते । *श्रोत्रस्ये*(बृह.६-४-१८)ति श्रोत्रेन्द्रियम् । *मनस*(बृह.६-४-१८) इति मनो गृह्यते। समान-प्रकरणे माध्यन्दिनशाखायाम् *अन्नस्यान्नमि* (बृह.६-४-१८)ति पाठात् *अनुक्तमन्यतो ग्राह्यमि*ति न्यायेन तदपि गृह्यते । अन्नशब्देन च अन्नसम्बन्धिनोर्घ्राणरसनयोर्ग्रहणम् । अन्नेन र्घ्राणस्या-प्यायितत्वलक्षणसम्बन्धः, रसनस्यान्नभक्षकतया अन्नसम्बन्ध इति द्वयोरपि ग्रहणम् । एवम् प्रकाशकत्वेन ज्योतिश्शब्दित त्वक्चक्षु-रादीन्द्रियाणामपि त्वक्चक्षुरादिवत् प्रकाशकम् तेषाम् तत्तद्विषयग्रहण-शक्त्याधायकमित्यर्थः। एतादृशम् ये जानन्ति ते पुराणमज्ञ्यम् ब्रह्म परम्ब्रह्म निचिक्युः निश्चितवन्त इत्यर्थः ।
अत्र *यस्मिन् पञ्च पञ्चजना*(बृह.६-४-१७) इति वाक्ये पञ्चत्व-विशेषितया पञ्चसङ्ख्यया पञ्चविम्शतिसङ्ख्याप्रतीतेः साङ्ख्यस्मृति- सिद्धाब्रह्मात्मकपञ्चविम्शतितत्वप्रतिपादकमेवेदम् वाक्यमिति पूर्वपक्षे प्राप्ते उच्यते –
न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥ १-४-११ ॥
पञ्चविम्शतिसङ्ख्याप्रतीतिवशादपि न साङ्ख्याभिमततत्वप्रत्याशा कार्या । नानाभावात् – नानात्वात् भिन्नत्वादिति यावत् । साङ्ख्या-भिमताब्रह्मात्मकपञ्चविम्शतितत्वेभ्यः *यस्मिन्पञ्चपञ्चजना*(बृह.६-४-१७) इति ब्रह्माधारकतया ब्रह्मात्मकत्वेन प्रतिपाद्यमानानाम् तत्वानाम् भिन्नत्वादित्यर्थः । अतिरेकाच्च – *यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठित*(बृह.६-४-१७) इति वाक्ये यस्मिन्नित्याधारतया निर्दिष्टस्या- त्मनश्च *आकाशश्च प्रतिष्ठित*(बृह.६-४-१७) इत्या-काशस्य च प्रतिपा-दनेन समविम्शतिप्रतीतेश्च न साङ्ख्यमतप्रत्यभि- ज्ञानम् । *न सङ्ख्यो-पसङ्ग्रहादपी*त्यपिशब्दात् वस्तुतस्साङ्ख्योप- सङ्ग्रहोऽपि नास्ति। पञ्चभिरारब्धव्यूहपञ्चकासम्भवात्, न हि तन्त्र-प्रसिद्धेषु तत्वेषु पञ्च-त्वसङ्ख्यानिवेशनिमित्तमित्यादिकमस्ति । न च पञ्चकर्मेन्द्रियाणि पञ्चज्ञानेन्द्रियाणि पञ्च महाभूतानि पञ्च तन्मात्राणि अवशिष्टानि पञ्चेत्यवान्तरसङ्ख्यानिवेशनिमित्तमस्त्येवेति वाच्यम् । आकाशस्य पूर्वनिर्देशेन पञ्चभिरारब्धमहाभूतसमूहासिद्धेः । अतः *पञ्चजना*(बृह.६-४-१७) इत्ययम् समासो न समाहारविषयः । अपि तु *दिक्सङ्ख्ये सञ्ज्ञायामि*(अष्टा.२-१-५०)ति सञ्ज्ञाविषयः । अन्यथा *पञ्चपूल्य* इतिवत् पञ्च पञ्चजनी इति स्यात् । ततश्च *सप्त सप्तर्षयोऽमला* इतिवत् *पञ्च पञ्चजना*(बृह.६-४-१७) इति निर्देश उपपद्यते ।
के पुनस्ते पञ्चजना इत्यत्राह –
प्राणादयो वाक्यशेषात् ॥ १-४-१२ ॥
*प्राणस्य प्राणमि*(बृह.६-४-१८)ति वाक्यशेष श्रुताः प्राणचक्षुश्रोत्रा-न्नमनोरूपाः पञ्चावसीयन्ते ॥
नन्वेवम् काण्वानामन्नपाठाभावात् कथम् पञ्च पञ्चजनप्रतीति-रित्यत्राह –
ज्योतिषैकेषामसत्यन्ने ॥ १-४-१३ ॥
एकेषाम् काण्वानाम् पाठे असत्यन्ने * तग्ं ह, देवा ज्योतिषाम् ज्यो-तिरि*(बृह.६-४-१६)ति प्रक्रम श्रुतषष्ट्यन्तज्योतिश्शब्दादेव पञ्च-जनशब्दितानीन्द्रियाणीत्यवसीयन्ते । ज्योतिश्शब्दस्याप्यर्थनिर्णायक-
सापेक्षत्वात्, पञ्चजनशब्दस्याप्यर्थनिर्णायकसापेक्षत्वात् परस्पराकाङ्क्षा- वशेन पञ्चत्वसङ्ख्यायुक्तानि प्रकाशकतया ज्योतिश्शब्दितानीन्द्रियाण्येव *पञ्चजना*(बृह.६-४-१७) इति न साङ्ख्याभिमताब्रह्मात्मक पञ्चविम्श-तितत्वप्रतीतिः ॥
इति सङ्ख्योपसङ्ग्रहाधिकरणम् ॥