॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्री शारीरकशास्त्रार्थ दीपिकायाम् प्रथमाध्यायस्य चतुर्थः पादः ॥
सर्वव्याख्यानाधिकरणम् ॥८॥
अतीतपञ्चत्रिम्शदधिकरणन्यायातिदेशरूपत्वात्सङ्गतिः।
अतीताधिकरणेषु अनुदाहृतकारणवाक्यविशेषाः किमुक्तलक्षण-ब्रह्मपराः उत नेति तेषाम् उक्तन्यायविषयत्वसम्भवासम्भवाभ्याम् सम्शये अनुदाहृताः कारणवाक्यविशेषाः परमपुरुषैकान्तिका न भवन्ति। *हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्* (हिरण्यगर्भ-सूक्तम्, तै.सम्.का.४। *यदा तमस्तन्न दिवा न रात्रिः न सन्न चासच्छिव एव केवल*(श्वे.४-१८) इत्यादिकारणवाक्यान्तरेषु ब्रह्मशिवादिशब्दोक्तकारणान्तरप्रतीतेरिति प्राप्तेऽभिधीयते-
एतेन सर्वे व्याख्याता व्याख्याताः ॥१-४-२९॥
सिद्धान्तस्तु-प्रमिताधिकरणोक्तन्यायैरेव तेऽपि परमापुरुषविषया-स्सिध्यन्तीति। तत्सिद्धिप्रकारस्तु श्वेताश्वतरतैत्तिरीयकसुबालनारायणो-पनिषदादिभाष्येषु प्रतिपादिता इति नात्र लिख्यन्ते। श्वेताश्वतरोपनिषस्तु हिरण्यगर्भशिवादिपदैः कलुषिते पारम्ये भगवत्परतया विशदीक्रियते। तथा हि – प्रथमद्वितीयखण्डयोः *व्यक्ताव्यक्तम् भरते विश्वमीशः*(श्वे.१-८, २-१५,१६)। *यदात्मकत्वेन तु ब्रह्मतत्वम् ज्ञात्वा देवम्*(श्वे.१-८, २-१५,१६)। *एव हि देवः प्रदिशोऽनुसर्वा*(श्वे.१-८, २-१५,१६) इति देवात्मेशब्रह्मशब्दैः परमात्मा निर्दिश्यते। ते च शब्दाः *अपहतपाप्मा दिव्यो देव एको नारायणः*(सुबाल, अथर्वशिरः)। *विश्वन्नारायण-न्देवम्*(तै.महा.ना.९-१)। *आत्मा नारायणः परः*(तै.महा.ना.११.अनु)। *अङ्गुष्ठमात्रः* पुरुषोङ्गुष्ठञ्च समाश्रितः*(तै.महा.ना.१६-५)। *ईशस्सर्वस्य जगतः*(तै.महा.ना.१६-५)। *येनाक्षरम् पुरुषम् वेद सत्यम् प्रोवाच ताम् तत्वतो ब्रह्मविद्याम्*(मुण्ड.१-२-१3) इत्यादिवाक्यगतनारा-यणप्रत्यभिज्ञापकाः। अत्र ईशशब्दश्च न रूढ्या प्रयुक्तः, अपि तु गुणयोगात्। *अनीशश्चात्मा*(श्वेत.२-८), *ज्ञाज्ञौ द्वावजावीशनीशौ* (श्वेत.१-९) *ईशस्सर्वस्ये*(तै.महा.ना.१६-५)ति निर्देशस्य सप्रति- सम्बन्धितयाऽवयवविवक्षाज्ञापकत्वात् *अनन्तश्चात्मा विश्वरूपो ह्यकर्ता* (श्वेत.१-९) इत्यत्र अनन्तशब्दो योगरूढः। रूढ्यविवक्षानिमित्त-सप्रतियोगिकनिर्देशाभावात्। तृतीये च खण्डे *य एतद्विदुरमृतास्ते-भवन्ती*(श्वेत.३-१)त्यनेन *अम्भस्यपार*(तै.महा.ना.१) इत्यनुवाकः प्रत्यभिज्ञाप्यते। स हि परमपुरुषविषयः एवमुपक्रमो भगवत्परः। *एको हि रुद्र*(श्वेत.३-२) इत्यनन्तरम् *विश्वतश्चक्षुरुतविश्वतो मुख*(श्वेत.३-३) इति मन्त्रश्च भगवत्प्रत्यभिज्ञापकः तस्य विद्युद्वर्णपुरुषविषयत्वात्। *द्यावापृथिवी जनयन् देव*(तै.महा.ना) इति *शीष्णोर्द्यौस्समवर्ततः *(पुरुषसूक्तम्), *पद्भ्याम् भूमिरि*(पुरुषसूक्तम्)त्यस्य प्रत्यबिज्ञापकम्। *यो देवानाम् प्रभवश्चोद्भवश्च विश्वाधिको रुद्रो महर्षिः*(श्वेत.४-१२) *हिरण्यगर्भम् जनयामास पूर्वमि*(श्वेत.३-४)त्येतत्तु यच्छब्दानुवादरूपतया प्रमाणान्तरसापेक्षतया दुर्बलमिदम्, रुद्रस्य बह्वृचशतपथब्राह्मणावगतहिरण्यगर्भजन्यत्वविरोधिहिरण्यगर्भजनकत्वम् न प्रतिपादयितुम् प्रभवति। बह्वृचे – *तदिदास भुवनेषु ज्येष्ठम् यतो जज्ञउग्रस्त्वेषनृम्णः। सद्यो जज्ञानो निरिणाति शत्रूनि* ति हिरण्यगर्भस्रष्टृत्वम् रुद्रशब्दरूढ्यर्थस्य प्रतिपाद्यते। सुबालोपनिषदि *ललाटात्क्रोधजो रुद्र*(सुबालोपनिषत्) इति नारायणादुत्पन्नत्वम् प्रतीयते। महोपनिषदि *सोऽन्यम् कामम् मनसा ध्यायीत त्र्यक्षश्शूलपाणिः पुरुषो जायत* (महोपनिषत्) इति, नारायणोपनिषदि *नारायणाद्रुद्रोऽजायत*(अथर्वशिरः) इति बृहदारण्यके *ब्रह्म वा इदमि*(बृह.५-४-११)ति ब्रह्म प्रकृत्य *इन्द्रो वरुणस्सोमो रुद्रः पर्जन्य*(बृह.५-४-११) इति, इन्द्रादितुल्यतया रुद्रस्यापि ब्रह्मणस्सकाशादुत्पत्तिः प्रतिपाद्यते। शतपथे अष्टमूर्त्तिब्राह्मणे *भूतानाम् च प्रजापतिस्सम्वत्सरमुषसि रेतोऽसिञ्चत्सम्वत्सरे कुमारोऽजायत सोऽरोदीत्तम् प्रजापतिरब्रवीत् कुमार किम् रोदिषीति सोऽब्रवीत् अनपहतपाप्माऽस्मीति अनाहितनाम नाम मे धेहि पाप्मनोऽपहत्या इति तम् पुनः प्रजापतिरब्रवीत् रुद्रोऽसीति*(शतपथ ब्रह्मणम्) इत्यादिना रुद्रस्य चतुर्मुखजन्यत्वम् अनपहतपाप्मत्वादिकमावेद्यते। तथा शैलालिब्राह्मणे चतुर्मुखसृष्टत्वम् रुद्रस्य प्रतिपाद्यते। साम्नि च *विरूपाक्षाय दन्ताञ्जये ब्रह्मणः पुत्राये*(छन्दोगाः)ति ब्रह्मणः पुत्रत्वम् प्रतीयते। *सोऽब्रवीत् वरम् वृणै अहमेव पशूनामधिपतिरसानीति तस्माद्रुदः पशूनामधिपतिरि* ति वरदानलब्धपशुपतिभावश्श्रूयते। *विष्णोरेवास्य प्रभृधे हविर्भिः विधेहि रुद्रीयम् महत्त्वमि* ति विष्ण्वाराधनलब्धमहिमत्वम् रुद्रस्य श्रूयते। अतो हिरण्यगर्भजन्यत्वेन नारायणजन्यत्वेन च अनपहतपाप्मत्वेन कर्माधीनैश्वर्यवत्त्वेन च श्रुतस्य रुद्रस्य तद्विरुद्ध-हिरण्यगर्भजनकत्वस्य अवताररूपोत्पत्तिरिति विरोधपरिहारस्य वा असम्भवात्। कल्पभेदेन एकस्यैव रुद्रस्य हिरण्यगर्भरूपात् स्वस्मा-दुत्पत्तिः कल्पान्तरे रुद्ररूपात्तमस्माद्धिरण्यगर्भरूपतयोत्पत्तिरिति कल्पनस्यापि कार्यत्वेन कर्मवश्यत्वेन प्रतिपादिते तस्मिन्नसम्भवात्, इन्द्रादीनामपि तथात्वापाताच्च, तस्य विश्वाधिकत्वरूपविशेषणा-सम्भवाच्च। ततश्च रुद्रशब्दस्य कार्यरुद्रव्यतिरिक्तविषयत्वे सति अस्य वाक्यस्यानुवादरूपतया *नारायणाद् ब्रह्मा जायत*(अथर्वशिरः) इत्यादियोग्यार्थप्रापकवाक्यानुगुण्येन भगवत्परत्वनिश्चयः रुद्रस्य हिरण्यगर्भजनकत्वाभावेन रूढ्यर्थत्यागे स्वीकार्ये हिरण्यगर्भशब्दस्य रूढिम् परित्यज्य स्कन्दपरत्वमाश्रीयताम् प्रसिद्धस्य रुद्रस्य स्कन्द-जनकत्वसम्भवादित्यपि शङ्का निरस्ता। विश्वाधिकत्वादिविशेषणानाम् रुद्रे असम्भवात्। अतो रुद्रशब्दो भगवत्परः। *रुद्रो बहुशिरा*(विष्णु-सहस्रनामम्) इति सहस्रनामपाठात्। *या ते रुद्रशिवातनूरि*(तै.सम्. काण्ड.४)त्यस्यानन्तरम् *ततःपरम् ब्रह्म परम् बृहन्तमि* ति वाक्यम् *नारयणः परम् ब्रह्मे*(तै.महा.ना)ति महोपनिषत्प्रत्यभि-ज्ञापकम्। *ईशन्तम् ज्ञात्वा अमृता भवन्ती* त्यत्र ईशशब्दः पूर्ववद्यौगिकः। वैरूप्यायोगात् *वेदाहमि*(पुरुषसूक्तम्)त्यन्तर-वाक्यस्थैतच्छब्दः पूर्वरुद्रशब्दवाच्यस्य महापुरुषत्वमवगमयति। प्रकृतपरामर्शित्वात्। *ततो यदुत्तरतर*(श्वेत.३-२०)मिति वाक्यमपि *परमतस्सेतून्माने*(ब्र.सू.३-२-२०)त्यत्रोपपादितरीत्या प्रकृतोप-सम्हारपरम्। सर्वाननशिरोग्रीवत्वम् च सूक्तार्थ स्मारकम्। सर्वव्यापि-पदन्तु *व्याप्य नारायण*(तै.महा.ना) इत्येतत्स्मारयति। भगवच्छब्दस्तु *भगवान् पवित्रम् वासुदेवः पवित्रम् परमम् पवित्रम् भगवान्वासुदेवः ये भगवन्तम् वासुदेवमेवम् विदुरि* ति वासुदेवसाधारणः। अत एव हि स्मर्यते – *एवमेष महाशब्दो मैत्रेय भगवानिति। परमब्रह्मभूतस्य वासुदेवस्य नान्यग*(वि.पु.६-५-७४) इति। *सत्वस्यैष प्रवर्तक*(श्वेत.३-१२) इति सत्वप्रवर्तकत्वञ्च भगवत इति स्थितम्। *यो ह खलु वा अस्य सात्विकोम्ऽशः सोऽसौ ब्रह्मचारिणः योऽयम् विष्णुरि*(मैत्रायिणी श्रुतिः)ति मैत्रायणीयश्रुतेः। *अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मे*(श्वेत.३-१३)ति अन्तरात्मत्वञ्च सुबालोपनिष-त्प्रत्यभिज्ञापकम्। *हृदा मनीषी*(श्वेत.३-१३)ति तु विद्युद्वर्ण-पुरुषस्मारकम्। अनन्तरम् *सहस्रशीर्षे*(तै.महा.ना) त्यादि पुरुषसूक्तमन्त्रद्वयमधीतम्। *सर्वस्यप्रभुमीशानमि*(श्वेत.३-१७) त्येतन्नपुम्सकत्वात् यौगिकमेव, न तु रूढम् पुल्लिङ्गताप्रसङ्गात्। *सर्वस्य शरणम् सुहृदि* त्येतत्तु *निवासश्शरणम् सुहृद्गतिः नारायण* इति श्रुतिप्रत्यभिज्ञापकम्। *तमाहुरग्न्यम् पुरुषम् महान्तमि* ति महापुरुष एव स्पष्टमुक्तः। धातृशब्दमपि महा-पुरुषशब्देनैकार्थयति *अणोरणीयानि*( कठ.१२-२, तै.महा.ना.१२-१)ति मन्त्रः। चतुर्थे च खण्डे *द्वा सुपर्णा* इत्यादिवाक्यद्वयम् मुण्डकोपनिषदैकार्थ्यात्परमपुरुषपरम्। अतः *मायिनन्तु महेश्वरमि* (श्वेत.४-१०)त्यत्र महेश्वरशब्दो मायाप्रेरकत्वपरः। *सर्वलोकमहेश्वरम् क्षीरोदस्योत्तरे तीरे जग्मुर्लोकहितार्थिन* इत्यारभ्य *ततः खस्थो महेश्वरः* इत्यादिषु महेश्वरशब्दो भगवति प्रयुक्तः। *येनेदम् खञ्च विचैति सर्वमि* ति प्रकृतम् सर्वस्य नियन्तृत्वमेव *तमीशानम् परमि* त्यत्रोच्यते। पूर्वम् *अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मे*(श्वेत.३-१३)ति पुरुषस्योक्तत्वात्। तत्र च *ईशानो भूत-भव्यस्ये*(कठ)ति श्रुत्यन्तरप्रसिद्धेशानशब्दस्य प्रतिसम्बध्यभिधानेन रूढिविरहावगमात्, भूतभव्यशब्दनिर्दिष्टस्यैवेह सर्वशब्दप्रतिपन्नत्वाच्च, तद्वदेव रूढिविरहस्सिद्धः। *य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम*(तै.स.काम्.हिरण्यगर्भसूक्तम्) इत्यत्र *हिरण्यगर्भ* (हिरण्यगर्भसूक्तम्) इत्यष्टर्चतुल्यविषयत्वम् प्रतीयते। तच्च भगवत्परमित्युपपादितम्। एवम् भगवत्परानेकोप-निषदैकार्थ्यप्रतीतेः *ज्ञात्वा शिवम्, शिव एव केवल* इति शिवशब्दद्वयम् तत्परम्। एवम् मुहुरभ्यस्यमानस्यापि शिवशब्दस्य *आकाशम् प्रत्यस्तम् यन्ति आकाशोह्येवैभ्यो ज्यायानि*(छान्.१-९-१) त्यत्र अभ्यस्ताकाशशब्दस्येव रूढार्थत्याग उपपन्नः। किम् च *सर्वव्यापी च भगवान् तस्मात्सर्व-गतश्शिव*(छान्.१-९-१) इत्ययम् शिवशब्दः प्राकरणिकशिवशब्दानाम् माङ्गलिकपरत्वमेव सूचयति। सर्वगतत्वेऽपि भगवच्छब्दवाच्यत्वा-न्निर्दोष इति हि तस्य वाक्यस्यार्थः। अन्यथा सर्वव्यापिसर्वगतपदयोः पुनरुक्तिप्रसङ्गात्। *तदक्षरम् तत्सवितुर्वरेण्यमि* त्यनेन *अक्षरम् परमम् प्रभुम् तत्सवितुर्वरेण्यम् ध्रुवमचलम-मृतम् विष्णुसञ्ज्ञम् सर्वाधारम् धामे* ति श्रुतिद्वयैकार्थ्यमवगम्यते। *हृदामनीषी* ति वाक्यम् *नैनमूर्ध्वम् न तिर्यञ्चमि*(तै.महा.ना) ति मन्त्रद्वयमध्यगतवाक्यस्थ शिवशब्दस्य परमपुरुषविषयताम् गमयति। तद्धि त्रयम् समुद्रान्तर्वर्तिविद्युद्वर्णपुरुषविषयम्। अतो *मानस्तोक* (श्वेत.४-२२) इति मन्त्रस्थरुद्रशब्दोऽप्यवयवशक्त्या पर्यवसानवृत्या वा भगवद्विषयः। पञ्चमखण्डे *भावकरम् शिवमि*(श्वेत.५-१-२)ति शिवशब्दो व्याख्यातः। षष्ठे च *ज्ञः कालकाल*(श्वेत.६-१२) इति कालस्यापि परिच्छेदकः काल उक्तः, नायमन्तकः। *भगेशमि*(श्वेत.६-६)त्यनेनापि भगशब्दवाच्या-नामैश्वर्यादीनाम् षण्णाम् ईश्वरत्वमेव प्रतीयते। ऐश्वर्यनिरङ्कुशत्वमेवोक्तम्। *देवतानाम् परमम् दैवतमि* त्यनन्तरनिर्देशवत्। तद्धि वाक्यम् देवता पारम्यपरम्। तत्र च दैवपतिशब्दौ न क्वचिद्देवताविशेषे रूढौ। तत्स्थानीयश्च महेश्वरशब्दः। अतो न रूढ्युन्मेषः। *न तत्समश्च* (श्वेत.६-८), *पराऽस्य शक्तिरि* (श्वेत.६-८)त्यादिभिश्च तत्पारम्योपपादनम् *एको देवः*(यजुःआर.३-११), *एको नारायण*(ऐतरेयम्) इत्यनेनैकार्थ्यात्।
*न तत्र सूर्यो भाती*(मुण्ड.२-२-५) ति मन्त्रश्च कठवल्ल्यधीतत्वात् विष्णोः प्रत्यभिज्ञापकम् *नान्यः पन्था* (पुरुष-सूक्तम्, श्वेत.६-१८) इति पुम्सूक्तम् स्मारयति। ईशादिशब्दानाम् यौगिकत्वम् ईशानत्वस्य निरुपाधिकत्व़ञ्च दर्शयति *ईशोऽस्येति* । *यो ब्रह्माणम् विदधाति पूर्वम्*(श्वेत.६-८), शरणम् मुमुक्षुर्वै प्रपद्ये*(श्वेत.६-१८), *अमृतस्य परम् सेतुमि*(श्वेत.६-१९) ति निर्देशाश्च नारायणत्वसाधकाः, य इत्यनुवादरूपत्वात्। ब्रह्मणो भगवन्नाभि-सम्भवत्वस्य प्रमाणप्रतिपन्नत्वात् *निवासश्शरणम् सुहृदि* ति श्रुतेः। *अमृतस्यैष सेतुरि*(मुण़्ड.२-२-५)ति मुण़्डके श्रवणात्। *यदा चर्मवदि*(श्वेत.६-२०)ति वाक्यम् उपायान्तराभावपरम् *नान्यः पन्था*(पुरुषसूक्तम्, श्वेत.६-१८) इत्युक्तार्थविवरणरूपम्। एवमुपक्रमोपसम्हारादिभिः भगवत्परत्वावगमात् बहूपनिषच्छ्रुतयोग्यार्था-साधारणाभ्यस्तनारायणशब्दानुरोधेनैव नानार्थसाधारणैकैकोपनिषित्पठि-तायोग्यार्थ शिवादिशब्दानाम् नेयत्वाच्चास्या उपनिषदो भगवत्परत्वम् सिद्धमिति ॥
इति सर्वव्याख्यानाधिकरणम् ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमस्याध्यास्य
चतुर्थः पादः ॥
इति चतुष्षष्टिप्रबन्धनिर्माणसम्सूचितसर्वतन्त्रस्वतन्त्रताबिरुदाञ्चितैः श्रीमद्रङ्गरामानुजमुनिभिरनुगृहीतायाम् श्रीशारीरकब्रह्मसूत्रव्याख्यायाम् प्रथमोध्यायस्समाप्तः ॥