कर्त्रधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तृतीयः पादः

कर्त्रधिकरणम् ॥ ५ ॥

   जीवो न कर्ता तस्यानाधेयातिशयत्वेन आत्मनि कृतेरसम्भवात् । *असङ्गो ह्ययम् पुरुष*(बृ.उ.६-३-१५) इति श्रुत्या असङ्गत्वावगमेन कृतिनिमित्तसम्योगाद्यभावाच्च । *हन्ता चेन्मन्यते हन्तुम् हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायम् हन्ति न हन्यत*(कठ.१-२-१९) इति आन्मनः कर्तृत्वस्य *प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते*(गी.३-२७) *नान्यम् गुणेभ्यः कर्तारम् यदा द्रष्टाऽनुपश्यती*   (गी.१४-१९)त्यादिस्मरणाच्चान्तः करणरूपेण परिणता त्रिगुणात्मिका प्रकृतिरेव कर्त्री न जीव इति पूर्वपक्षे प्राप्त उच्यते –

कर्ता शास्त्रार्थवत्वात् ॥ २-३-३३ ॥

आत्मैव कर्ता न प्रकृतिः । *ज्योतिष्टोमेन स्वर्गकामो यजेते*  त्यादिशास्त्राणामर्थवत्त्वावश्यम्भावात् । शास्त्रम् ह्यप्रवृत्तस्य प्रवर्तकज्ञानो-पादनद्वारा प्रवृत्तिमुत्पाद्य साफल्यम् गच्छेत् । अन्तःकरणादेरचेतनस्य प्रवर्त्यत्वे तस्याचेतनत्वेन प्रवर्तकज्ञानोत्पादनासम्भवात् शास्त्रम् विफलमेव स्यात् । न चात्मनोऽनाधेयातिशयत्वात् कृत्यभावश्शङ्क्यः । सुखदुःखाद्यतिशयस्य प्रत्यक्षसिद्धत्वेनानाधेयातिशयत्वासिद्धेः । न च कृतिनिमित्तसम्योगाभावः *आत्मेन्द्रियमनोयुक्तम् भोक्तेत्याहुर्मनीषिण* (कठ.१-३-४) इति निमित्तसम्योगस्य श्रुत्या प्रतिपादनात् । असङ्गत्व-श्रुतेस्तु जाग्रद्दशायाम् स्वप्नदृष्टेन जीवस्य सम्बन्धाभावमात्रपरत्वात् *हन्ता चेन्मन्यते हन्तुमि*(कठ.१-२-१९)ति श्रुतेर्हननक्रियायाम् नित्य-स्यात्मनः कर्तृकर्मभावनिषेधपरत्वेन कर्तृत्वसामान्यप्रतिक्षेपकत्वाभावात् । यच्च *प्रकृतेः क्रियमाणानी*(गी.३-२७)त्यादिना गुणानामेव कर्तृत्वम् स्मर्यत इति तत्साम्सारिकप्रवृत्तिष्वस्यात्मनः कर्तृता सत्वरजस्तमोगुण-सम्सर्गकृता न स्वरूपप्रयुक्तेति प्राप्ताप्राप्तविवेकेनु गुणानामेव कर्तृत्वमि-त्युच्यते । तथा च तत्रैवोच्यते – *कारणम् गुणसङ्गोऽस्य सदसद्यो-निजन्मस्वि*(गी.१३-२१)ति । अत एव *अधिष्ठानम् तथा कर्ता करणञ्च पृथग्विधम् । विविधा च पृथक्चेष्टा दैवञ्चैवात्र पञ्चमम् ॥ तत्रैवम्सति कर्तारमात्मानम् केवलम् तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिरि*(गी.१८-१४-१६)ति अधिष्ठानसापेक्षे सत्यात्मनः कर्तृत्वे यः केवलमात्मानम् कर्तारम् पश्यति स न पश्यतीति केवलस्यैवात्मनः कर्तृत्वम् निषिध्यते ।

उपादानाद्विहारोपदेशाच्च ॥ २-३-३४ ॥

*स यथा महाराज*(बृह.४-१-१८) इति प्रकृत्य *एवमेवैष एतत्प्राणान् गृहीत्वा स्वे शरीरे यथाकामम् परिवर्तत*(बृह.४-१-१८) इत्याद्युपादान-विहारयोः कर्तृत्वोपदेशात् ।

व्यपदेशाच्च क्रियायाम् न

चेन्निर्देशविपर्ययः ॥ २-३-३५ ॥

*विज्ञानम् यज्ञम् तनुते कर्माणि तनुतेऽपि चे*(तै.आन.५-१)ति लौकिकवैदिकक्रियासु कर्तृत्वव्यपदेशाच्चात्मा कर्ता ।
ननु न विज्ञानशब्देन आत्मनो व्यपदेशः । किन्तु बुद्धेरिति चेत् तथा सति बुद्धेः करणत्वात् *विज्ञानेन यज्ञम् तनुत* इति निर्देशस्स्यात् ।

उपलब्धिवदनियमः ॥ २-३-३६ ॥

यथात्वात्मनो विभुत्वे सार्वात्रिकोपलब्धिस्स्यादित्युपलब्ध्यनियमः प्रसज्यते एवमात्मनोऽकर्तृत्वे प्रकृतेश्च कर्तृत्वे तस्यास्सर्वपुरुषसाधा-रणत्वात् सर्वाणि कर्माणि सर्वेषाम् भोगाय स्युः । अन्तःकरणादयोऽपि नियामकाभावादनियतास्स्युः ।

शक्तिविपर्ययात् ॥ २-३-३७ ॥

बुद्धेःकर्तृत्वे भोक्तृत्वस्य कर्तृत्वसामानाधिकरण्याद्भोक्तृत्वमपि बुद्धेरेव स्यात् । ततश्च *पुरुषोऽस्ति भोक्तृभावादि*(साङ्ख्यकारिका)ति साङ्ख्य-दर्शनमसङ्गतमेवस्थात् ।

समाध्यभावाच्च ॥ २-३-३८ ॥

प्रकृतेः कर्तृत्वे आत्मनश्चाकर्तृत्वे प्रकृतिविविक्तात्मज्ञानलक्षणा समाधिश्च लुप्येत । प्रकृतेः तादृशज्ञानासम्भवात् । आत्मनो निष्क्रि-यस्य कर्तृत्वानङ्गीकाराच्च ॥
ननु आत्मनः कर्तृत्वे स्वाभाविके सति सर्वदा कर्तृत्वम् स्यात् ॥

यथा च तक्षोभयथा ॥ २-३-३९ ॥

यथा तक्षा सत्यामिच्छायाम् वास्यादिसहकारिसम्पत्तौ करोति नान्यदा तथा आत्मापि इच्छादिसम्पत्तौ करोति इतरथा न करोती-त्युपपद्यते । न च कर्तृत्वस्यानौपाधिकत्वे यावद्द्रव्य भावित्वमिति नियमः, बदरफले श्यामरक्तरूपयोरनौपाधिकयोरपि यावद्द्रव्यभावित्वा-दर्शनादिति सिद्धान्तितम् ।
अनेनैवात्मनः कर्तृत्वसमर्थनेन बुद्धिगतम् कर्तृत्वमात्मन्यध्यस्त इति वदन्तो मृषावादिनोऽपि पराकृताः । अन्तःकरणमिति लोकवेदयोः करणत्वेन प्रसिद्धाया बुद्धेः कर्तृत्वासम्भवात् । *शक्तिविपर्ययादि*(ब्र.सू. २-३-३७)ति सूत्रे बुद्धेः करणशक्तिर्हीयेत कर्तृशक्तिश्चापद्येत । सत्याम् च कर्तृशक्तौ कर्तृशक्तियुक्तायास्तस्याः करणमन्यत्कल्पनीयम् स्यात् । शक्तोऽपि हि कर्ता लोके करणमुपादाय प्रवर्तत इति । ततश्च नाममात्रे विवादस्स्यात् नार्थभेदः कश्चित् । करणव्यतिरिक्तस्य कर्तृत्वाभ्युप-गमादिति परैरुक्तत्वात् *गुहाम् प्रविष्टावि*(ब्र.सू.१-२-११)ति सूत्रे च वस्तुतो नैकस्यापि कर्तृत्वम् बुद्धेरचेतनत्वादात्मनो निर्विकारत्वादिति परैरेवोक्तत्वाच्चान्तःकरणगतम् कर्तृत्वमात्मन्यध्यस्त इत्युक्तिः पुर्वापर-विरुद्धैवेत्यास्ताम् तावत् ॥

इति कर्त्रधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.