ज्ञाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तृतीयः पादः

ज्ञाधिकरणम् ॥ ४ ॥

*यो विज्ञाने तिष्ठन्*(बृह.५-७-२२) *विज्ञानम् यज्ञम् तनुते*(तै.आन. ५-अनु) *ज्ञानस्वरूपमत्यन्तनिर्मलम् परमार्थत*(वि.पु.१-२-६) इति श्रुतिस्मृतिभिर्ज्ञानस्वरूपत्वस्यैवात्मनः प्रतीतेः न ज्ञाता । अथवा *अथ यो वेदेदम् जिघ्राणीति स आत्मा*(बृह.५-७-२२), *एष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुष*(प्रश्न.४-९) इति श्रवणात् *अहम् जानाम्यहमज्ञासिषमि*त्याद्यनुभावाच्चागन्तुकज्ञानाश्रय एव न स्वयम् ज्ञानरूपः । ज्ञानरूपत्ववचनानि तु लाक्षणिकानीत्येवम् पूर्वपक्षे प्राप्ते उच्यते –

ज्ञोऽत एव ॥ २-३-१९ ॥

अत एव *एष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुष*(प्रश्न.४-९) इति विज्ञानात्मन एव जीवस्य द्रष्टृत्वादि-श्रुतेरेवम् ज्ञानात्मकोऽपि स्वाभाविकज्ञानाश्रयम् च भवतीत्यर्थः ।
ननु विभोरात्मनस्स्वाभाविकज्ञानाश्रयत्वे तज्ज्ञानस्य सर्वपदार्थ-सम्बन्धात् सार्वज्ञ्यम् सर्वदास्यादित्याशङ्क्याह –

उत्क्रान्तिगत्यागतीनम् ॥ २-३-२० ॥

*तेन प्रद्योतेनैष आत्मा निष्क्रामति*(बृह.६-४-२), *ये वै के चास्मा-ल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति*(कौषी.१-२), *तस्माल्लो-कात्पुनरेत्यस्मै लोकाय कर्मण*(कौषी.८-१२) इति जीवस्य उत्क्रान्तिगत्यागतीनाम् श्रवणाज्जीवो न विभुः ।
ननु शरीरादुत्क्रमणम् नाम शरीरविषयकाभिमानराहित्यम् । तच्च विभोरप्यात्मनस्सम्भवतीत्यत्राह –

स्वात्मनाचोत्तरयोः ॥ २-३-२१ ॥

चशब्दोऽवधारणे । उत्क्रमणस्य कथञ्चित्सम्भवेऽपि उत्तरयो-र्गमनागमनयोस्स्वरूपेणैव सम्पाद्यत्वात् विभुत्वे तदसम्भवः । किञ्च भूतकरणग्रामासम्परिष्वक्तस्यैव *एतास्तेजोमात्रास्समभ्याद दानो हृदयमेवान्ववक्रामति*  *शुक्रमादाय पुनरेति स्थानमि*(बृह. ) ति शरीर एव स्वात्मनैव गत्या गतिश्रवणात् विभुत्वे च तयोरसम्भ-वान्न विभुरात्मा ।

नाणुरतच्छुतेरिति चेन्नेतराधिकारात् ॥ २-३-२२ ॥

*योऽयम् विज्ञानमयः प्राणेष्वि*(बृह.६-३-७)ति जीवम् प्रस्तुत्य *स वा एष महानज आत्मे*(बृह.६-४-२५)ति महत्व श्रुतेर्नाणुर्जीव इति चेन्न । *यस्यानुवित्तः प्रतिबुद्ध आत्मे*(बृह.६-४-१३)ति जीवेतरम् परमात्मानमधिकृत्य तस्यैव तत्र महत्वप्रतिपादनात् ।

स्वशब्दोन्मानाभ्याम् च ॥ २-३-२३ ॥

*एषोऽणुरात्मा चेतसा वेदितव्य*(मुण्ड.३-१-९) इति अणुत्वलक्षणस्य स्वस्य वाचकशब्दश्रवणात् *वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवस्सविज्ञेय*(श्वे.५-९) इति अणुसदृशम् वस्तूद्धृत्य तन्मान-त्वस्य जीवे आमननाच्चाणुरेव ।
ननु अणुत्वे सत्येकदेशस्थस्य कथम् सकलदेहव्यापिवेदनोपलम्भ इत्यत्र मतान्तरेण परिहारमाह –

अविरोधश्चन्दनवत् ॥ २-३-२४ ॥

यथा हरिचन्दनबिन्दुः शरीरैकदेशस्थोऽपि सकलदेहव्यापिनमाह्लादम् करोति एवम् जीवोsपि भविष्यति ।

अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॥ २-३-२५ ॥

हरिचन्दनबिन्द्वादेर्हृदयादिरूपदेशविशेषावस्थितिविशेषादस्ति तथा-भावः, आत्मनो न देश विशेषावस्थितिरिति कथम् तथात्वमिति चेन्न । *हृदि ह्ययमात्मे*(प्रश्न.३-६)ति जीवस्यापि शरीरप्रदेश विशेषावस्थित्य-भ्युपगमात् ॥
अथ स्वमतेन परिहारमाह –

गुणाद्वा लोकवत् ॥ २-३-२६ ॥

वाशब्दो मतान्तरव्यावृत्त्यर्थः । लोके यथा एकदेशस्थानामपि मणिद्युमणिप्रभृतीनाम् प्रभा व्यापिनी एवमेकदेशस्थितस्यापि जीवस्य प्रभास्थानीयधर्मभूतज्ञानव्याप्त्या सर्वाङ्गीण  सुखदुःखाद्यनुभवसम्भवा-न्नानुपपत्तिः ॥
ननु आत्मव्यतिरिक्तम् ज्ञानम् नास्तीत्यत्राह –

व्यतिरेको गन्धवत्तथा च दर्शयति ॥ २-३-२७ ॥

यथा गन्धस्य पृथिवीव्यतिरेकः प्रत्यक्षसिद्धः, तथा *अहम् जानामी* ति ज्ञानस्यात्मव्यतिरेकः प्रत्यक्षसिद्धः । *जानात्येवायम् पुरुष* (काशिका) इति ।
श्रुतिश्च तथा दर्शयति –

पृथगुपदेशात् ॥ २-३-२८ ॥

विज्ञानात्मनाः पृथक्कृत्य *न (हि) विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यत*(बृह.६-३-१०) इति तत्तद्वाचकशब्दैरेव पृथगुपदेशदर्शनादात्मधर्म-भूतम् ज्ञानमस्त्येव ॥
ननु ज्ञानस्यात्मापेक्षया पृथक्त्वे *यो विज्ञाने तिष्ठन्नि*(बृह.५-७-२२)त्यादिश्रुतीनाम् का गतिरित्यत्राह –

तद्गुणसारत्वात्तु तद्व्यपदेशः

प्राज्ञवत् ॥ २-३-२९ ॥

तुशब्दश्चोद्यम् व्यावर्तयति । जीवे विज्ञानगुणस्यैव सारभूत-गुणत्वात् तद्विज्ञानमिति जीवो व्यपदिश्यते । यथा प्राज्ञस्य परमात्मनः आनन्दगुणसारत्वात् *यदेष आकाश आनन्दो नस्यादि*(तै.आन.७-२) त्यानन्दशब्देन व्यपदेशः –

यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ २-३-३० ॥

यथा गोत्वादीनाम् यावद्गोव्यक्तिभावित्वाद्गोत्ववाचिभिर्गवादिशब्दै-र्व्यक्तिनिर्देशो दृश्यते, एवमेव ज्ञानरूपधर्मस्य यावदात्मभावित्वात्तद्वा-चकशब्देन धर्मिणो व्यपदेशो न दोषायेत्यर्थः । अत्र चकारात् ज्ञान-वदात्मनोऽपि स्वप्रकाशत्वेन ज्ञानमिति व्यपदेशो न दोषायेति समु-च्चिनोति –
ननु सुषुप्त्यादिषु ज्ञानाभावान्न ज्ञानस्य यावदात्मभाविधर्मत्वम् तत्राह –

पुम्स्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥ २-३-३१ ॥

यथा सर्वदा विद्यमानस्य पुम्स्त्वव्यञ्जकधातोः यौवनेऽभिव्यक्तिः, एवम् सर्वदा विद्यमानस्यापि ज्ञानस्येन्द्रियसम्प्रयोगदशायामभिव्यक्तिः । अतश्च ज्ञानस्वरूपोऽणुरात्मा च ज्ञाता च ॥

ननु ज्ञानरूप एवात्मा विभुरस्तु तत्राह –

नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो

वाऽन्यथा ॥ २-३-३२ ॥

किम् सर्वगत आत्मा उपलब्धेरेव वा अनुपलब्धेरेव वा हेतुः उतो-भयत्र । आद्यपक्षद्वये उपलब्धिरेव वा अनुपलब्धिरेव वेत्यन्यतरनियम-स्स्यात् । तृतीयपक्षे सर्वदा उपलब्ध्यनुपलब्धी स्याताम् । ततश्चोप-लम्भानुपलम्भौ पर्यायेण दृश्यमानौ नोपपद्येयाताम् । अणोर्ज्ञानस्वरूप-स्यैवात्मन इन्द्रियसम्प्रयोगादिकारणमहिम्ना कादाचित्की धर्मभूतज्ञान-भिव्यक्तिरिति । सिद्धान्तपक्षे तु नानुपपत्तिरिति स्थितम् ॥

इति ज्ञाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.