॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तुरीयः पादः
प्राणाणुत्वाधिकरणम् ॥ ३ ॥
*त ऐते सर्व एव समास्सर्वे अनन्ता*(बृह.३-५-१३) इत्यानन्त्यश्रव-णात् प्राणशब्दितानामिन्द्रियाणाम् विभुत्वमिति पूर्वपक्षे प्राप्त उच्यते –
अणवश्च ॥ २-४-६ ॥
*तमुत्क्रामन्तम् प्राणोऽनूत्क्रामती*(बृह.६-४-२)त्यादिनोत्क्रान्ति-श्रवणात् परिमितत्वे सिद्धे उत्क्रान्त्यादौ पार्श्वस्थैरनुपलभ्यमानत्वा-दणवश्च प्राणा भवन्ति । *अथ यो हैताननन्तानुपास्त*(बृह.३-५-१३) इत्यानन्त्यश्रुतिस्तु दर्शनश्रवणाद्यनन्तकार्यविशिष्ठतया तदुपासनविधि-परेति मन्तव्यम् ।
श्रेष्ठश्च ॥ २-४-७ ॥
*आनीदवातम् स्वधया तदेकमि*(ऋग्वेदः .८-७.१०-११-२)ति महाप्रळये प्राणकार्यानन श्रवणात् मुख्यप्राणोत्पत्तिवादो जीवोत्पत्ति-कवादवन्नेतव्य इति शङ्कायामाह – प्राणश्चोत्पद्यते । श्रेष्ठप्राणोऽपि इन्द्रियवदुत्पद्यते *आनीदवातमि*(ऋग्वेदः.८-७.१०-११-२)ति परब्रह्मण एकस्यैव विद्यमानत्वमुच्यते न मुख्यप्राणस्य *अवातमि*(ऋग्वेदः.८-७.१०-११-२)ति वायुमात्रसत्तायास्तत्रैव प्रतिषिद्धत्वात् ॥
इति प्राणाणुत्वाधिकरणम् ॥