॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तुरीयः पादः
श्रेष्ठाणुत्वाधिकरणम् ॥ ५ ॥
अणुश्च ॥ २-४-१२ ॥
वाजसनेयके प्राणविद्यायाम् *यद्वाव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैस्समो अनेन सर्वेणे*(बृह.३-३-२२)ति श्रुत्या यथा घटमठीयप्रभा तावन्मात्रव्यापिनी प्रासाददीपप्रभा च प्रासाद-व्यापिनी एवम् मुख्यप्राणोऽपि ब्रह्मादिपिपीलिकान्तशरीरेषु तत्तच्छरीरानु रूपव्याप्तिमत्वेन विभुस्स्यादिति पूर्वः पक्षः ।
सिद्धान्तस्तु *तमुत्क्रामन्तम् प्राणोऽनूत्क्रामती*(बृह.६-४-२) ति इन्द्रियाणामिव मुख्यप्राणस्यापि उत्क्रान्ति-श्रवणादणुत्वमिति ॥
इति श्रेष्ठाणुत्वाधिकरणम् ॥