॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥
अङ्गावबद्धाधिकरणम् ॥ २२ ॥
*ओमित्येतदक्षरमुद्गीथमुपासीते*(छान्.१-१-१)त्यादौ निर्विशेष-सामान्येन व्यवहारासम्भवाद्विशेषाकाङ्क्षायाम् तत्तच्छाखागतानामेवो- द्गीथव्यक्तीनाम् सन्निहितत्वात् तन्मात्रविषयत्वमेव उद्गीथश्रुतेर्युक्तम् । ततश्च ताण्डिशाखागतरसतमत्वकामाप्तिहिरण्मयपुरुषाकाशादिदृष्टि-विशिष्टोपासने ताण्डिशाखागतोद्गीथव्यक्तेरेव क्रतुमध्यप्रयुक्ताया उपास्यत्वम् न तु शाखान्तरगतोद्गीथव्यक्तेः । न च सर्वशाखा गतोद्गीथा-नामैक्यम् शङ्क्यम् स्वरादिभेदेन उद्गीथव्यक्तीनाम् भिन्नत्वात् । न चोद्गीथश्रुतेस्सङ्कोचलक्षण बाधप्रसङ्ग इति वाच्यम् । शुक्लपटमान-येत्यादौ पटशब्दस्य व्यक्तिविशेषार्थकत्वेऽपि *जातिव्यक्ती गृहीत्वेह वयन्तु श्रुतलक्षिते । कृष्णादि यदि मुञ्चामः का श्रुतिस्तत्र पीड्यत* इतिन्यायेन श्रुत्यर्थभूतायाः पटत्वजातेः लक्ष्याया व्यक्तेश्चा-परित्यागेन पटश्रुत्यबाध इत्युक्तरीत्या उद्गीथश्रुतेरप्य बाधात् तत्तच्छाखागतोद्गीथमात्रविषयत्वमेवेति पूर्वपक्षे प्राप्ते उच्यते –
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ३-३-५३ ॥
तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः । उद्गीथाद्यङ्गावबद्धा उपासनास्त-त्तच्छाखागतोद्गीथव्यक्तिष्वेव न व्यवतिष्ठेरन्, अपि तु प्रतिशाखम् सम्बध्येरन् । शुक्लम् पटमानयेत्यादौ शुक्लपदसमभिव्याहारान्यथा-नुपपत्त्या विशिष्टैकार्थप्रत्यायनायाविशेषप्रवृत्तश्रुतेः पीडनेऽपि प्रकृते तादृशबाधकाभावेनाविशेष प्रवृत्तोद्गीथश्रुतेः सन्निधिमात्रेण सङ्कोचाभावात् शाखान्तरगतः क्रतुमध्ये प्रयुज्यमान उद्गीथः शाखान्तरोक्तोपासनप्रकारे-णाप्युपास्य इत्यर्थः ।
मन्त्रादिवद्वाऽविरोधः ॥ ३-३-५४ ॥
शाखान्तराम्नातानाम् मन्त्रादीनाम् शाखान्तराम्नातक्रतुसम्बन्धवत् शाखान्तरगतोपासनानामपि शाखान्तरगतोद्गीथसम्बन्धे विरोधाभावादिति स्थितम् ॥
इति अङ्गावबद्धाधिकरणम् ॥