॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥
तन्निर्धारणानियमाधिकरणम् ॥१७॥
*ओमित्येतदक्षरमुद्गीथमुपासीते*(छान्.१-१-१)त्यादिना विहितानामङ्गावबद्धोपासनानामव्यभिचरितक्रतुसम्बन्धिजुहूपस्थापितक्रतुफलनिराकाङ्क्षपर्णतादिवत् अव्यभिचरितक्रतुसम्बन्ध्युद्गीथोपस्थापित-क्रतुफलेनैव नैराकाङ्क्ष्यात् *तदेव वीर्यवत्तरम् भवती*(छान्.१-१-१०)ति वीर्यवत्तरत्वादि श्रवणानामर्थवादत्वाद्व्रीहिप्रोक्षणपर्णतादिवदङ्गत्वात् उपासनानि क्रतौ नियमेनोपादेयानीति पूर्वपक्षे प्राप्ते उच्यते –
तन्निर्धारणानियमस्तद्दृष्टेः
पृथग्घ्यप्रतिबन्धः फलम्॥ ३-३-४१ ॥
निर्धारणम् – निश्चयेन मनसोऽवस्थापनम् ध्यानमित्यर्थः । तस्यो-पासनस्यानियमः नियमेनाननुष्ठानम् । *तेनोभौ कुरुतो यश्चैतदेवम् वेद यश्च न वेदे*(छान्.१-१-१०)त्यनियमदर्शनात्, तस्योपासनस्य प्रबलकर्मा-प्रतिबन्धरूपवीर्यवत्तरत्वलक्षणफलान्तरवत्त्वेन कर्माङ्गत्वाभावादित्यर्थः । अयम् भाव:पर्णतोदुम्बुरत्वादिस्थले विधिविभक्त्यश्रवणादर्थवादेनैव विधिशक्तिमुपजनय्य पुनस्तेनैव फलसमर्पणे विरम्य व्यापाराद्वाक्यम् भिद्येत । उपासनायान्तु विस्पष्टविधिश्रवणान्न फलविधित्वे वाक्यभेद-शङ्का । अतः पर्णतोदुम्बरतादिविध्यपेक्षया उपासनविधेर्वैषम्यात्फल-विधित्वम् सम्भवतीति ॥
इति तन्निर्धारणानियमाधिकरणम् ॥