॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥
आनन्दाद्यधिकरणम् ॥ ४ ॥
यथा विद्यान्तरे श्रुतानाम् सम्यद्वामत्वादीनाम् गुणानाम् न विद्यान्तरे उपसम्हारः तथा सत्यत्वज्ञानत्वादीनामपि विद्याविशेषप्रकरणश्रुतानाम् न विद्यान्तरे उपसम्हारः प्रापकाभावादिति पूर्वपक्षे प्राप्ते उच्यते –
आनन्दादयः प्रधानस्य ॥ ३-३-११ ॥
प्रधानस्य गुणिनो ब्रह्मणः सर्वेषु उपासनेष्वभेदाद्गुण्यपृथग्भूतानाम् आनन्दादीनाम् गुणानामपि सर्वेषु उपासनेषु उपसम्हारः ॥
नन्वेवम् प्रियशिरस्त्वादीनामपि सर्वेषूपासनेषूपसम्हारः प्राप्नोति । तत्राह –
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ ३-३-१२ ॥
प्रियशिरस्त्वादीनाम् ब्रह्मणो बुध्युपारोहाय कल्पितत्वेन ब्रह्मगुणत्वा-भावात् नोपासनान्तरे तेषाम् प्राप्तिः । यदि हि ब्रह्मणश्शिरः पक्षपुच्छाद्य-वयवभेदस्स्यात् तर्हि ब्रह्मणो मध्यप्रदेशे उपचयः शिरः प्रदेशे अपचयः इत्यादिकम् पक्षिवत् प्रसज्येत । नचानन्तस्य ब्रह्मणस्तदुपपद्यते ।
ननु प्रियशिरस्त्वादीनाम् अब्रह्मगुणतया सर्वविद्योपसहाराप्राप्तावपि सम्यद्वामत्वादीनाम् ब्रह्मगुणानाम् सर्वविद्यासूपसम्हारः प्राप्नोति ब्रह्म-गुणानामानन्त्येनोपसम्हारोऽशक्यश्च । तत्राह –
इतरेत्वर्थसामान्यात् ॥ ३-३-१३ ॥
इतरे तु आनन्दादयः अर्थसामान्यात् प्रयोजनसामान्यात् ब्रह्मस्व-रूपावगति लक्षणप्रयोजनैक्यात् सर्वासु परविद्यासूपसम्हर्तव्याः । ततश्च स्वरूपनिरूपकाः धर्मास्सत्य ज्ञानत्वानन्दत्वादयस्सर्वासु परविद्यासु उपसम्हर्तव्याः । निरूपितस्वरूपधर्माः सत्याकमत्वादयः न सर्वासु परविद्यासूपसम्हर्तव्याः ।
ननु प्रियाशिरस्त्वादीनाम् वस्तुतो ब्रह्मधर्मत्वाभावे तदुपदेशः किमर्थ इत्यत्राह –
आध्यानाय प्रयोजनाभावात् ॥ ३-३-१४ ॥
आध्यानाय बुध्यारोहणाय प्रियशिरस्त्वादिरुपदिश्यते प्रयोजनान्तर-स्याभावात् ।
आत्मशब्दाच्च ॥ ३-३-१५ ॥
*अन्योन्तर आत्मानन्दमय*(तै.आन.२-५) इति आनन्दमयस्यात्म-शब्देन निर्देशात् आत्मनश्च शिरः पक्षपुच्छाद्यसम्भवात्, प्रियशिरस्त्वा-दिकम् बुध्यारोहाय कल्पितमित्येवावसीयते ।
ननु *अन्योन्तर आत्मा प्राणमय*(तै.आन.२-२) इत्यात्मशब्दस्या-नात्मस्वपि पूर्वम् प्रयुक्तत्वात् *अन्योऽन्तर आत्माऽऽनन्दमय*(तै.आन. २-५) इत्यात्मशब्दस्य परमात्मविषयत्वम् कथम् निश्चीयते तत्राह –
आत्मगृहीतिरितरवदुत्तरात् ॥ ३-३-१६ ॥
*अन्योन्तर आत्मानन्दमय*(तै.आन. २-५) इत्यत्र आत्मशब्देन परमात्मन एव ग्रहणम् । इतरवत् – यथा इतरत्र *आत्मा वा इदमेक एवाग्र आसीत् स ईक्षत लोकान्नु सृजा*(ऐत.१-१-१) इत्यादिषु आत्म-शब्देन परमात्मन एव ग्रहणम् तद्वत् । कुत एतत् – उत्तरात् *सोऽकामयत बहुस्याम् प्रजायेये*(तै.आन.६-२)ति आनन्दमय विषया-दुत्तराद्वाक्यात् ।
अन्वयादिति चेत्स्यादवधारणात् ॥ ३-३-१७ ॥
पूर्वत्र प्राणमयादिषु अनात्मस्वात्मशब्दान्वयदर्शनान्नोत्तरान्निश्चेतुम् शक्यत इति चेत् स्यादवधारणात् – स्यादेव निश्चयः कुतः ? अवधार-णात् । पूर्वत्रापि *तस्माद्वा एतस्मादात्मन आकाशस्सम्भूत*( तै.उ. आन.१-२) इति परमात्मन एव बुध्याऽवधारितत्त्वात् । अन्नमयादन्तरे प्राणमये प्रथमम् परमात्मबुद्धिरवतीर्णा तदनन्तरञ्च प्राणमयादन्तरे मनोमये ततो विज्ञानमये तत आनन्दमये प्रक्रान्ता परमात्मबुद्धि-स्तदन्तराभावात्, तदुत्तराच्च *सोऽकामयते*(तै.आन.६-२)ति वाक्यात् प्रतिष्ठितेत्युपक्रमेऽपि अपरमात्मनि परमात्मबुध्या आत्मशब्दान्वय इति निरवद्यम् । न चानन्दमयेऽपि अपरमात्मत्वबुध्या आत्मशब्दप्रयोग इति शङ्क्यम् । तद्वदत्रान्तरानुपदेशात् बाधकाभावात् । नन्वितरव्यावृत्तब्रह्म-स्वरूप प्रतिपत्तिकाले सत्यत्वज्ञानत्वादीनाम् न प्रतीयमानत्वनियम-स्सम्भवति, अस्थूलत्वादिना वा अन्तर्यामित्वजगत्कारणत्वलक्ष्मीपतित्वनिरुपाधिकसर्वज्ञत्वादिभिर्वा इतरव्यावृत्तब्रह्मस्वरूप प्रतीतेस्सम्भवात् । अत आनन्दादीनाम् सत्यकामत्वसम्यद्वामत्वा-दीनाञ्च वैषम्यम् दुर्विवेचमिति चेत्
अत्र केचित् – धर्मा हि द्विविधाः विशेष्यस्वरूपनिष्ठाः सविशेषण-स्वरूपनिष्ठाश्च । ये विशेष्यस्वरूपनिष्ठाः आनन्दत्वादयः ते सर्वानुयायिनः । इतरे तु व्यवस्थिताः । जगत्कारणत्वस्य प्रकृतिपुरुषकालविशिष्ट-लक्षणतया तदुपयुक्तसार्वज्ञ्यादेरपि तथात्वान्न सर्वानुयायित्वम् । अयम् भावः – केचिद्धर्माः स्वरूपप्रयुक्तास्सततैकरूपाः निर्विकाराः । अत एव *यच्च कालान्तरेणापि नान्यसञ्ज्ञामुपैति वै । परिणामादिसम्भूताम् तद्वस्तु नृप तच्च किम् ॥ अनाशी परमार्थश्च प्राज्ञैरभ्मुपगम्यते*(वि.पु. २-१४-२४) इत्यादिभिरुपपादितः परमार्थशब्दवाच्यसर्वज्ञत्वसर्वानियन्तृ-त्वादिलक्षणास्ते सर्वविद्यानुयायिनः । सम्यद्वामत्वसर्वज्ञत्वादयस्तु धर्माःस्वरूपव्यतिरिक्तसततैकरूपत्वशून्य प्रकृतितत्कार्यजीवकालेश्वरधर्मभूत-ज्ञानघटिताः, न ते एकरूपाः । ईश्वरधर्मभूतज्ञानस्यापि नानाविध-सङ्कल्पत्वादिलक्षणविकारशालितया ऐश्वर्यतत्क्रियाणामप्यनेकरूपत्वा-त्तद्घटित धर्माणामपि नैकरूपत्वम् । अत एव न परमार्थशब्दितत्वञ्च । अतस्तेषाम् न सर्वानुयायित्वम् । ज्ञानत्वानन्तत्व सत्यत्वादीनाम् तु न तथेति वैषम्यमाहुः ।
अन्ये तु – स्वरूपप्रतीत्यन्तर्गता धर्मास्सर्वविद्यानुयायिनः । स्वरूप-प्रतीत्यन्तर्गतत्वम् स्वरूपान्तर्गतत्वमेव । ज्ञानत्वानन्दत्वादयस्तु स्वरूपाभिन्नधर्माः । अत एव परैरपि *आनन्दो विषयानुभवो नित्यत्वञ्चेति सन्ति धर्मास्ते चापृथक्त्वेऽपि पृथगिवावभासन्ते* इत्युक्तम् । अतश्च ये स्वरूपाभिन्ना धर्माः ते सर्वविद्यानुयायिनः । सर्वज्ञत्वसर्वकर्तृत्वादयस्तु धर्मभूतज्ञानक्रियादिरूपा धर्मिस्वरूपभिन्ना इति न सर्वानुयायिनः ।
अपरे तु-स्वरूपोपदेशपरवाक्यप्रतिपन्नानाम् सर्वविद्यानुयायित्वम्, नोपासनार्थोपदिष्टानाम् । न च *यस्सर्वज्ञस्सर्वविदि*(मुण्ड.२-२-७) त्यादिषु स्वरूपोपदेशपरवाक्यप्रतिपन्नतया सार्वज्ञ्यादीनामपि सर्वविद्यानुयायित्वप्रसङ्ग इति वाच्यम् । तस्याप्युपासनविध्यश्रवणेऽपि तत्परत्वात् । अत एव *सम्भृतिद्युव्याप्त्यपि चात*(ब्र.सू.३-३-२३) इत्यधिकरणेऽनारभ्य श्रुतानामश्रुतोपासनविधीनामप्युपासनार्थत्वम् सिद्धवत्कृत्वैव किम् सर्वविद्यानिवेशः उताल्पायतनव्यतिरिक्तास्विति चिन्ता प्रवर्तिता । नचैवमुपासनार्थत्वे सार्वज्ञ्यादीनाम् अपारमार्थ्यप्रसङ्ग इति वाच्यम् । बाधकाभावेन सत्यत्वात् । अत एव *ध्यानार्थेऽप्युपदेशे तद्गुणक ईश्वरस्सिध्यती*(शम्.भा.३-३-३७)ति व्यतिहारसूत्रे शङ्कर-भाष्येऽप्युक्तम् । इतरथा परमते सत्यकामत्वादीनाम् वागादिप्रादत्वा-दिवत् व्यावहारिकसत्यत्वस्यापि अभावप्रसङ्गादित्याहुः ॥
इति आनन्दाद्यधिकरणम् ॥