॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥
यथाश्रयभावाधिकरणम् ॥२६॥
अङ्गेषु यथाश्रयभावः ॥ ३-३-५९ ॥
अङ्गेष्वाश्रितानामुपासनानाम् क्रतोर्बहिःप्रयोगासम्भवेनाश्रयतन्त्र-त्वस्य वक्तव्यतया प्रयोगवचनेनाश्रयाणामुद्गीथादीनाम् समुच्चयनियमे-नाश्रितानामपि समुच्चयनियमो युक्तः । इतरथा तदाश्रितत्वानुपपत्ते-रित्यर्थः ।
शिष्टेश्च ॥ ३-३-६० ॥
*गोदोहनेन पशुकामस्य प्रणयेदि*(आप श्रौत.दर्शे)तिवदधिकारान्त-
राश्रवणेव *उद्गीथमुपासीते*(छान्.१-१-१)त्युद्गीथाङ्गतयोपासनविधानाच्च नियमेनोपासनोपादेया । न च वीर्यवत्तरत्वरूपफलार्थत्वस्य *तन्निर्धार-णानियम*(ब्र.सू.३-२-४१) इत्यत्रोक्तत्वात्कथम् तस्योद्गीथङ्गत्वमिति वाच्यम् । *उद्गीथमुपासीते*(छान्.१-१-१)ति वाक्योनोपासनस्योद्गीथ-रूपाश्रयसम्बन्धे वीर्यवत्तरत्वरूपफलसम्बन्धे च बोध्यमाने वाक्यभेद-प्रसङ्गात् । न च वाक्यभेदभीत्या तस्य फलविधित्वासम्भवेऽपि तस्य फलाकाङ्क्षायाम् रात्रिसत्रन्यायेन वीर्यवत्तरत्वस्यैवार्थवादिकस्य फलत्व-कल्पनम् सम्भवतीति वाच्यम् । पर्णतादावपि तथा प्रसङ्गात् ।
समाहारात् ॥ ३-३-६१ ॥
होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरती*(छान्.१-५-५)त्युपासनस्य
समाहारनियमो दृश्यते । उद्गातृकृतवेदनहानिप्रयुक्तोद्गीथवैगुण्यस्य होतृ-कर्तृकप्रणवोद्गीथैकत्वविज्ञानेन समाधानोक्त्योपासनस्यावश्यकत्व-प्रतीतेरित्यर्थः।
गुणसाधारण्यश्रुतेश्च ॥ ३-३-६२ ॥
उपासनगुणस्योपास्यस्य प्रणवस्य *तेनेयम् त्रयीविद्या वर्तत ओमि-त्याश्रावत्योमिति शम्सत्योमित्युद्गायती*(छान्.१-१-९)ति साधारण्यश्रुते-श्चोपासनावश्यकता गम्यते । प्रकृतपरामर्शिना तेनेतिशब्देन उपास्यस्य प्रणवस्यैव प्रतीतेः । अतः उपासननियमोऽस्तीति प्राप्त उच्यते –
न वा तत्सहभावाश्रुतेः ॥ ३-३-६३ ॥
न वा क्रतुषूपादाननियम उद्गीथोपासनादेः । कुतः तत्सहभावाश्रुतेः उद्गीथाङ्गभावाश्रुतेरित्यर्थः । वीर्यवत्तरत्वरूपफलार्थतया गोदोहनतुल्यत्वेन क्रत्वर्थत्वाभावादिति भावः । न च पर्णतादेरपि पुरुषार्थत्वप्रसङ्गः । पर्णताया जुहूसम्बन्धेऽप्यव्यापाररूपतया फलनिष्पादकत्वाभावेन फला-काङ्क्षया एवाभावात्फलकल्पनाया अप्रसक्तेः फलाकाङ्क्षासिध्यर्थम् क्रतूपरागेण व्यापाररूपताम् सम्पादयितुम् जुहूलिङ्गेन क्रतुमुपस्थाप्य तत्सम्बन्धबोधकशब्दो वा कल्प्यः, जुहूशब्दस्य जुहूसम्बन्धिक्रतु-लक्षकत्वम् वा कल्प्यम् । ततश्च क्रतुफलेनैव नैराकाङ्क्ष्याद्रात्रिसत्र-न्यायेनार्थवादिक फलकल्पना न समुन्मिषति । इहोपासनाया-स्स्वयम्व्यापाररूपायाः क्रतूपरागमन्तरेणैव फलाकाङ्क्षा सम्भवति । सत्याञ्च फलाकाङ्क्षायाम् वाक्यशेषस्यैव फलसमर्पकतया परिणाम-सम्भवे फलवत्कर्मान्तर बोधकवाक्यकल्पनाद्यनपेक्षणात् । तस्माद्वा-क्यशेषश्रुताय तस्मै फलायोद्गीथाद्याश्रयविशिष्टोपासन विधिरित्येव युक्तम् । न चोपासनानामाश्रयतन्त्रत्वात्सत्याश्रये तत्तन्त्राणामुपासनानामप्या-वश्यकत्वमिति वाच्यम् । इदमेव ह्युपासनानामाश्रयतन्त्रत्वम् यदाश्रये सत्येव वृत्तिर्नान्यदाऽस्तीति न तु यावदा श्रयसत्त्वम् वृत्तिरिति । ततश्च कामोपबद्धत्वादुपासनानाम् कामनानाम् चानित्यत्वात्तदवबद्धानामप्युपा-सनानामनित्यत्वमेव ।
दर्शनाच्च ॥ ३-३-६४ ॥
*एवम् विद्ध वै ब्रह्मा यज्ञम् यजमानम् सर्वाम्श्चर्त्विजोऽभिरक्षती* (छान्.४-१७-१०)ति ब्रह्मणो वेदनेनैव सर्वेषाम् रक्षणम् ब्रुवती श्रुतिरुद्गातृप्रभृतीनाम् वेदनस्यानियमम् दर्शयतीति स्थितम् ।
केचित्तूद्गीथविद्यायाः क्रत्वर्थत्वाभावे *अन्यथात्वम् शब्दादिति चेत्* (ब.सू.३-३-६) इत्यधिकरणे उद्गीथविद्यायाः क्रत्वर्थत्वेन क्रतुसाद्गुण्यफल-कत्वेऽप्यार्थवादिकमपि फलम् तदविरुद्धम् ग्राह्यमिति देवताधिकरणे प्रतिपादितमिति भाष्यम् विरुध्येत । तथा पुरुषार्थाधिकरणे *यदेव विद्यया करोती*(छान्.५-५-१०)ति विद्यायास्तृतीयाश्रुत्या कर्माङ्गत्वप्रति-पादनान्न विद्यातः पुरुषार्थ इति *तच्छुतेः*(ब्र.सू.३-४-४) इति सूत्रेण पूर्वपक्षे कृते तत्र विद्याशब्दस्य प्रकृतोद्गीथविद्याविषयत्वेनोद्गीथविद्या-मात्रस्य कर्माङ्गत्वेऽपि न ब्रह्मविद्यायाः कर्माङ्गत्वमस्तीत्येतदर्थप्रति-पादकयोः *असार्वत्रिकी*(ब्र.सू.३-४-१०) इति सूत्रतद्भाष्यायोर्विरोधश्च स्यादतश्चास्त्येव क्रत्वर्थत्वम् । न च *तन्निर्धारणानियमः*(ब्र.सू.३-३-४१) *अङ्गेषु यथाश्रयभावः*(ब्र.सू.३-३-५९) इत्यधिकरणद्वयविरोधः । तयोर्नियतक्रत्वर्थत्वप्रतिक्षेपमात्रपरत्वात् । न च क्रत्वर्थत्वेऽप्यार्थ-वादिकफलस्वीकारे पर्णताया अप्यपापश्लोकश्रवणफलकत्वप्रसङ्ग इति शङ्क्यम् । प्रस्तरप्रहरणस्य क्रत्वर्थस्यापि सूक्तवाकमन्त्रप्रतिपाद्य-फलार्थत्ववदुपकोसलविद्याङ्गभूताया अक्षिविद्यायाः *नास्यावरपुरुषाः क्षीयन्ते*(छान्.४-११-२) इति प्रतिपन्न ब्रह्मविद्याविरोधितदुपयोगि-फलार्थत्ववच्च क्रत्वर्थाया अपि पर्णताया अर्थवादप्रतिपन्नक्रत्वविरुद्ध-फलार्थत्वे न दोष इति भाष्यकाराशय इति वदन्ति । अन्ये तु *अन्य-थात्वम् शब्दात्*(ब.सू.३-३-६) इत्यत्र भाष्यस्यान्वारुह्योक्तत्वात् क्रत्व-र्थत्वम् न भाष्यकृदभिमतमिति वदन्ति ॥
इति यथाश्रयभावाधिकरणम् ॥ २६ ॥
***********
इति श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥