॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥
आप्रयाणाधिकरणम् ॥ ६ ॥
इदमपवर्गसाधनमुपासनम् एकस्मिन्नेवाहनि कार्यम् शास्त्रार्थस्य तावतैव कृतत्वादिति पूर्वपक्षे प्राप्ते उच्यते –
आप्रयाणात्तत्रापि हि दृष्टम् ॥४-१-१२॥
उपासनम् आमरणमनुवर्तनीयम् *स खल्वेवम् वर्तयन् यावदायुषम् ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तत*(छान्.८-१५-१) इति उपासनस्य यावदायुषमनुवर्तनीयत्वविधानात् ।
इति आप्रयाणाधिकरणम् ॥