॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥
आसीनाधिकरणम् ॥५॥
आसीनस्सम्भवात् ॥४-१-७॥
आसीन एव उपासीत | तस्यैव उपासनस्य सम्भवात् । तिष्ठतो गच्छतश्च यत्नसापेक्षत्वात् शयानस्य निद्राप्रसक्तेश्च उपासनस्य ध्यान-रूपत्वाच्च एकाग्रचित्ततावश्यम्भावात् चित्तैकाग्र्यस्यासन सापेक्षत्वा-च्चासीन एव कुर्यात् ।
ध्यानाच्च ॥ ४-१-८ ॥
सजातीयप्रत्ययान्तराव्यवहितचिन्तालक्षणध्यानलक्षणत्वादुपासनस्य तत्र च चित्तैकाग्र्यावश्यम्भावेन तत्सिद्धये आसीनत्वस्यापेक्षितत्वाच्च ।
अचलत्वञ्चापेक्ष्य ॥ ४-१-९ ॥
*ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षमि*(छान्.७-३-७)त्यादिषु निश्चलत्वधर्मेण ध्यातृसाम्यव्यपदेशदर्शनात् ध्यातृनिश्चलत्वस्यापेक्षि-तत्वात् निश्चलत्वस्य चासिकान्तरेणासम्भवात् आसीन एव कुर्यात् ।
स्मरन्ति च ॥ ४-१-१० ॥
*उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये*(गी.६-११) इति ध्याना-ङ्गतया आसीनता स्मर्यते । अतो ध्याने चित्तैकाग्र्यस्य अत्यावश्य-कत्वात्तदर्थमासीनत्वमपेक्षितम् ।
यत्रैकाग्रता तत्राविशेषात् ॥४-१-११॥
यत एव चित्तैकाग्र्यम् प्रधानहेतुः अत एव यस्मिन्देशे चित्तैकाग्र्यम् भवति स देशोऽपेक्षितः । देशविशेषनियमस्यापि चित्तैकाग्र्यसिध्यर्थत्वात् चित्तैकाग्र्यविरोधे सोऽपि नादर्तव्यः । *समे शुचौ शर्करावह्निवालुका-विवर्जिते* इत्यविशेषेण एकाग्रतानुकूलदेशविशेषस्यैवाङ्ग-त्वकीर्तनात् तेनैव च न्यायेन एकाग्रतानुकूलसनस्यापेक्षितत्वमस्तीति अवसीयत इति ॥
इति आसीनाधिकरणम् ॥