॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य तृतीयः पादः
आतिवाहिकाधिकरणम् ॥ ४ ॥
लोके ग्रामादिगन्तृणामिमम् वृक्षम् गत्वा इमाम् नदीम् गत्वा स ग्रामो गन्तव्य इति तत्तद्देशिकोप देशसरूपत्वादस्यापि वाक्यस्यार्चिरादयो मार्गचिह्नभूताः । अथवा *स अग्निलोकमागच्छति स वायुलोकमि* (कौषी.१-६)ति लोकशब्दश्रवणादर्चिराद्या भोगभूमय इत्येवम् पूर्वपक्षे प्राप्ते उच्यते –
आतिवाहिकास्तलिङ्गात् ॥ ४-३-४ ॥
विदुषामतिवाहे परमपुरुषेण नियुक्ताः देवताविशेषाः आतिवाहिकाः । गन्तृणाम् गमयितार इति यावत् । तल्लिङ्गात् *तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयती*(छान्.४-१५-५)ति वैद्युतपुरुषस्य गमयितृत्वसिद्ध-वत्कारेण ब्रह्मगमयितृत्वमात्रविशेषप्रतिपादनपरेण वाक्येनेतरेऽपि गमयितार इति प्रतीतेः । अर्चिरादिशब्दानाम् च *अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यामि*(ब्र.सू.२-२-५)ति सूत्रेण तदभिमानिदेवतापरत्व-सम्भवात् ।
ननु वैद्युतपुरुषस्यैव ब्रह्मगमयितृत्वे ऊर्ध्वम् कौषीतकिवाक्यानुसारेण निवेशितानाम् वरुणेन्द्रप्रजापतीनाम् कथम् सम्बन्धः । तत्राह –
वैद्युतनैव ततस्तच्छुतेः ॥ ४-३-५ ॥
ततः विद्युत उपरि वैद्युतेनैव ब्रह्मप्राप्त्यतिवाहनम् *स एनान् ब्रह्म गमयती*(छान्.४-१५-५)ति श्रुतेः । वरुणादयोऽपि तदनुग्राहका भवन्तीति द्रष्टव्यम् ॥
इति आतिवाहिकाधिकरणम् ॥