॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य तृतीयः पादः
वाय्वाधिकरणम् ॥२॥
वायुमब्दादविशेषविशेषाभ्याम् ॥ ४-३-२ ॥
वाजसनेयके *यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खम् तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छती*(बृह.७-१०-१)ति । स ब्रह्मवित् छान्दोग्योक्तार्चिर्दिन-पूर्वपक्षषडुदङ्गासाब्दद्वारेण वायुमागच्छतीत्यर्थः । स वायुः तस्मै आगताय ब्रह्मविदे विजिहीते आत्मावयवान् विगमयति छिद्रीकरोति स्वात्मानमित्यर्थः । ब्रह्मविदो न गमनप्रतिरोधक इति भावः । कियत्परिमाणम् छिद्रमित्याह – यथा रथचक्रस्य खम् रथचक्रमध्यवर्ति रन्ध्रम् यत्परिमाणम् तत्परिमाणछिद्रम् करोति तेन छिद्रेण ऊर्ध्वम् गत्वा स आदित्यलोकमागच्छतीत्यर्थः । *तस्मै स तत्र विजिहीते यथा आडम्बरस्य खम् तेन स ऊर्ध्वमाक्रमते स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभे:खम् तेन स ऊर्ध्वमाक्रमते स लोकमागच्छ-त्यशोकमहिमम् तस्मिन्वसति शाश्वतीस्समा*(बृह.७-१०-१) इति स्पष्टोऽर्थः ।
न च *देवलोकादादित्यमि*(बृह.८-२-१५)ति श्रुतेः अस्याश्श्रुतेश्च विरोध इति वाच्यम् । *योऽयम् पवत एष देवानाम् गृहाः* इति श्रुतेः वायोरेव तत्र देवलोकशब्दवाच्यत्वात् । इतरथा *देवलोकादादित्यमि *(बृह.८-२-१५)ति आदित्यानन्तरपूर्वपर्वतया देवलोकनिर्देशकस्यास्य वाक्यस्य *स वायुमागच्छति स आदित्यमागच्छती* ति वायो-रादित्यसमनन्तरपूर्वपर्वत्वप्रतिपादकश्रुतिविरोधप्रसङ्गात् । अतो देव-लोकवायुशब्दयोरेकार्थत्वम् वक्तव्यम् ।
वायुम् अब्दात् सम्वत्सरात् ऊर्ध्वमधिगच्छेत् । अविशेषविशेषाभ्याम् सामान्यविशेषाभ्याम् । देवलोकशब्दो हि सामान्यशब्दः । वायुशब्दो विशेषशब्दः । अतो वायुरेव देवलोक इति ॥
इति वाय्वधिकरणम् ॥