॥ श्रीशारीरकमीमांसाभाष्ये ज्योतिरधिकरणम् ॥
(अधिकरणार्थः – ज्योतिष्ट्वेनोपास्यं, जिज्ञास्यं ब्रह्मैव, न आदित्यादिकम्)
(कौक्षेयज्योतिर्विद्या गायत्रीविद्या च छा.उ. 3-12,13)
(वक्ष्यमाणाधिकरणद्वयस्य पेटिकान्तरत्वम्)
अत: परं जगत्कारणत्वव्याप्तेन येनकेनापि निरतिशयोत्कृष्टगुणेन जुष्टं ज्योतिरिन्द्रादिशब्दैरर्थान्तरप्रसिद्धैरप्यभिधीयमानं परं ब्रह्मैवेत्यभिधीयते – ज्योतिश्चरणाभिधानात् इत्यादिना
२५. ज्योतिश्चरणाभिधानात् ॥ १-१-२५ ॥
(विषयवाक्यप्रदर्शनम्)
इदमाम्नायते छान्दोग्ये – अथ यदत: परो दिवो ज्योतिर्दीप्यते विश्वत: पृष्ठेषु सर्वत: पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्त: पुरुषे ज्योति: (छा.३.१३.७) इति ॥
(अधिकरणाङ्गभूतः संशयः)
तत्र संशय: – किमयं ज्योतिश्शब्देन निर्दिष्टो निरतिशयदीप्तियुक्तोऽर्थ: प्रसिद्धमादित्यादिज्योतिरेव कारणभूतं ब्रह्म, उत समस्तचिदचिद्वस्तुजातविसजातीय: परमकारणभूतोऽमितभास्सर्वज्ञः सत्यसङ्कल्प: पुरुषोत्तम: – इति ॥
(सयुक्तिकं पूर्वपक्षस्वरूपम्)
किं युक्तम्? प्रसिद्धमेव ज्योतिरिति। कुत: प्रसिद्धवन्निर्देशेऽप्याकाशप्राणादिवत् स्ववाक्योपात्तपरमात्मव्याप्तलिङ्गविशेषादर्शनात्, परमपुरुष-प्रत्यभिज्ञानासम्भवात्, कौक्षेयज्योतिषा ऐक्योपदेशाच्च प्रसिद्धमेव ज्योति: कारणत्वव्याप्तनिरतिशयदीप्तियोगाज्जगत्कारणं ब्रह्मेति ॥
(सिद्धान्तस्वरूपम्)
एवं प्राप्ते प्रचक्ष्महे ज्योतिश्चरणाभिधानात् – द्युसम्बन्धितया निर्दिष्टं निरतिशयदीप्तियुक्तं ज्योति: परमपुरुष एव। कुत: पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि (छां.३.१२.६) इत्यस्यैव द्युसम्बन्धिनश्चरणत्वेन सर्वभूताभिधानात्॥
एतदुक्तं भवति – यद्यपि अथ यदत: परो दिवो ज्योति: (छा.३.१३.७) इत्यस्मिन्वाक्ये परमपुरुषासाधारणलिङ्गं नोपलभ्यते; तथापि पूर्ववाक्ये द्युसम्बन्धितया परमपुरुषस्य निर्देशादिदमपि द्युसम्बन्धिज्योतिस्स एवेति प्रत्यभिज्ञायत इति। कौक्षेयज्योतिषैक्योपदेशश्च फलाय तदात्मकत्वानुसन्धानविधिरिति न कश्चिद्दोष:। कौक्षेयज्योतिषश्च तदात्मकत्वं भगवता स्वयमेवोक्तम् अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित: (भ.गी.१५.१४) इति॥
२६. छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगमात्तथाहि दर्शनम् ॥ १-१-२६ ॥
पूर्वस्मिन्वाक्ये गायत्री वा इदं सर्वम् (छां.३.१२.१) इति गायत्र्याख्यं छन्दोऽभिधाय तदेतदृचाऽभ्यनूक्तम् (छा.३-१२-५) इत्युदाहृताया: तावानस्य महिमा (छां.३.१२.६) इत्यस्या ऋचोऽपि छन्दोविषयत्वान्नात्र परमपुरुषाभिधानमिति चेत् –
तन्न, तथा चेतोर्पणनिगमात् न गायत्रीशब्देन छन्दोमात्रमिहाभिधीयते, छन्दोमात्रस्य सर्वात्मकत्वानुपपत्ते:, अपि तु ब्रह्मण एव गायत्रीचेतोर्पणमिह निगम्यते। ब्रह्मणि गायत्रीसादृश्यानुसन्धानं फलायोपदिश्यत इत्यर्थ: । सम्भवति च पादोऽस्य सर्वा भूतानि। त्रिपादस्यामृतं दिवि (छा.३.१२.६) इति चतुष्पदो ब्रह्मणश्चतुष्पदया गायत्र्या च सादृश्यम्। चतुष्पदा च गायत्री क्वचिद्दृश्यते। तद्यथा इन्द्रश्शचीपति:। बलेन पीडित:। दुश्च्यवनो वृषा। समित्सुसासहि: इति। तथा ह्यन्यत्रापि सादृश्याच्छन्दोभिधायी शब्दोऽर्थान्तरे प्रयुज्यमानो दृश्यते। यथा संवर्गविद्यायाम् ते वा एते पञ्चान्ये पञ्चान्ये दश सम्पद्यन्त इत्यारभ्य सैषा विराडन्नात् (छा.४.३.८) इत्युच्यते॥ २६॥
इतश्च गायत्रीशब्देन ब्रह्मैवाभिधीयते –
२७. भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ १-१-२७ ॥
(योग्यतायाः अर्थनिर्णायकत्वम्)
भूतपृथिवीशरीरहृदयानि निर्दिश्य सैषा चतुष्पदा (छा.३.१२.५) इति व्यपदेशो ब्रह्मण्येव गायत्रीशब्दाभिधेय उपपद्यते।
२८. उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ १-१-२८ ॥
(उपदेशाकारवैलक्षण्यतः पूर्वोत्तरवाक्ययोः अनैकार्थ्यम् इति शङ्का, तत्परिहारश्च)
पूर्ववाक्ये त्रिपादस्यामृतं दिवि (छां.६.१२.६) इति दिव: अधिकरणत्वेन निर्देशादिह च दिव: पर इत्यवधित्वेन निर्देशादुपदेशस्य भिन्नरूपत्वेन पूर्ववाक्योक्तं ब्रह्म परस्मिन्न प्रत्यभिज्ञायत इति चेत् – तन्न, उभयस्मिन्नपि उपदेशे अर्थस्वभावैक्येन प्रत्यभिज्ञाया अविरोधात्; यथा वृक्षाग्रे श्येनो वृक्षाग्रात्परतश्श्येन: इति। तस्मात्परमपुरुष एव निरतिशयतेजस्को दिव: परो ज्योतिर्दीप्यत इति प्रतिपाद्यते ॥
(अधिकरणार्थनिगमनम्)
एतावानस्य महिमा। अतो ज्यायांश्च पुरुष:। पादोऽस्य विश्वाभूतानि। त्रिपादस्यामृतं दिवि (यजु.आर.३.१२) इति प्रतिपादितस्य चतुष्पद: परमपुरुषस्य वेदाहमेतं पुरुषं महान्तम्। आदित्यवर्णं तमस्स्तु पारे (ते.आर.३.१२) इत्यभिहिताप्राकृतरूपस्य तेजोऽप्यप्राकृतमिति तद्वत्तया स एव ज्योतिश्शब्दाभिधेय इति निरवद्यम्॥
इति श्रीशारीरकमीमांसाभाष्ये ज्योतिरधिकरणम्॥१०॥