(ब्रह्मणि प्रतिपत्तिदौस्स्थ्यनिरासपरम्)
जन्माद्यधिकरणम् ॥२॥
(अधिकरणार्थः – ब्रह्मणः सर्वकर्तृत्वम्)
किं पुनस्तद्ब्रह्म? यज्जिज्ञास्यमुच्यत इत्यत्राह –
२. जन्माद्यस्य यत: ॥ १-१-२ ॥
(सूत्रार्थवर्णनम्)
जन्मादीति – सृष्टिस्थितप्रलयम्। तद्गुणसंविज्ञानो बहुव्रीहि:। अस्य अचिन्त्यविविध-विचित्ररचनस्य नियतदेशकालफलभोगब्रह्मादिस्तम्बपर्यन्तक्षेत्रज्ञमिश्रस्य जगत:, यत: – यस्मात् सर्वेश्वरात् निखिलहेयप्रत्यनीकस्वरूपात्सत्यसंकल्पात् ज्ञानानन्दाद्यनन्तकल्याणगुणात् सर्वज्ञात् सर्वशक्ते: परमकारुणिकात् परस्मात्पुंस: सृष्टिस्थितप्रलया: प्रवर्तन्ते; तत् ब्रह्मेति सूत्रार्थ:॥
पूर्वपक्ष:
(अधिकरणस्याङ्गभूतविषयप्रदर्शनम्)
भृगुर्वै वारुणि:। वरुणं पितरमुपससार। अधीहि भगवो ब्रह्म इत्यारभ्य यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयत्न्यभिसंविशन्ति। तद्विजिज्ञासस्व। तद्ब्रह्म (तै.३.भृ.१.अनु) इति श्रूयते।
(अधिकरणस्याङ्गभूतः संशयः)
तत्र संशय: – किमस्माद्वाक्यात् ब्रह्म लक्षणत: प्रतिपत्तुं शक्यते, न वा – इति।
(अधिकरणस्याङ्गभूतः पूर्वपक्षः)
किं प्राप्तम्? न शक्यमिति। न तावज्जन्मादयो विशेषणत्वेन ब्रह्म लक्षयन्ति, अनेकविशेषणव्यावृत्तत्वेन ब्रह्मणोऽनेकत्वप्रसक्ते:। विशेषणत्वं हि व्यावर्तकत्वम् ॥
ननु देवदत्तश्श्यामो युवा लोहिताक्षस्समपरिमाण: इत्यत्र विशेषणबहुत्वेऽप्येक एव देवदत्त: प्रतीयते। एवमत्राप्येकमेव ब्रह्म भवति। नैवम् – तत्र प्रमाणान्तरेणैक्यप्रतीतेरेकस्मिन्नेव विशेषणानामुपसंहार:। अन्यथा तत्रापि व्यावर्तकत्वेनानेकत्वमपरिहार्यम्। अत्र त्वनेनैव विशेषणेन लिलक्षयिषितत्वात् ब्रह्मण: प्रमाणान्तरेणैक्यमनवगतमिति व्यावर्तकभेदेन ब्रह्मबहुत्वमवर्जनीयम्॥
ब्रह्मशब्दैक्यादत्राप्यैक्यं प्रतीयत इति चेत्, न, अज्ञातगोव्यक्ते: – जिज्ञासो: पुरुषस्य खण्डो मुण्ड: पूर्णशृङ्गो गौ: इत्युक्ते गोपदैक्येऽपि खण्डत्वादिव्यावर्तकभेदेन गोव्यक्तिबहुत्वप्रतीते: ब्रह्मव्यक्तयोऽपि बह्व्यस्स्यु:। अत एव लिलक्षियिषिते वस्तुनि एषां विशेषणानां संभूय लक्षणत्वमप्यनुपपन्नम्॥
(जन्मादीनां उपलक्षणतयाऽपि लक्षणत्वानुपपत्तिः)
नाप्युपलक्षणत्वेन लक्षयन्ति, आकारान्तराप्रतिपत्ते:। उपलक्षणानामेकेनाकारेण प्रतिपन्नस्य केनचिदाकारान्तरेण प्रतिपत्तिहेतुत्वं हि दृष्टं यत्रायं सारस:, स देवदत्तकेदार:, इत्यादिषु॥
ननु च सत्यं ज्ञानमनन्तं ब्रह्म (तै.आनन्द.१.) इति प्रतिपन्नाकारस्य जगज्जन्मादीन्युपलक्षणानि भवन्ति। न, इतरेतरप्रतिपन्नाकारापेक्षत्वेन उभयोर्लक्षणवाक्ययो: अन्योन्याश्रयणात्। अतो न लक्षणतो ब्रह्म प्रतिपत्तुं शक्यत इति॥
(अधिकरणाङ्गभूतः निर्णयः सिद्धान्तो वा)
(तत्र जन्मादिभिः उपलक्षणीभूतैरपि ब्रह्मप्रतिपत्तिः)
एवं प्राप्तेऽभिधीयते – जगत्सृष्टिस्थितिप्रलयैरुपलक्षणभूतैर्ब्रह्म प्रतिपत्तुं शक्यते। न च उपलक्षणोपलक्ष्याकारव्यतिरिक्ताकारान्तराप्रतिपत्तेर्ब्रह्माप्रतिपत्ति: । उपलक्ष्यं ह्यनवधिकातिशयबृहत् बृंहणं च; बृहतेर्धातोस्तदर्थत्वात् । तदुपलक्षणभूताश्च जगज्जन्मस्थितिलया:। यतो, येन, यत् इति प्रसिद्धवन्निर्देशेन यथाप्रसिद्धि जन्मादिकारणमनूद्यते। प्रसिद्धिश्च सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं (छां.६.२.१) तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत (छां.६.२.१) इत्येकस्यैव सच्छब्दवाच्यस्य निमित्तोपादनकारणत्वेन तदपि सदेवेदमग्रे एकमेवासीत् इत्युपादानतां प्रतिपाद्य अद्वितीयम् इत्यधिष्ठात्रन्तरं प्रतिषिध्य तदैक्षत बहुस्यां प्रजायेय इति तत्तेजोऽसृजत इत्येकस्यैव प्रतिपादनात्। तस्मात् यन्मूला जगज्जन्मस्थितिलया: तद्ब्रह्मेति जन्मस्थितिलया: स्वनिमित्तोपादानभूतं वस्तु ब्रह्मेति लक्षयन्ति।
(कारणत्वाक्षिप्ततृतीयाकारप्रतिपादनम्)
जगन्निमित्तोपादनताक्षिप्तसर्वज्ञत्वसत्यसङ्कल्पत्वविचित्रशक्तित्वाद्याकारबृहत्त्वेन प्रतिपन्नं ब्रह्मेति च जन्मादीनां तथा प्रतिपन्नस्य लक्षणत्वेन नाकारान्तराप्रतिपत्तिरूपानुपपत्ति:॥
(जन्मादीनां विशेषणतया ब्रह्मलक्षणत्वोपपत्तिः)
जगज्जन्मादीनां विशेषणतया लक्षणत्वेऽपि न कश्चिद्दोष:। लक्षणभूतान्यपि विशेषणानि स्वविरोधिव्यावृत्तं वस्तु लक्षयन्ति। अज्ञातस्वरूपे वस्तुन्येकस्मिन् लिलक्षयिषितेऽपि परस्पराविरोध्यनेकविशेषणलक्षणत्वं न भेदमापादयति; विशेषणानामेकाश्रयतया प्रतीतेरेकस्मिन्नेव उपसंहारात्। खण्डत्वादयस्तु विरोधादेव गोव्यक्तिभेदमापादयन्ति । अत्र तु कालभेदेन जन्मादीनां न विरोध:॥
(सत्यज्ञानादीनां लक्षणत्वोपपत्तिः, उक्तान्योन्याश्रयपरिहारश्च)
यतो वा इमानि भूतानि जायन्ते (तै.भृ.१.१) इत्यादिकारणवाक्येन प्रतिपन्नस्य जगज्जन्मादिकारणस्य ब्रह्मणस्सकलेतरव्यावृत्तं स्वरूपमभिधीयते सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१.१) इति। तत्र सत्यपदं निरुपाधिकसत्तायोगि ब्रह्माऽह। तेन विकारास्पदमचेतनं तत्संसृष्टश्चेतनश्च व्यावृत्त:। नामान्तरभजनार्हावस्थान्तरयोगेन तयोर्निरुपाधिकसत्तायोगरहितत्वात्। ज्ञानपदं नित्यासङ्कुचितज्ञानैकाकारमाह। तेन कदाचित् सङ्कुचितज्ञानत्वेन मुक्ता व्यावृत्ता:। अनन्तपदं देशकालवस्तुपरिच्छेदरहितं स्वरूपमाह। सगुणत्वात्स्वरूपस्य, स्वरूपेण गुणैश्चानन्त्यम्। तेन पूर्वपदद्वयव्यावृत्तकोटिद्वयविलक्षणास्सातिशयस्वरूपस्वगुणा: नित्या: व्यावृत्ता:। विशेषणानां व्यावर्तकत्वात्। तत: सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१.१) इत्यनेन वाक्येन जगज्जन्मादिनाऽवगतस्वरूपं ब्रह्म सकलेतरवस्तुविसजातीयमिति लक्ष्यत इति नान्योन्याश्रयणम् ॥
(अधिकरणार्थोपसंहारः)
अतस्सकलजगज्जन्मादिकारणं, निरवद्यं, सर्वज्ञं, सत्यसङ्कल्पं, सर्वशक्ति, ब्रह्म लक्षणत: प्रतिपत्तुं शक्यत इति सिद्धम्॥
(निर्विशेषस्य जिज्ञास्यत्वे सूत्रद्वयासाङ्गत्यम्)
ये तु निर्विशेषवस्तु जिज्ञास्यमिति वदन्ति। तन्मते ब्रह्म जिज्ञासा, जन्माद्यस्य यत: इत्यसङ्गतं स्यात्; निरतिशयबृहत् बृंहणं च ब्रह्मेति निर्वचनात्; तच्च ब्रह्म जगज्जन्मादिकारणमितिवचनाच्च। एवमुत्तरेष्वपि सूत्रगणेषु सूत्रोदाहृतश्रुतिगणेषु च ईक्षणाद्यन्वयदर्शनात् सूत्राणि सूत्रोदाहृतश्रुतयश्च न तत्र प्रमाणम्। तर्कश्च साध्यधर्माव्यभिचारिसाधनधर्मान्वितवस्तुविषयत्वान्न निर्विशेषवस्तुनि प्रमाणम्। जगज्जन्मादिभ्रमो यतस्तद्ब्रह्मेति स्वोत्प्रेक्षा पक्षेऽपि न निर्विशेषवस्तुसिद्धि:, भ्रममूलमज्ञानम्, अज्ञानसाक्षि ब्रह्मेत्यभ्युपगमात्। साक्षित्वं हि प्रकाशैकरसतयैवोच्यते। प्रकाशत्वं तु जडाद्व्यावर्तकं, स्वस्य परस्य च व्यवहारयोग्यतापादनस्वभावेन भवति। तथा सति सविशेषत्वम्। तदभावे प्रकाशतैव न स्यात्। तुच्छतैव स्यात्॥
इति श्रीशारीरकमीमांसाभाष्ये जन्माद्यधिकरणम्॥२॥