श्रीशारीरकमीमांसाभाष्ये अक्षराधिकरणम्
(अधिकरणार्थः – अक्षरशब्दवाच्यः प्रधानस्यापि आधारतया निर्दिष्टः परमात्मैव)
(गार्ग्यक्षरविद्या बृ.उ. 5-8)
७४. अक्षरमम्बरान्तधृते: ॥ १–३–९ ॥
(विषयवाक्यप्रदर्शनम्)
वाजसनेयिनो गार्गीप्रश्ने समामनन्ति सहोवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु अह्रस्वमदीर्घमलोहितमस्नेहमच्छायम् (बृ.५.८.८) इत्यादि।
(संशयप्रकारः)
तत्र संशय: – किमेतदक्षरं प्रधानम्, जीवो वा उत परमात्मा इति। किं युक्तम्? प्रधानमिति। कुत😕 अक्षरात्परत: पर: (मु.२.१.२) इत्यादिष्वक्षरशब्दस्य प्रधाने प्रयोगदर्शनादस्थूलत्वादीनां च तत्र समन्वयात्।
(सिद्धान्तिनः पार्श्वस्थस्य वा चोद्यम्, तत्परिहारश्च)
यया तदक्षरमधिगम्यते (मु.१.१.५) इत्यादिषु परस्मिन्नप्यक्षरशब्दो दृश्यत इति चेत् – न, प्रमाणान्तरप्रसिद्धश्रुतिप्रसिद्धयो: प्रमाणान्तरप्रसिद्धस्य प्रथमप्रतीते: प्रतीतपरिग्रहे विरोधाभावात्। किञ्च यदूर्ध्वं गार्गि दिवो, यदर्वाक्पृथिव्या: (बृ.५.८.७) इत्यारभ्य सर्वस्य कालत्रितयवर्तिन: कारणभूताकाशाधारत्वे प्रतिपादिते कस्मिन्नु खल्वाकाश: ओतश्च प्रोतश्च (बृ.५.८.६) इत्याकाशस्यापि कारणं तदाधारभूतं किमिति पृष्टे प्रत्युच्यमानमक्षरं सर्वविकारकारणतया तदाधारभूतं प्रमाणान्तरप्रसिद्धं प्रधानमिति प्रतीयते; अतोऽक्षरं प्रधानम्॥
(सिद्धान्तारम्भः)
इति प्राप्ते उच्यते – अक्षरमम्बरान्तधृते: अक्षरं – परं ब्रह्म; कुत😕 अम्बरान्तधृते:; अम्बरस्य – आकाशस्य, अन्त: – पारभूतम् अव्याकृतमम्बरान्त:; तस्य धृते: तदाधारतयास्याक्षरस्योपदेशादिति यावत्।
(सूत्राशयः)
अयमर्थ:- कस्मिन्नु खल्वाकाश: ओतश्च प्रोतश्च (बृ.५.८.७) इत्यत्राकाशशब्दनिर्दिष्टं न वायुमदम्बरम्, अपि तु तत्पारभूतमव्याकृतम्, अतस्तस्याव्याकृतस्यापि आधारत्वेनोच्यमानमक्षरं नाव्याकृतं भवितुमर्हाति – इति।
(आशङ्कापूर्वकम् उक्तार्थे गमकप्रदर्शनम्)
नन्वाकाशशब्दनिर्दिष्टो न वायुमानिति कथमवगम्यते; उच्यते यदूर्ध्वं गार्गिदिवो यदर्वाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते आकश एव तदोतं च प्रोतं च (बृह.५.८.१) इत्युक्ते त्रैकाल्यवर्तिनो विकारजातस्याधारतया निर्दिष्ट आकाशो न वायुमदाकाशो भवितुमर्हाति; तस्यापि विकारान्तर्गतत्वात्। अतोऽत्राकाशशब्दनिर्दिष्टं भूतसूक्ष्ममिति प्रतीयते। ततस्तस्यापि भूतसूक्ष्मस्याधारभूतं किमिति पृच्छ्यते कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च (बृह.५.८.७) इति। अतस्तदाधारतया निर्दिश्यमानमक्षरं न प्रधानं भवितुमर्हाति॥
(आशङ्कितार्थस्य अनुवादपूर्वकं निरासः)
यत्तु श्रुतिप्रसिद्धात्प्रमाणान्तरप्रसिद्धं प्रथमं प्रतीयत इति, तन्न, अक्षरशब्दस्यावयवशक्त्या स्वार्थप्रतिपादने प्रमाणान्तरानपेक्षणात्; सम्बन्धग्रहणदशायामर्थस्वरूपं येन प्रमाणेनावगम्यते, न तत्प्रतिपादनदशायामपेक्षणीयम्॥ ९॥
(उत्तरसूत्रावतारिका शङ्का)
एवं तर्ह्यक्षरशब्दनिर्दिष्टो जीवोऽस्तु, तस्य भूतसूक्ष्मपर्यन्तस्य कृत्स्नस्याचिद्वस्तुन आधारत्वोपपत्ते:; अस्थूलत्वाद्युच्यमानविशेषणोपपत्तेश्च अव्यक्तमक्षरे लीयते (सुबा.२) यस्याव्यक्तं शरीरं…यस्याक्षरं शरीरं (सुबा.७) क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते (गी.१५–१६) इत्यादिषु प्रत्यगात्मन्यप्यक्षरशब्दप्रयोगदर्शनादित्यत्रोत्तरम्
७५. सा च प्रशासनात् ॥ १–३–१० ॥
सा चाम्बरान्तधृतिरस्याक्षरस्य प्रशासनादेव भवतीत्युपदिश्यते एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत:, एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठत:; एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवस्संवत्सरा इति विधृतास्तिष्ठन्ति (बृ.५.८.९) इत्यादिना। प्रशासनम् प्रकृष्टं शासनम्। न चेदृशं स्वशासनाधीनसर्ववस्तुविधरणं बद्धमुक्तोभयावस्थस्यापि प्रत्यगात्मनस्सम्भवति। अत: पुरुषोत्तम एव प्रशासित्रक्षरम्॥ १०॥
७६. अन्यभावव्यावृत्तेश्च॥ १–३–११ ॥
(प्रशासितुरक्षरस्य प्रकृतिपुरुषाधिकता)
अन्यभाव: – अन्यत्वम्, प्रधानादिभाव:। अस्याक्षरस्य परमपुरुषादन्यत्वं वाक्यशेषे व्यावर्त्यते तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्तृ अविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ, नान्यदतोऽति मन्तृ, नान्यदतोऽस्ति विज्ञातृ, एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च (बृह.५.८.११) इति। अत्र द्रष्टुत्वश्रोतृत्वाद्युपदेशादस्य अक्षरस्याचेतनभूतप्रधानभावो व्यावर्त्यते; सर्वैरदृष्टस्यैव सतस्सर्वस्य द्रष्टृत्वाद्युपदेशाच्च प्रत्यगात्मभावो व्यावर्त्यते। अत इयमन्यभावव्यावृत्तिरस्याक्षरस्य परमपुरुषतां द्रढयति। एवं वाऽन्यभावव्यावृत्ति: – अन्यस्य सद्भावव्यावृत्तिरन्यभावव्यावृत्ति:, यथैतदक्षरमन्यैरदृष्टं सदन्येषां द्रष्टृ च सत्स्वव्यतिरिक्तस्य समस्तस्याधारभूतम्, एवमनेनादृष्टमेतस्य द्रष्टृ च सदेतस्याधारभूतमन्यन्नास्तीति वदन् नान्यदतोऽस्ति द्रष्टृ (बृ.५.८.११) इत्यादिवाक्यशेषोऽन्यस्य सद्भावं व्यावर्तयन्नस्याक्षरस्य प्रधानभावं प्रत्यगात्मभावं च प्रतिषेधति।
(सूत्रस्थ च शब्दस्य आशयः)
किञ्च एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्या: प्रशंसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ता: (बृ.५.८.९) इति श्रौतं स्मार्तं च यागदानहोमादिकं सर्वं कर्म यस्याऽज्ञया प्रवर्तते; तदक्षरं परब्रह्मभूत: पुरुषोत्तम एवेति विज्ञायते। अपि च यो वा एतदक्षरं गार्ग्यविदत्वाऽस्मिल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्प्रैति स कृपण:, अथ य एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात्प्रैति स ब्राह्मण: (बृ.५.८.१०) इति यदज्ञानात्संसार– प्राप्तिर्यज्ज्ञानाच्चामृतत्वप्राप्तिस्तदक्षरं परं ब्रह्मैवेतिसिद्धम्॥ ११॥
इति श्रीशारीरकमीमांसाभाष्ये अक्षराधिकरम्॥ ३॥