श्रीशारीरकमीमांसाभाष्ये अपशूद्राधिकरणम्॥
(अधिकरणार्थः – त्रैवर्णिकेतरेषां ब्रह्मविद्यासु अनधिकारः)
(संवर्गविद्या, छा.उ. 4-1,2,3)
९८. शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ १–३–३३ ॥
(विषयसंशययोः स्वरूपम्)
ब्रह्मविद्यायां शूद्रस्याप्यधिकारोऽस्ति न वेति विचार्यते; किं युक्तम्? अस्तीति। कुत: अर्थित्वसामर्थ्यप्रयुक्तत्वादधिकारस्य, शूद्रस्यापि तत्सम्भवात्।
(शूद्रेषु कर्मानधिकारः-विद्याधिकारयोः उपपत्तिः)
यद्यप्यग्निविद्यासाध्येषु कर्मस्वनग्निविद्यत्वाच्छूद्रस्यानधिकार:; तथापि मनोवृत्तिमात्रत्वाद्ब्रह्मोपासनस्य तत्राधिकारोऽस्त्येव, शास्त्रीयक्रियापेक्षत्वेऽप्युपासनस्य तत्तद्वर्णाश्रमोचितक्रियाया एवापेक्षितत्वाच्छूद्रस्यापि स्ववर्णोचितपूर्ववर्णशुश्रूषैव क्रिया भविष्यति। तस्माच्छूद्रो यज्ञेऽनवकॢप्त: (यजु.का.७.१.१.१) इत्यप्यग्निविद्यासाध्ययज्ञादिकर्मानधिकार एव न्यायसिद्धोऽनूद्यते।
(अश्रुत-वेदवेदान्तस्यापि शूद्रस्य उपासनोपपत्तिः)
नन्वनधीतवेदस्याश्रुतवेदान्तस्य ब्रह्मस्वरूपतदुपासनप्रकारानभिज्ञस्य कथं ब्रह्मोपासनं सम्भवति उच्यते – अनधीतवेदस्याश्रुतवेदान्तवाक्यस्यापीतिहासपुराणश्रवणेनापि ब्रह्मस्वरूप-तदुपासनज्ञानं सम्भवति। अस्ति च शूद्रस्यापीतिहासपुराणश्रवणानुज्ञा श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रत: (म.भा.शा.मो.३१४.४५) इत्यादौ। दृश्यन्ते चेतिहासपुराणेषु विदुरादयो ब्रह्मनिष्ठा:। तथोपनिषत्स्वपि संवर्गविद्यायां शूद्रस्यापि ब्रह्मविद्याधिकार: प्रतीयते – शुश्रूषुं हि जानश्रुतिमाचार्यो रैक्वश्शूद्रेत्यामन्त्र्य तस्मै ब्रह्मविद्यामुपदिशति – आजहारेमाश्शूद्रानेनैवमुखेनालापयिष्यथा: (छां.४.२.५) इत्यादिना। अतश्शूद्रश्याप्यधिकारस्सम्भवति॥
(सिद्धान्तारम्भः)
इति प्राप्त उच्यते– न शूद्रस्याधिकारस्सम्भवति, सामर्थ्याभावात्; न हि ब्रह्मस्वरूपतदुपासन–प्रकारमजानत: तदङ्गभूतवेदानुवचनयज्ञादिष्वनधिकृतस्य उपासनोपसंहार-सामर्थ्यसम्भव:; असमर्थस्य चार्थित्वसद्भावेऽप्यधिकारो न सम्भवति; असामर्थ्यं च वेदाध्ययनाभावात्;
(कर्मानधिकारवदेव विद्यास्वनधिकारोऽपि)
यथैव हि त्रैवर्णिकविषयाध्ययनविधिसिद्धस्वाध्यायसम्पाद्यज्ञानलाभेन कर्मविधयो ज्ञानतदुपायादीनपरान्न स्वीकुर्वन्ति; तथा ब्रह्मोपासनविधयोऽपि। अतोऽध्ययनविधिसिद्ध-स्वाध्यायाधिगतज्ञानस्यैव ब्रह्मोपासनोपायत्वाच्छूद्रस्य ब्रह्मोपासन-सामर्थ्यासम्भव:।
(इतिहास-पुराणयोः ज्ञानोपायत्वप्रकारः)
इतिहासपुराणे अपि वेदोपबृहणं कुर्वती एवोपायभावमनुभवत:; न स्वातन्त्र्येण; शूद्रस्येतिहासपुराणश्रवणानुज्ञानं पापक्षयादिफलार्थम्; नोपासनार्थम्। विदुरादयस्तु भवान्तराधिगतज्ञानाप्रमोषात् ज्ञानवन्त: प्रारब्धकर्मवशाच्चेदृशजन्मयोगिन इति तेषां ब्रह्मनिष्ठत्वम्।
(जानश्रुतेः शूद्रपदप्रयोगौचित्यम्)
यत्तु – संवर्गविद्यायां शुश्रूषोश्शुद्रेति सम्बोधनं शूद्रस्याधिकारं सूचयति – इति; तन्नेत्याह – शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि – शुश्रूषोर्जानश्रुते: पौत्रायणस्य ब्रह्मज्ञानवैकल्येन हंसोक्तानादरवाक्यश्रवणात्तदैव ब्रह्मविदो रैक्वस्य सकाशं प्रत्याद्रवणाच्छुगस्य सञ्जातेति हि सूच्यते; अतस्स शूद्रेत्यामन्त्र्यते, न चतुर्थवर्णत्वेन।
(शूद्रपदव्युत्पत्तिः)
शोचतीति हि शूद्र:; शुचेर्दश्च (उणादिषु) इति रप्रत्यये धातोश्च दीर्घे चकारस्य च दकारे शूद्र इति भवति। अतश्शोचितृत्वमेवास्य शूद्रशब्दप्रयोगेन सूच्यते; न जातियोग:।
(आख्यायिकार्थः)
जानश्रुति: किल पौत्रायणो बहुद्रव्यप्रदो बह्वन्नप्रदश्च बभूव। तस्य धार्मिकाग्रेसरस्य धर्मेण प्रीतयो: कयोश्चिन्महात्मनोरस्य ब्रह्मजिज्ञासामुत्पिपादयिषतो: हंसरूपेण निशायामस्याविदूरे गच्छतोरन्यतर इतरमुवाच – भो भोऽयि भल्लाक्ष भल्लाक्ष जानश्रुते: पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाङक्षीस्तत्त्वा मा प्रधाक्षीत् (छा.४.१.२) इति। एवं जानश्रुतिप्रशंसारूपं वाक्यमुपश्रुत्य परो हंस: प्रत्युवाच – कम्बर एनमेतत्सन्तं सयुग्वानमिव रैक्कमात्थ (छा.४.१.३) इति। कं सन्तमेनं जानश्रुतिं सयुग्वानं रैक्वं ब्रह्मज्ञमिव गुणश्रेष्ठमेतदात्थ; स ब्रह्मज्ञो रैक्व एव लोके गुणवत्तर:; महता धर्मेण संयुक्तस्याप्यस्य जानश्रुतेरब्रह्मज्ञस्य को गुण:, यद्गुणजनितं तेजो रैक्वतेज इव मां दहेदित्यर्थ:।
(रैक्क्वपरिचयसम्पादनम्)
एवमुक्तेन परेण कोऽसौ रैक्व इति पृष्ट: लोके यत्किञ्चित्साध्वनुष्ठितं कर्म, यच्च सर्वचेतनगतं विज्ञानम्, तदुभयं यदीयज्ञानकर्मान्तर्भूतम्, स रैक्व इत्याह।
(रैक्क्वोपसदनम्)
तदेतद्धंसवाक्यं ब्रह्मज्ञानविधुरतया आत्मनिन्दागर्भं तद्वत्तया च रैक्वप्रशंसारूपं जानश्रुतिरुपश्रुत्य तत्क्षणादेव क्षत्तारं रैक्वान्वेषणाय प्रेष्य तस्मिन्विदित्वा आगते स्वयमपि रैक्वमुपसद्य गवां षट्छतं निष्कमश्वतरीरथं च रैक्वायोपहृत्य रैक्वं प्रार्थयामास अनुम एतां भगवो देवतां शाधि यां देवतामुपास्से (छां.४.२.२) इति। त्वदुपास्यां परां देवतां ममानुशाधीत्यर्थ:।
(रैक्क्वेण शूद्रपदप्रयोगहेतुः)
स च रैक्वस्स्वयोगमहिमविदितलोकत्रयो जानश्रुतेर्ब्रह्मज्ञान–विधुरतानिमित्तानादरगर्भ-हंसवाक्यश्रवणेन शोकाविष्टतां तदनन्तरमेव ब्रह्मजिज्ञासयोद्योगं च विदित्वाऽस्य ब्रह्मविद्यायोग्यतामभिज्ञाय चिरकालसेवां विना द्रव्यप्रदानेन शुश्रूषमाणस्यास्य यावच्छक्तिप्रदानेन ब्रह्मविद्या प्रतिष्ठिता भवतीति मत्वा तमनुगृह्णन् तस्य शोकाविष्टतामुपदेशयोग्यताख्यापिकां शूद्रशब्देनामन्त्रणेन ज्ञापयन्निदमाह – अहहारे त्वा शूद्र तवैव सह गोभिरस्तु (छा.४.२.३) इति। सह गोभिरयं रथस्तवैवास्तु; नैतावता मह्यं दत्तेन ब्रह्मजिज्ञासया शोकाविष्टस्य तव ब्रह्मविद्या प्रतिष्ठिता भवतीत्यर्थ:।
(पुनरुपसत्तिः, रैक्क्वेण उपदेशश्च)
स च जानश्रुतिर्भूयोऽपि स्वशक्त्यनुगुणमेव गवादिकं धनं कन्यां च प्रदायोपससाद । स रैक्व: पुनरपि तस्य योग्यतामेव ख्यापयन् शूद्रशब्देनामन्त्र्याह – आजहारेमाश्शूद्रानेनैव मुखेनालापयिष्यथा: (छां.४.२.५) इति। इमानि धनानि शक्त्यनुगुणान्याजहर्थ; अनेनैव द्वारेण चिरसेवया विनाऽपि मां त्वदभिलषितं ब्रह्मोपदेशरूपवाक्यमालापियष्यसीत्युक्त्वा तस्मा उपदिदेश।
(विवक्षितोपसंहारः)
अतश्शूद्रशब्देन विद्योपदेशयोग्यताख्यापनार्थं शोक एवास्य सूचित:; न चतुर्थवर्णत्वम्॥३३॥
९९. क्षत्रियत्वगतेश्च ॥ १–३–३४ ॥
(द्विजत्वस्थिरीकरणम्)
बहुदायी इति दानपतित्वेन बहुपाक्य: (छां.४.१.१) इत्यादिना सर्वत एवमेतदन्नमत्स्यन्ति (छां.४.१.५) इत्यन्तेन बहुतरपक्वान्नप्रदायित्वप्रतीते: सहसञ्जिहान एव क्षत्तारमुवाच इति क्षत्तृप्रेषणाद्बहुग्रामप्रदानावगतजनपदाधिपत्याच्चास्य जानश्रुते: क्षत्रियत्वप्रतीतेश्च न चतुर्थवर्णत्वम् ॥३४॥
(सूत्रसङ्गतिः)
तदेवमुपक्रमगताख्यायिकायां क्षत्रियत्वप्रतीतिरुक्ता; उपसंहारगताख्यायिकायामपि क्षत्रियत्वमस्य प्रतीयत इत्यत्राह–
१००. उत्तरत्र चैत्ररथेन लिङ्गात् ॥ १–३–३५ ॥
(क्षत्रियत्वस्थिरीकरणम्)
अस्य जानश्रुतेरुपदिश्यमानायामस्यामेव संवर्गविद्यायामुत्तरत्र कीर्त्यमानेनाभिप्रतारिनाम्ना चैत्ररथेन क्षत्रियेणास्य क्षत्रियत्वं गम्यते। कथम्? अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे (छा.४.३.५) इत्यादिना ब्रह्मचारिन्नेदमुपास्महे (छा.४.३.७) इत्यन्तेन कापेयाभिप्रतारिणोर्भिक्षमाणस्य ब्रह्मचारिणश्च संवर्गविद्यासम्बन्धित्वं प्रतीयते। तेषु चाभिप्रतारी क्षत्रिय:, इतरौ ब्राह्मणौ, अतोऽस्यां विद्यायां ब्राह्मणस्य तदितरेषु च क्षत्रियस्यैवान्वयो दृश्यते; न शूद्रस्य। अतोऽस्यां विद्यायामन्विताद्रैक्वाद्ब्राह्मणादन्यस्य जानश्रुतेरपि क्षत्रियत्वमेव युक्तम्; न चतुर्थवर्णत्वम्।
(उक्तार्थे आक्षेपः तत्परिहारश्च)
नन्वस्मिन्प्रकरणेऽभिप्रतारिणश्चैत्ररथत्वं क्षत्रियत्वं च न श्रुतम्; तत्कथमस्याभिप्रतारिणः चैरथत्वम्? कथं वा क्षत्रियत्वम्? तत्राह लिङ्गात् – इति। अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिम् (छा.४.३.५) इत्यभिप्रतारिण: कापेयसाहचर्याल्लिङ्गादस्याभिप्रतारिण: कापेयसम्बन्ध: प्रतीयते; अन्यत्र च एतेन वै चैत्ररथं कापेया अयाजयन् (ताण्ड्य.२.१२.५) इति कापेयसबन्धिनश्चैत्ररथत्वं श्रूयते; तथा चैत्ररथस्य क्षत्रियत्वं तस्माच्चैत्ररथो नामैक: क्षत्रपतिरजायत (शतपथ.११.५.३.१३) इति; अतोऽभिप्रतारिणश्चैत्ररथत्वं क्षत्रियत्वं च गम्यते॥३५॥
(सूत्रयोः सङ्गतिः)
तदेवं न्यायविरोधिनि शूद्रस्याधिकारे लिङ्गं नोपलभ्यत इत्युक्तम्,
इदानीं न्यायसिद्धश्शूद्रस्यानधिकारश्श्रुतिस्मृतिभिरनुगृह्यत इत्याह –
१०१. संस्कारपरामर्शात्तदाभावाभिलापाच्च ॥ १–३–३६ ॥
(उपनयनस्य त्रैवर्णिकतास्थापकत्वम्)
ब्रह्मविद्योपदेशेषूपनयनसंस्कार: परामृश्यते – उप त्वानेष्ये (छा.४.४.५) तं होपनिन्ये (आप.श्रौत) इत्यादिषु। शूद्रस्य चोपनयनादिसंस्काराभावोऽभिलप्यते – न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हाति (मनु.१०.१२.६), चतुर्थो वर्ण एकजातिर्न च संस्कारमर्हाति (गौत.१०.अ.९) इत्यादिषु ॥ ३६॥
१०२. तदभावनिर्धारणे च प्रवृत्ते: ॥ १–३–३७ ॥
(उपदेशात् पूर्वं ब्राह्मणत्वनिर्णयप्रवृत्तिदर्शनं विद्यान्तरे)
नैतदब्राह्मणो विवक्तुमर्हाति समिधं सोम्याहर (छां.४.४.५) इति शुश्रूषोर्जाबालस्य शूद्रत्वाभावनिर्धारणे सत्येव विद्योपदेशप्रवृत्तेश्च न शूद्रस्याधिकार:॥ ३७॥
१०३ श्रवणाध्ययनार्थप्रतिषेधात् ॥ १–३–३८ ॥
(शूद्रे अध्ययनोपासननिषेधस्य श्रौतता)
शूद्रस्य वेदश्रवणतदध्ययनतदर्थानुष्ठानानि प्रतिषिध्यन्ते पद्यु ह वा एतच्छ्मशानं यच्छूद्रस्तस्माच्छूद्रसमीपे नाध्येतव्यम् तस्माच्छूद्रो बहुपशुरयज्ञीय: इति। बहुपशु: पशुसदृश इत्यर्थ:। अनुपशृण्वतोऽध्ययनतदर्थज्ञानतदर्थानुष्ठानानि न सम्भवन्ति; अतस्तान्यपि प्रतिषिद्धान्येव॥३८॥
१०४. स्मृतेश्च ॥ १–३–३९ ॥
(उक्तार्थस्य स्मृतितः सिद्धिः)
स्मर्यते च श्रवणादिनिषेध: अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणमुदाहरणे जिह्वाच्छेदो धारणे शरीरभेद: (गौत.ध.२.१२.३) इति, न चास्योपदिशेद्धर्मं नचास्य व्रतमादिशेत् (मनु.४.८०) इति च; अतश्शूद्रस्यानधिकार इति सिद्धम्॥३९॥
(अस्याधिकरणस्य पराभिमतार्थविरुद्धता)
ये तु निर्विशेषचिन्मात्रं ब्रह्मैव परमार्थ:; अन्यत्सर्वं मिथ्याभूतम्; बन्धश्चापारमार्थिक:; स च वाक्यजन्यवस्तुयाथात्म्यज्ञानमात्रनिवर्त्य:; तन्निवृत्तिरेव मोक्ष: – इति वदन्ति; तैर्ब्रह्मज्ञाने शूद्रादेरनधिकारो वक्तुं न शक्यते; अनुपनीतस्य अनधीतवेदस्याश्रुतवेदान्तवाक्यस्यापि यस्मात्कस्मादपि निर्विशेषचिन्मात्रं ब्रह्मैव परमार्थोऽन्यत्सर्वं तस्मिन्परिकल्पितं मिथ्याभूतमिति वाक्याद्वस्तुयाथात्म्यज्ञानोत्पत्ते:, तावतैव बन्धनिवृत्तेश्च। न च तत्त्वमस्यादिवाक्येनैव ज्ञानोत्पत्ति: कार्या न वाक्यान्तरेणेति नियन्तुं शक्यम्; ज्ञानस्यापुरुषतन्त्रत्वात्, सत्यां सामग्र्यामनिच्छतोऽपि ज्ञानोत्पत्ते:।
(वेदायत्तज्ञानस्यैव बन्धनिवर्तकत्वाशङ्का तत्परिहारश्च)
न च वेदवाक्यादेव वस्तुयाथात्म्यज्ञाने सति बन्धनिवृत्तिर्भवतीति शक्यं वक्तुम्, येन केनापि वस्तुयाथाम्यज्ञाने सति भ्रान्तिनिवृत्ते:; पौरुषेयादपि निर्विशेषचिन्मात्रं ब्रह्म परमार्थोऽन्यत्सर्वं मिथ्याभूतमिति वाक्यात् ज्ञानोत्पत्तेस्तावतैव भ्रमनिवृत्तेश्च। यथा पौरुषेयादप्याप्तवाक्याच्छुक्तिकारजतादिभ्रान्तिर्ब्राह्मणस्य शूद्रादेरपि निवर्तते, तद्वदेव शूद्रस्यापि वेदवित्सम्प्रदायागतवाक्याद्वस्तुयाथात्म्यज्ञानेन जगद्भ्रमनिवृत्तिरपि भविष्यति ॥
(वेदविद्भिः शूद्रस्य ज्ञानासम्भवशङ्का – तत्परिहारौ)
न चास्योपदिशेद्धर्मम् (मनु.४.८०) इत्यादिना वेदविदश्शूद्रादिभ्यो न वदन्तीति च न शक्यं वक्तुम्, तत्त्वमस्यादिवाक्यावगतब्रह्मात्मभावानां वेदशिरसि वर्तमानतया दग्धाखिलाधिकारत्वेन निषेधशास्त्रकिङ्करत्वाभावात्, अतिक्रान्तनिषेधैर्वा कैश्चिदुक्ताद्वाक्याच्छूद्रादे: ज्ञानमुत्पद्यत एव।
(पौरुषेयवाक्यात् बन्धहेतुभ्रमनिवृत्तिशङ्का – तत्परिहारौ)
न च वाच्यं – शुक्तिकादौ रजतादिभ्रमनिवृत्तिवत्पौरुषेय–वाक्यजन्यतत्त्वज्ञानसमनन्तरं शूद्रस्य जगद्भ्रमो न निवर्तत इति; तत्त्वमस्यादिवाक्यश्रवणसमनन्तरं ब्राह्मणस्यापि जगद्भ्रमानिवृत्ते:। निदिध्यासनेन द्वैतवासनायां निरस्तायामेव तत्त्वमस्यादिवाक्यं निवर्तकज्ञानमुत्पादयतीति चेत् – पौरुषेयमपि वाक्यं शूद्रादेस्तथैवेति न कश्चिद्विशेष:।
निदिध्यासनं हि नाम ब्रह्मात्मत्वभावाभिधायी वाक्यं यदर्थप्रतिपादनयोग्यम्, तदर्थभावना; सैव विपरीतवासनां निवर्तयतीति दृष्टार्थत्वं निदिध्यासनविधेर्ब्रूषे, वेदानुवचनादीन्यपि विविदिषोत्पत्तावेवोपयुज्यन्ते इति शूद्रस्यापि विविदिषायां जातायां पौरुषेयवाक्यान्निदिध्यासनादिभि: विपरीतवासनायां निरस्तायां ज्ञानमुत्पत्स्यते; तेनैवापारमार्थिको बन्धो निवर्तिष्यते।
(मुखान्तरेण ज्ञानसम्भवप्रदर्शनतः पराभिप्रायनिरसनम्)
अथवा तर्कानुगृहीतात्प्रत्यक्षादनुमानाच्च निर्विशेषस्वप्रकाशचिन्मात्रप्रत्यग्वस्तुनि अज्ञानसाक्षित्वं, तत्कृतविविधविचित्रज्ञातृज्ञेयविकल्परूपं कृत्स्नं जगच्चाध्यस्तमिति निश्चित्यैवम्भूतपरिशुद्धप्रत्यग्वस्तुनि अनवरतभावनया विपरीतवासनां निरस्य तदेव प्रत्यग्वस्तु साक्षात्कृत्य शूद्रादयोऽपि विमोक्ष्यन्त इति मिथ्याभूतविचित्रैश्वर्यविचित्रसृष्ट्याद्यलौकिकानन्त–विशेषावलम्बिना वेदान्तवाक्येन न किञ्चित्प्रयोजनमिह दृश्यत इति शूद्रादीनामेव ब्रह्मविद्यायामधिकारस्सुशोभन:।
(श्रुतिवैयर्थ्यरूपम् अनुपपत्त्यन्तरम्)
अनेनैव न्यायेन ब्राह्मणादीनामपि ब्रह्मवेदनसिद्धेरुपनिषच्च तपस्विनी दत्तजलाञ्जलिस्स्यात्।
(प्रकारान्तरेण श्रुतिजन्यज्ञानावश्यकत्वशङ्का तत्परिहारश्च)
न च वाच्यं नैसर्गिकलोकव्यवहारे भ्राम्यतोऽस्य केनचिदयं लौकिकव्यवहारो भ्रम:, परमार्थस्त्वेवमिति समर्पिते सत्येव प्रत्यक्षानुमानवृत्तबुभुत्सा जायत इति तत्समर्पिका श्रुतिरप्यास्थेयेति; यतो भवभयभीतानां साङ्ख्यादय एव प्रत्यक्षानुमानाभ्यां वस्तुनिरूपणं कुर्वन्त: प्रत्यक्षानुमानवृत्तबुभुत्सां जनयन्ति; बुभुत्सायां च जातायां प्रत्यक्षानुमानाभ्यामेव विविक्तस्वभावाभ्यां नित्यशुद्धस्वप्रकाशाद्वितीयकूटस्थचैतन्यमेव सत्, अन्यत्सर्वं तस्मिन्नध्यस्तमिति सुविवेचम्। एवम्भूते स्वप्रकाशे वस्तुनि श्रुतिसमधिगम्यं विशेषान्तरं च नाभ्युपगम्यते; अध्यस्तातद्रूपनिवर्तिनी हि श्रुतिरपि त्वन्मते। न च सत आत्मन आनन्दरूपताज्ञानाय उपनिषदास्थेया, चिद्रूपताया एव सकलेतरातद्रूपव्यावृत्ताया आनन्दरूपत्वात्।
(उपासनस्य वेदान्तविहितस्य मोक्षोपायत्ववादिना सर्वदोषाभावः)
यस्य तु मोक्षसाधनतया वेदान्तवाक्यैर्विहितं ज्ञानमुपासनरूपम्, तच्च परब्रह्मभूतपरमपुरुषप्रीणनम्, तच्च शास्त्रैकसमधिगम्यम्, उपासनशास्त्रं चोपनयनादिसंस्कृताधीत-स्वाध्यायजनितं ज्ञानं विवेकविमोकादिसाधनानुगृहीतमेव स्वोपायतया स्वीकरोति, एवं रूपोपासनप्रीत: पुरुषोत्तम उपासकं स्वाभाविकात्मयाथात्म्यज्ञानदानेन कर्मजनिताज्ञानं नाशयन्बन्धान्मोचयतीति पक्ष:; तस्य यथोक्तया नीत्या शूद्रादेरनधिकार उपपद्यते॥
इति श्रीशारीरकमीमांसाभाष्ये अपशूद्राधिकरणम्॥