श्रीभाष्यम् 01-04-30 संख्योपसंग्रहाधिकरणम्

श्रीशारीरकमीमासांभष्ये संख्योपसंग्रहाधिकरणम्॥३॥

(अधिकरणार्थः – कापिलमतानङ्गीकारेऽपि पञ्चजनशब्दार्थसिद्धिः)

(ज्योतिषां ज्योतिर्विद्या बृ.उ. 6-4-16))

१२०. न संख्योपसंग्रहादपि नानाभावादितरेकाच्च ॥ १११ ॥

(विषयवाक्यप्रदर्शनम्)

वाजसनेयिनस्समामनन्ति यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठित:  तमेवम्मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् (बृ...१७) इति।

(संशयस्वरूपम्)

किमयं मन्त्र: कापिलतन्त्रसिद्धतत्त्वप्रतिपादनपर:, उत नेति सन्दिह्यते।

(पूर्वपक्षः)

किं युक्तम्? तन्त्रसिद्धतत्त्वप्रतिपादनपर इति कुत😕 पञ्चशब्दविशेषितात्पञ्चजन-शब्दात्पञ्चविंशतितत्त्वप्रतीते:

एतदुक्तं भवति पञ्चजना: (बृ...१७) इति समासस्समाहारविषय:। पञ्चानां जनानां समूहा: पञ्चजना:; पञ्चपूल्य इतिवत्। पञ्चजना इति लिङ्गव्यत्ययश्छान्दस:। ते च समूहा: कतीत्यपेक्षायां पञ्चजनशब्दविशेषणेन प्रथमेन पञ्चशब्देन समूहा: पञ्चेति प्रतीयन्ते; यथा पञ्च पञ्चपूल्य इति। अत: पञ्च पञ्चजना: (बृ.६४.१७) इति पञ्चविंशतिपदार्थावगतौ ते कतम इत्यपेक्षायां मोक्षाधिकारान्मुमुक्षुभि: ज्ञातव्यतया स्मृतिप्रसिद्धा: प्रकृत्यादय एव ज्ञायन्ते। मूलप्रकृतिरविकृतिर्महदाद्या: प्रकृतिविकृतयस्सप्त। षोडशकश्च विकारो न प्रकृतिर्न विकृति: पुरुष: (सांख्य.का.) इति हि कापिलानां प्रसिद्धि: अतस्तन्त्रसिद्धतत्त्वप्रतिपादनपर:

(सिद्धान्तारम्भः)

(पञ्चजनशब्दस्य प्राकृततत्त्वपरत्वाभावः)

इति प्राप्ते प्रचक्ष्महे न सङ्ख्योपसङ्ग्रहादपि इति पञ्च पञ्चजना: (बृ...१७) इति पञ्चविंशतिसङ्ख्योपसङ्ग्रहादपि न तन्त्रसिद्धतत्त्वप्रतीति:। कुत😕 नानाभावात् एषां पञ्चसङ्ख्याविशेषितानां पञ्चजनानां तन्त्रसिद्धेभ्यस्तत्त्वेभ्य: पृथग्भावात् यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठित: (बृ...१७) इत्येतेषां यच्छब्दनिर्दिष्टब्रह्माश्रयतया ब्रह्मात्मकत्वं हि प्रतीयते तमेवम्मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् (बृ...१७) इत्यत्र तमिति परामर्शेन यच्छब्दनिर्दिष्टं ब्रह्मेत्यवगम्यते। अतस्तेभ्य: पृथग्भूता: पञ्चजना इति न तन्त्रसिद्धा एते।

(पञ्चविंशत्यतिरेकेण वाक्यावगतस्य प्राकृतेतरत्वज्ञापकता)

अतिरेकाच्च तन्त्रसिद्धेभ्यस्तत्त्वेभ्योऽत्र तत्त्वातिरेकोऽपि भवति; यच्छब्दनिर्दिष्ट आत्मा आकाशश्चात्रातिरिच्येते। अत: तं षड्विंशकमित्याहुस्सप्तविंशमथापरे (मान्त्रिक.) इति श्रुतिप्रसिद्धसर्वतत्त्वाश्रयभूतस्सर्वेश्वर: परमपुरुषोऽत्राभिधीयते । न सङ्ख्योपसङ्ग्रहादपि इत्यपिशब्दस्य पञ्च पञ्चजना: (बृ...१७) इत्यत्र पञ्चविंशतितत्त्वप्रतिपत्तिरेव न सम्भवतीत्यभिप्राय:। कथम्? पञ्चभिरारब्धसमूहपञ्चकासम्भवात्। न हि तन्त्रसिद्धतत्त्वेषु पञ्चसु पञ्चस्वनुगतं यत्सङ्ख्यानिवेशनिमित्तं जात्याद्यस्ति; न च वाच्यं पञ्च कर्मेन्द्रियाणि, पञ्च ज्ञानेन्द्रियाणि, पञ्च महाभूतानि, पञ्च तन्मात्राणि,  अवशिष्टानि पञ्च इत्यवान्तरसङ्ख्यानिवेशनिमित्तमस्त्येव इति; आकाशस्य पृथङ्निर्देशेन पञ्चभिरारब्धमहाभूत-समूहासिद्धे:

(पञ्चजनशब्दस्य संज्ञया अर्थविशेषपरत्वम्)

अत: पञ्चजना (बृ...१७) इत्ययं समासो न समाहारविषय:; अयं तु दिक्सङ्ख्ये संज्ञायाम् (अष्टा...५०) इति संज्ञाविषय:; अन्यथा पञ्चजना: इति लिङ्गव्यत्ययश्च। पञ्चजना नाम केचित्सन्ति; ते च पञ्चसङ्ख्यया विशेष्यन्ते, पञ्च पञ्चजना: इति, सप्तसप्तर्षय इतिवत्॥११॥

(संज्ञायाः पञ्चेन्द्रियपरत्वम्)

के पुनस्ते पञ्चजना: इत्यत आह

१२१. प्राणादयो वाक्यशेषात् ॥ ११२ ॥

प्राणस्य प्राणमुत चक्षुषश्चक्षुश्श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदु: (बृ.१८) इति वाक्यशेषाद्ब्रह्माश्रया: प्राणादय एव पञ्च पञ्चजना: इति विज्ञायन्ते ॥१२॥

(काण्वपाठानुरोधे इन्द्रियपरत्वानुपपत्तिशङ्का – समाधाने)

अथ स्यात् काण्वानां माध्यन्दिनानां च यस्मिन् पञ्चपञ्चजना: (बृ.१७) इत्ययं मन्त्रस्समान:, प्राणस्य प्राणम् (बृ...१८) इत्यादिवाक्यशेषे काण्वानामन्नस्य पाठो न विद्यते; तेषां पञ्च पञ्चजना: प्राणादय इति न शक्यं वक्तुम् इति; अत्रोत्तरम्॥

१२२. ज्योतिषैकेषामसत्यन्ने ॥ ११३ ॥

एकेषां काण्वानां पाठे असत्यन्ने ज्योतिषा पञ्चजना: इन्द्रियाणीति ज्ञायन्ते; तेषां वाक्यशेष: प्रदर्शनार्थ:। एतदुक्तं भवति यस्मिन् पञ्च पञ्चजना: (बृ.१७) इत्यस्मात्पूर्वस्मिन्मन्त्रे तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् (बृ.१६) इति ज्योतिषां ज्योतिष्ट्वे ब्रह्मण्यभिधीयमाने ब्रह्माधीनस्वकार्याणि कानिचिज्जोतींषि प्रतिपन्नानि; तानि च विषयाणां प्रकाशकानीन्द्रियाणीति यस्मिन् पञ्च पञ्चजना: इत्यनिर्धारितविशेषनिर्देशेनावगम्यन्ते इति ।

(उक्तार्थस्य विशदीकरणम्)

प्राणस्य (बृ.१८) इति प्राणशब्देन स्पर्शनेन्दियं गृह्यते, वायुसम्बन्धित्वात्स्पर्शनेन्द्रियस्य मुख्यप्राणस्य ज्योतिश्शब्देन प्रदर्शनायोगात्। चक्षुष इति चक्षुरिन्द्रियम्, श्रोत्रस्येति श्रोत्रेन्द्रियम्, अन्नस्येति घ्राणरसनयोस्तन्त्रेणोपादानम्, अन्नशब्दोदितपृथिवीसम्बन्धित्वाद्घ्राणेन्द्रियमनेन गृह्यते अद्यतेऽनेनेत्यन्नमिति रसनेन्द्रियमपि गृह्यते। मनस इति मन:। घ्राणरसनयोस्तन्त्रेणोपादानमिति पञ्चत्वमप्यविरुद्धम्। प्रकाशकानि मन:पर्यन्तानीन्द्रियाणि पञ्चजनशब्दनिर्दिष्टानि तदविरोधाय घ्राणरसनयोस्तन्त्रेणोपादानम्। तदेवम् यस्मिन्पञ्चपञ्चजना आकाशश्च प्रतिष्ठित: (बृ...१७) इति पञ्चजनशब्दनिर्दिष्टानीन्द्रियाण्याकाशशब्दप्रदर्शितानि महाभूतानि च ब्रह्मणि प्रतिष्ठितानीति सर्वतत्त्वानां ब्रह्माश्रयत्वप्रतिपादनान्न तन्त्रसिद्धपञ्चविंशतितत्त्वप्रसङ्ग:। अतस्सर्वत्र वेदान्ते सङ्ख्योपसङ्ग्रहे तदभावे वा न कापिलतन्त्रसिद्धतत्त्वप्रतीतिरिति स्थितम्॥

इति श्रीशारीरकमीमांसाभाष्ये सङ्ख्योपसङ्ग्रहाधिकरणम्॥

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.