श्रीशारीरकमीमांसाभाष्ये चमसाधिकरणम् ॥ २ ॥
(अधिकरणार्थः – प्रकृत्यादीनां ब्रह्मात्मकता)
(अजाविद्या मन्त्रि.उ. 1. श्वे.उ. 4)
११७. चमसवदविशेषात् ॥ १–४–८ ॥
(प्रकृताधिकरणप्रयोजनकृत्यम्)
अत्रापि तन्त्रसिद्धप्रक्रिया निरस्यते, न ब्रह्मात्मकानां प्रकृतिमहदहङ्कारादीनां स्वरूपम्, श्रुतिस्मृतिभ्यां ब्रह्मात्मकानां तेषां प्रतिपादनात्।
(मन्त्रिकोपनिषत्सिद्धं प्रकृत्यादिस्वरूपम्)
यथा आथर्वणिका अधीयते – विकारजननीमज्ञामष्टरूपामजां ध्रुवाम्। ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुन:। सूयते पुरुषार्थं च तेनैवाधिष्ठिता जगत्। गौरनाद्यन्तवती सा जनित्री भूतभाविनी। सिताऽसिता च रक्ता च सर्वकामदुघा विभो:। पिबन्त्येनामविषमां अविज्ञाता: कुमारका:। एकस्तु पिबते देव: स्वच्छन्दोऽत्र वशानुगाम्। ध्यानक्रियाभ्यां भगवान्भुङ्क्तेऽसौ प्रसभं विभु:। सर्वसाधारणीं दोग्घ्रीं पीड्यमानां तु यज्वभि: (मन्त्रि.उ.१.३) चतुर्विंशतिसङ्ख्यातमव्यक्तं व्यक्तमुच्यते (मन्त्रि.उ.) इति। अत्र प्रकृत्यादीनां स्वरूपमभिहितम्; यदात्मकाश्चैते प्रकृत्यादय:; स परमपुरुषोऽपि तं षड्विंशकमित्याहुस्सप्तविंशमथापरे। पुरुषं निर्गुणं साङ्ख्यमथर्वशिरसो विदु: (मन्त्रि.उ) इति प्रतिपाद्यते ।
(गर्भोपनिषदि श्वेताश्वतरे च प्रकृतिपुरुषेश्वरस्वरूपम्)
अपरे चाथर्वणिका: अष्टौ प्रकृतयष्षोडश विकारा: (गर्भ.उ.३) इत्यधीयते; श्वेताश्वतराश्चैवं प्रकृतिपुरुषेश्वरस्वरूपमामनन्ति संयुक्तमेतत्क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीश:। अनीशश्चात्मा बध्यते भोक्तृभावात्, ज्ञात्वा देवं मुच्यते सर्वपापै: (श्वे.१.८), ज्ञाज्ञौ द्वावजावीशनीशावजा ह्येका भोक्तृभोगार्थयुक्ता। अनन्तश्चात्मा विश्वरूपो ह्यकर्ता त्रयं यदा विन्दते ब्रह्ममेतत् (श्वे.१.९), क्षरं प्रधानममृताक्षरं हर: क्षरात्मानावीशते देव एक:। तस्याभिध्यानाद्योजनात्तत्वभावात् भूयश्चान्ते विश्वमायानिवृत्ति: (श्वे.१–१०) इति । तथा छन्दांसि यज्ञा: क्रतवो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति। अस्मान्मायी सृजते विश्वमेतत्तिस्मश्चान्यो मायया सन्निरूद्ध:। मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्। तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् (श्वे.४.९.१०) इति । तथोत्तरत्रापि प्रधानक्षेत्रज्ञपतिर्गुणेशस्संसारमोक्षस्थितिबन्धहेतु: (श्वे.६.१६) इति।
(उक्तार्थे गीताचार्योक्तयः)
स्मृतिरपि प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि। विकरांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्। कार्यकारणकर्तृत्वे हेतु: प्रकृतिरुच्यते। पुरुषस्सुखदु:खानां भोक्तृत्वे हेतुरुच्यते। पुरुष: प्रकृतिस्थोऽपि भुङ्क्ते प्रकृतिजान् गुणान्। कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु (भ.गी.१३.१९.२०,२१), सत्त्वं रजस्तम इति गुणा: प्रकृतिसम्भवा:। निबध्नन्ति महाबाहो देहे देहिनमव्ययम् (भ.गी.१४.५)। तथा सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्। कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्॥ प्रकृतिं स्वामवष्टभ्य विसृजामि पुन: पुन:। भूतग्राममिमं कृत्स्नमवशं प्रकतेर्वशात् (भ.गी.९.७.८) मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम्। हेतुनाऽनेन कौन्तेय जगद्धि परिवर्तते (भ.गी.९.१०) इति। तस्मादब्रह्मात्मकत्वेन कापिलतन्त्रसिद्धा: प्रकृत्यादयो निरस्यन्ते। श्वेताश्वतरोपनषदि श्रूयते अजामेकां लोहितशुक्लकृष्णां बह्वी: प्रजास्सृजमानां सरूपा:। अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्य: (श्वे.४.५) इति।
(अधिकरणाङ्गभूतः संशयः)
तत्र सन्देह: – किमस्मिन्मन्त्रे केवला तन्त्रसिद्धा प्रकृतिरभिधीयते, उत ब्रह्मात्मिका – इति।
(पूर्वः पक्षः)
किं युक्तम्? केवलेति। कुत😕 अजामेकाम् (श्वे.४.५) इत्यस्या: प्रकृतेरकार्यत्वश्रवणात्, बह्वी: प्रजास्सृजमानां सरूपा: (श्वे.४.५) इति स्वातन्त्र्येण सरूपाणां बह्वीनां प्रजानां स्रष्टृत्वश्रवणाच्च – इति॥
(सिद्धान्तारम्भः, तत्र अब्रह्मात्मकाजाग्राहकाभावः)
एवं प्राप्तेऽभिधीयते – चमसवदविशेषात् – न जायत इत्यजेत्यजात्वमात्रप्रतिपादनात् तन्त्रसिद्धाब्रह्मात्मकाजाग्रहणे विशेषाप्रतीते: । चमसवत् – यथा अर्वाग्बिलश्चमस ऊर्ध्वबुध्न: (बृ.४.२.३) इत्यस्मिन्मन्त्रे चमसस्य भक्षणसाधनत्वमात्रं चमसशब्देन प्रतीयत इति न तावन्मात्रेण चमसविशेषप्रतीति:, यौगिकशब्दानामर्थप्रकरणादिभिर्विनाऽर्थविशेषनिश्चयायोगात्। तत्र यथेदं तच्छिर: एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्न: (बृ.४.२.३) इत्यादिना वाक्यशेषेण शिरसश्चमसत्व-निश्चय:; तथाऽत्राप्यर्थप्रकरणादिभिरेवाजा निर्णेतव्या; न चात्र तन्त्रसिद्धाजाग्रहणहेतवः अर्थप्रकरणादयो दृश्यन्ते । नचास्यास्स्वातन्त्र्येण स्रष्टृत्वं प्रतीयते, बह्वी: प्रजास्सृजमानाम् इति स्रष्टृत्वमात्रप्रतीते:। अतोऽनेन मन्त्रेण नाब्रह्मात्मिकाऽजाऽभिधीयते॥८॥
(ब्रह्मात्मकाजाग्राहकप्रमाणानि)
ब्रह्मात्मकाजाग्रहण एव विशेषहेतुरस्तीत्याह –
११८. ज्योतिरुपक्रमा तु तथाह्यधीयत एके ॥ १–४–९ ॥
तुशब्दोऽवधारणार्थ:; ज्योतिरुपक्रमैवैषाऽजा; ज्योति: – ब्रह्म; तं देवा ज्योतिषां ज्योति: (बृ.६.४.१६), अथ यदत: परो दिवो ज्योतिर्दीप्यते (छां.३.१३.७) इत्यादिश्रुतिप्रसिद्धे:। ज्योतिरुपक्रमा ब्रह्मकारणिकेत्यर्थ:। तथाह्यधीयत एके – हीति हेतौ, यस्मादस्या अजाया ब्रह्मकारणकत्वमेके शाखिन: तैत्तिरीया अधीयते – अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तो: (तै.नारा.१२) इति हृदयगुहायामुपास्यत्वेन सन्निहितं ब्रह्माभिधाय सप्त प्राणा: प्रभवन्ति तस्मात् (तै.ना) इत्यादिना सर्वेषां लोकानां ब्रह्मादीनां च तत उत्पत्तिमभिधाय सर्वकारणीभूताऽजा तत उत्पन्नाऽभिधीयते। अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम्। अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्य: (तै.नारा.१२) इति। सर्वस्य तद्व्यतिरिक्तस्य वस्तुजातस्य तत उत्पत्त्या तदात्मकत्वोपदेशे प्रक्रियमाणेऽभिधीयमानत्वात् प्राणसमुद्रपर्वतादिवदेषाऽप्यजा वह्वीनां सरूपाणां प्रजानां स्रष्ट्री, कर्मवश्येनाऽत्मना भुज्यमाना अन्येन विदुषाऽऽत्मना त्यज्यमाना च ब्रह्मण उत्पन्ना, ब्रह्मात्मिकाऽवगन्तव्येत्यर्थ:। अतो वाक्यशेषाच्चमसविशेषवच्छाखान्तरीयात् एतत्सरूपात्प्रत्यभिज्ञायमानार्थाद्वाक्यान्नियमिताऽजा ब्रह्मात्मिकेति निश्चीयते।
(तान्त्रिकाजाग्रहणहेतूनां अभावस्थिरीकरणम्)
इहापि प्रकरणोपक्रमे किं कारणं ब्रह्म (श्वे.१.१) इत्यारभ्य ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निरूढाम् (श्वे.१.३) इति परब्रह्मशक्तिरूपाया अजाया अवगते:, उपरिष्टाच्च अस्मान्मायी सृजते विश्वमेतस्मिंश्चान्यो मायया सन्निरुद्ध: (श्वे.४.९) मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् (श्वे.४.१.११) यो योनिर्योनिमधितिष्ठत्येक: (श्वे.४.९) इति च तस्या एव प्रतीतेर्नास्मिन्मन्त्रे तन्त्रसिद्धस्वतन्त्र–प्रकृतिप्रतिपत्तिगन्ध:॥ ९॥
(अजात्व – ज्योतिरुपक्रमात्वयोः विप्रतिषेधशङ्का – निरासौ)
कथं तर्हि ज्योतिरुपक्रमाया लोहितशुक्लकृष्णरूपाया अस्या: प्रकृतेरजात्वम्, अजाया वा कथं ज्योतिरुपक्रमात्वमित्यत्राह –
११९. कल्पनोपदेशाच्च मध्वादिवदविरोध: ॥ १–४–१० ॥
प्रसक्ताशङ्कानिवृत्त्यर्थश्चशब्द:। अस्या: प्रकृतेरजात्वं ज्योतिरुपक्रमात्वं च न विरुध्यते; कुत😕 कल्पनोपदेशात्। कल्पनं – प्ति: सृष्टि:; जगत्सृष्ट्युपदेशादित्यर्थ:। यथा सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् (तै.नारा.१.१३) इति कल्पनं सृष्टि:। अत्रापि अस्मान्मायी सृजते विश्वमेतत् (श्वे.४.९) इति जगत्सृष्टिरुपदिश्यते। स्वेनाविभक्तादस्मात्सूक्ष्मावस्थात्कारणान्मायी सर्वेश्वरस्सर्वं जगत्सृजतीत्यर्थ:। अनेन कल्पनोपदेशेनास्या: प्रकृते: कार्यकारणरूपेण अवस्थाद्वयान्वयोऽवगम्यते। सा हि प्रलयवेलायां ब्रह्मतापन्ना अविभक्तनामरूपा सूक्ष्मरूपेणावतिष्ठते; सृष्टिवेलायां तूद्भूतसत्त्वादिगुणा विभक्तनामरूपाऽव्यक्तादिशब्दवाच्या तेजोबन्नादिरूपेण च परिणता लोहितशुक्लकृष्णाकारा चावतिष्ठते। अत: कारणावस्थाऽजा, कार्यावस्था ज्योतिरुपक्रमेति न विरोध:।
(उक्तार्थे मधुविद्यार्थदृष्टान्तीकरणम्)
मध्वादिवत् – यथेश्वरेणादित्यस्य कारणावस्थायामेकस्यैवावस्थितस्य कार्यवस्थायां ऋग्यजुस्सामाथर्वप्रतिपाद्यकर्मनिष्पाद्यरसाश्रयतया वस्वादिदेवताभोग्यत्वाय मधुत्वकल्पनं उदयास्तमयकल्पनं च न विरुध्यते। तदुक्तं मधुविद्यायाम् असौ वा आदित्यो देवमधु (छां.३.१.१) इत्यारभ्य अथ तत ऊर्ध्वं उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता (छा.३.११.१) इत्यन्तेन। एकल: एकस्वभाव:। अतोऽनेन मन्त्रेण ब्रह्मात्मिकाऽजैवाभिधीयते, न कापिलतन्त्रसिद्धेति सिद्धम्॥
(एतन्मन्त्रोक्ताजास्वरूपे परमतोल्लेखो निरासश्च)
अन्ये त्वस्मिन्मन्त्रे तेजोबन्नलक्षणाऽजैकाऽभिधीयत इति ब्रुवते। ते प्रष्टव्या: किं तेजोबन्नान्येव तेजोबन्नात्मिकाऽजैका उत तेजोबन्नरूपं ब्रह्मैव; किं वा तेजोबन्नकारणभूता काचित् – इति। प्रथमे कल्पे तेजोबन्नानामनेकत्वात् अजामेकाम् इति विरुध्यते। न च वाच्यं तेजोबन्नानामनेकत्वेऽपि त्रिवृत्करणेनैकतापत्तिरिति। त्रिवृत्करणेऽपि बहुत्वानपगमात्, इमास्तिस्रो देवता: (छा.६.३.२) तासां त्रिवृतं त्रिवृतमेकैकां करवाणि (छा.६.३.३) इति प्रत्येकं त्रिवृत्करणोपदेशात्। द्वितीय: कल्पो विकल्प्य: किं तेजोबन्नरूपेण विकृतं ब्रह्मैवाजैका; किंवा स्वरूपेणावस्थितमविकृतमिति। प्रथम: कल्पो बहुत्वानपायादेव निरस्त:। द्वितीयेऽपि लोहितशुक्लकृष्णाम् (श्वेत.४.५) इति विरुध्यते। स्वरूपेणावस्थितं ब्रह्म तेजोबन्नलक्षणमिति वक्तुमपि न शक्यते । तृतीये कल्पेऽप्यजाशब्देन तेजोबन्नानि निर्दिश्य तैस्तत्कारणावस्था उपस्थापनीया इत्यास्थेयम्। ततो वरमजाशब्देन तेजोबन्नकारणावस्थाया: श्रुतिसिद्धाया एवाभिधानम्।
(अजाशब्दस्य छागार्थगत्वाभिप्राये अनौचित्यम्)
यत्पुनरस्या: प्रकृतेरजाशब्देन च्छागत्वपरिकल्पनमुपदिश्यत इति; तदप्यसङ्गतम्, निष्प्रयोजनत्वात्। यथा आत्मानं रथिनं विद्धि (कठ.१.३.३) इत्यादिषु ब्रह्मप्राप्त्युपायताख्यापनाय शरीरादिषु रथादिरूपणं क्रियते; यथा चादित्ये वस्वादीनां भोग्यत्वख्यापनाय मधुत्वकल्पनं क्रियते; तद्वदस्यां प्रकृतौ च्छागत्वपरिकल्पनं क्वोपयुज्यते; न केवलमुपयोगाभाव एव, विरोधश्च; कृत्स्नजगत्कारणभूताया: स्वस्मिन्ननादिकालसम्बद्धानां सर्वेषामेव चेतनानां निखिलसुखदु:खोपभोग अपवर्गसाधनभूताया: अचेतनाया: अत्यल्पप्रजासर्गकरागन्तुकसङ्गमचेतनविशेषैकरूपात्यल्पप्रयोजन–साधनस्वपरित्यागहेतुभूतस्वसम्बन्धिपरित्यागसमर्थचेतनविशेषरूपच्छागस्वभावख्यापनाय तद्रूपत्वकल्पनं विरुद्धमेव।
(एकमन्त्रगतयोः द्वयोरजपदयोः अर्थवैरूप्यविरोधः)
अजामेकाम् (श्वे.४.५), अजो ह्येक: (श्वे.४.५), अजोऽन्य: (श्वे.४.५) इत्यत्राजाशब्दस्य विरूपार्थकल्पनं च न शोभनम्। सर्वत्र च्छागत्वं परिकल्प्यत इति चेत् जहात्येनां भुक्तभोगामजोऽन्य: (श्वे.४.५) इति विदुष आत्यन्तिकप्रकृतिपरित्यागं कुर्वतोऽनेन वाऽन्येन वा पुनरपि सम्बन्धयोग्यच्छागत्वपरिकल्पनं अत्यन्तविरुद्धम्॥ १०॥
इति श्रीशारीरकमीमांसाभाष्ये चमसाधिकरणम्॥२॥