श्रीशारीरकमीमांसाभाष्ये सर्वव्याख्यानाधिकरणम्॥८॥
(अधिकरमणार्थः – सर्ववेदान्तगतानां सर्वेषां जगत्कारणत्वपरवाक्यानां, ब्रह्मपरत्वमेव)
(सर्वविद्यासम्बन्धिविचाररूपम्)
१३८. एतेन सर्वे व्याख्याताव्याख्याता: ॥ १–४–२९ ॥
(उक्तेनार्थेन सर्ववेदान्ततात्पर्यनिर्णयः)
एतेन पादचतुष्टयोक्तन्यायकलापेन, सर्ववेदान्तेषु जगत्कारणप्रतिपादनपरास्सर्वे वाक्यविशेषाश्चेतनाचेतनविलक्षणसर्वज्ञसर्वशक्तिब्रह्मप्रतिपादनपरा व्याख्याता:। व्याख्याता: इति पदाभ्यासोऽध्यायपरिसमाप्तिद्योतनार्थ:॥ २९॥
इति श्रीशारीरकमीमांसाभाष्ये सर्वव्याख्यानाधिकरणम्॥८॥
इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये
प्रथमस्याध्यायस्य चतुर्थ: पाद:॥४॥
॥ समाप्तश्च प्रथमोऽध्याय: ॥