श्रीशारीरकमीमांसाभाष्ये प्राणाणुत्वाधिकरणम् ॥३॥
(अधिकरणार्थः – इन्द्रियाणाम् अणुपरिमाणतास्थापनम्)
२७४. अणवश्च ॥ २–४–६ ॥
(पूर्वपक्षः सप्रमाणः)
त एते सर्व एव समा: सर्वेऽनन्ता: (बृह.३.५.१३) इत्यानन्त्यश्रवणाद्विभुत्वं प्राणानाम् –
(सिद्धान्तरूपः सूत्राशयः)
इति प्राप्तेऽभिधीयते – प्राणमनूत्क्रान्तं सर्वे प्राणा अनूत्क्रामन्ति (बृ.६.४.२) इत्युत्क्रान्त्यादिश्रवणात्परिमितत्वे सिद्धे सत्युत्क्रान्त्यादिषु पार्श्वस्थैरनुपलभ्यमानत्वादणवश्च प्राणा:। आनन्त्यश्रुतिस्तु अथ यो हैताननन्तानुपास्ते (बृ.३-५-१३) इत्युपासनश्रवणात् उपास्यप्राणविशेषणभूतकार्यबाहुल्याभिप्राया ॥६॥
२७५. श्रेष्ठश्च ॥ २–४–७ ॥
(मुख्यप्राणस्यापि उत्पत्तिमत्ता)
प्राणसंवादे शरीरस्थितिहेतुत्वेन श्रेष्ठतया निर्णीतो मुख्यप्राण: आनीदवातं स्वधया तदेकम् (ऋग्वेद:.८.७.१०.११.२) इति महाप्रलयसमये स्वकार्यभूतप्राणनसद्भावश्रवणात्, एतस्माज्जायते (मुण्ड.१.१.३) इति जन्मश्रवणस्य जीवजन्मश्रवणवदुपपत्तेर्नोत्पद्यत इत्याशङ्कय प्राक्सृष्टेः एकत्वावधारणादिविरोधात्, एतस्माज्जायते प्राण: (मु.२.१.३) इति पृथिव्यादितुल्योत्पत्ति-श्रवणात्, उत्पत्तिनिषेधाभावाच्च जायत एव श्रेष्टश्च प्राण इत्युच्यते।
आनीदवातम् (ऋ.वे.८.७.१०.११.२) इति तु न चैवं श्रेष्ठं प्राणमभिप्रेत्योच्यते; अपि तु परस्य ब्रह्मण एकस्यैव विद्यमानत्वमुच्यते। अवातम् इति तत्रैव श्रवणात् ॥
पूर्वेणैव तु तुल्यन्यायत्वेऽपि पृथग्योगकरणमुत्तरचिन्तार्थम्॥७॥
इति श्रीशारीरकमीमांसाभाष्ये प्राणाणुत्वाधिकरणम्॥३॥