श्रीशारीरकमीमांसाभाष्ये वायुक्रियाधिकरणम्॥४॥
(अधिकरणार्थः – श्रेष्ठः प्राणः न वायुसामान्यम्, तत्क्रिया वा, किन्तु विशिष्टो वायुः)
२७६. न वायुक्रिये पृथगुपदेशात् ॥ २–४–८ ॥
(विचारोपयोगी संशयः)
सोऽयं श्रेष्ठ: प्राण: किं महाभूतद्वितीयवायुमात्रम्; तस्य वा स्पन्दरूपक्रिया; अथवा वायुरेव कञ्चन विशेषमापन्न: – इति विशये –
(पूर्वपक्षः सहेतुकः)
वायुरेवेति प्राप्तम्, य: प्राणस्स वायु: इति व्यपदेशात्। यद्वा वायुमात्रे प्राणत्वप्रसिद्ध्यभावादुच्छ्वासनिश्वासादिवायुक्रियायां प्राणशब्दप्रसिद्धेश्च तत्क्रियैव –
(सिद्धान्तरूपं सूत्रोत्तरार्धवर्णनम्)
इति प्राप्ते न वायुमात्रम्, न च तत्क्रियेत्युच्यते; कुत:, पृथगुपदेशात् – एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायु: (मु.२.१.३) इति । तत एव पृथगुपदेशात् वायुक्रियापि न भवति प्राण:; न हि तेज: प्रभृतीनां क्रिया तैस्सह पृथग्द्रव्यतयोपदिश्यते य: प्राणस्स वायु: इति तु वायुरेवावस्थान्तरमापन्न: प्राण:; न तेज: प्रभृतिवत्तत्त्वान्तरमिति ज्ञापनार्थम्। उच्छ्वासनिश्वासादावपि प्राण: स्पन्दत इति क्रियावति द्रव्य एव प्राणशब्दप्रसिद्धि:; न क्रियामात्रे॥८॥
(वायोः भूतान्तरत्वनिरासः)
किमयं प्राणो वायोर्विकारस्सन्नग्निवद्भूतान्तरम्?, नेत्याह –
२७७. चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्य: ॥ २–४–९ ॥
नायं भूतविशेष:; अपि तु चक्षुरादिवज्जीवोपकरणविशेष: । तच्चोपकरणत्वमुपकरण-भूतैरिन्द्रियै: सहशिष्ट्यादिभ्योऽवगम्यते। चक्षुरादिभिस्सहायं प्राणश्शिष्यते प्राणसंवादादिषु। तत्सजातीयत्वे हि तैस्सह शासनं युज्यते।
प्राणशब्दपरिगृहीतेषु करणेष्वस्य विशिष्याभिधानमादिशब्देन गृह्यते; अथ ह य एवायं मुख्य: प्राण: (छा.१.२.७) योऽयं मध्यम: प्राण: इत्यादिषु विशिष्याभिधानात् ॥९॥
(मुख्यप्राणस्य चक्षुरादिवत् जीवोपकरणत्वसमर्थनम्)
चक्षुरादिवदस्यापि करणत्वे तद्वदस्यापि जीवं प्रत्युपकारविशेषरूपक्रियया भवितव्यम्; सा तु न दृश्यते; अतो नायं चक्षुरादिवद्भवितुमर्हातीति चेत् – तत्राह –
२७८. अकरणत्वाच्च न दोषस्तथाहि दर्शयति ॥ २–४–१० ॥
अकरणत्वात् – करणं क्रिया, अक्रियत्वात् अस्य प्राणस्य जीवं प्रत्युपकारविशेषरूप-क्रियारहितत्वाच्च यो दोष उद्भाव्यते, स नास्ति; यत उपकारविशेषरूपां शरीरेन्द्रियधारणादिरूपां क्रियां दर्शयति श्रुति: – यस्मिन्नुत्क्रान्ते इदं शरीरं पापिष्ठतरमिव दृश्यते स व: श्रेष्ठ: (छा.५.१.७) इत्युक्त्वा वागाद्युत्क्रमणेऽपि शरीरस्येन्द्रियाणां च स्थितिं दर्शयित्वा प्राणोत्क्रमणे शरीरेन्द्रियशैथिल्याभिधानात्। अत: प्राणापानव्यानोदानसमानाकारेण पञ्चधाऽवस्थितोऽयं प्राण: शरीरेन्द्रियधारणादिना जीवस्योपकरोतीति चक्षुरादिवत्करणत्वम्॥१०॥
(प्राणापानादीनां तत्त्वान्तरत्वशङ्कानिरासः)
नन्वेवं नामभेदात्कार्यभेदाच्च प्राणापानादयस्तत्त्वान्तराणि स्यु: तत्राह –
२७९. पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥ २–४–११ ॥
यथा कामादिवृत्तिभेदे तत्कार्यभेदेऽपि न कामादिकं मनसस्तत्त्वान्तरं कामस्सङ्कल्पो विचिकत्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव (बृ.३.५.३) इति वचनात्। एवं प्राणोऽपानो व्यान उदानस्समाना इत्येतत्सर्वं प्राण एव (बृ.उ.३.५.३) इति वचनात् अपानादयोऽपि प्राणस्यैव वृत्तिविशेषा:; न तत्त्वान्तरमित्यवगम्यते॥११॥
इति श्रीशारीरकमीमांसाभाष्ये वायुक्रियाधिकरणम्॥४॥