श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये तृतीये साधनाध्याये तृतीय: गुणोपसंहारपाद: ।
(अधिकरणानि 26, सूत्राणि 64)
(पादार्थः – ब्रह्मोपासनानां गुणोपसंहारविकल्पनिर्णयाय विद्याभेदाभेदचिन्ता)
सर्ववेदान्तप्रत्ययाधिकरणम्॥१॥
(अधिकरणार्थः – ब्रह्मोपासनानां गुणोपसंहार-विकल्पनिर्णयाय विद्याभेदाभेदचिन्ता)
३५५. सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥ ३–३–१ ॥
(पादसङ्गत्यर्थमनुवादः)
उक्तं ब्रह्मोपासिसिषोपजननाय वक्तव्यं ब्रह्मण: फलदायित्वपर्यन्तम्; इदानीं ब्रह्मोपासनानां गुणोपसंहारविकल्पनिर्णयाय विद्याभेदचिन्ता प्रस्तूयते।
(प्रथमाधिकरणकृत्यविचार्यम्)
प्रथमं तावदेकस्या वैश्वानरविद्यादिकाया अनेकशाखासु श्रूयमाणाया: किमेकविद्यात्वम्, उत विद्याभेद इति चिन्त्यते ।
(पूर्वपक्षः सयुक्तिकः)
अविशेषपुनश्श्रवणस्य प्रकरणान्तरस्य च भेदकत्वाच्छाखान्तरे चोभयोरवर्जनीयत्वाद्विद्याभेद इति प्राप्तम् । अत एव,
तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् (मु.३.२.१०) इति शिरोव्रतवतामाथर्वणिकानामेव विद्योपदेशनियम उपपद्यते। विद्यैक्ये हि विद्याङ्गस्य शिरोव्रतस्यान्येषामपि शाखिनां प्राप्तेर्नियमो नोपपद्यते।
(सिद्धान्तारम्भः)
एवं प्राप्त उच्यते – सर्ववेदान्तप्रत्ययमेकमुपासनमिति। कुत:? चोदनाद्यविशेषात् – चोदना तावत् उपासीत (छा.१.१.१; बृ.३.४.५) विद्यात् (कठ.६.१७) इत्येवंजातीयको धात्वर्थविशेषविधि:। आदिशब्देन एकं वा संयोगरूपचोदनाख्याविशेषात् (पूर्व.मी.२.४.९) इति कर्मकाण्डशाखान्तराधिकरण-सूत्रोक्तास्संयोगरूपाख्या गृह्यन्ते। एषां चोदनादीनामविशेषात् सैवेयं विद्येति शाखान्तरे प्रत्यभिज्ञायते। तथाहि – छान्दोग्यवाजसनेयकयो: वैश्वानरमुपास्ते (छा.५.१८.१) इति चोदना तावदेकरूपा; वेद्यैकनिरूपणीयस्वरूपस्य विदिपर्यायस्योपासेर्वेद्यभूतवैश्वानरैक्यात् रूपमप्यविशिष्टम्; आख्या च वैश्वानरविद्येत्यविशिष्टा; फलसंयोगोऽप्युभयत्रापि ब्रह्मप्राप्तिरूपोऽविशिष्ट:। अत एभि: प्रत्यभिज्ञानाच्छाखान्तरेऽपि विद्यैक्यम् ॥१॥
(विधेयभेदायत्तविद्याभेदशङ्का-परिहारौ)
यत्तूक्तमविशेषपुनश्श्रवणात्प्रकरणान्तराच्च विधेयभेदप्रतीतेर्न विद्यैक्यमिति, तदनुभाष्य परिहरति –
३५६. भेदान्नेति चेदेकस्यामपि ॥ ३–३–२ ॥
अविशेषपुनश्श्रुत्या प्रकरणान्तराच्च विधेयभेदान्न विद्यैक्यमिति चेत् – एकस्यामपि विद्यायां प्रतिपत्तृभेदात्पुनश्श्रुति: प्रकरणान्तरं चोपपद्यते । यत्र ह्येकस्मिन् प्रतिपत्तरि पुनश्श्रुति: प्रकरणान्तरं च विद्यते; तत्रान्यथानुपपत्त्या विधेयभेदाद्विद्याभेद:, प्रतिपत्तृभेदे तु तत्प्रतिपत्त्यर्थतया पुनश्श्रुत्याद्युपपत्तेस्तत्र न विधेयान्तरसम्भव: ॥२॥
(शाखाभेदे ब्रतविशेषविधिकृतविद्याभेद – तत्परिहारौ)
यच्चोक्तं शिरोव्रतवतामाथर्वणिकानामेव विद्योपदेशनियमदर्शनाद्विद्याभेद: प्रतीयत इति, तत्राह –
३५७. स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच्च सववच्च तन्नियम: ॥ ३–३–३ ॥
नैतदस्ति शिरोव्रतोपदेशनियमदर्शनं विद्याभेदं द्योतयति – इति, शिरोव्रतस्य विद्याङ्गत्त्वाभावात्। स्वाध्यायस्य तथात्वे हि तन्निमय: स्वाध्यायस्य तथात्वसिद्ध्यर्थं तज्जन्यसंस्कारभाक्त्वसिद्ध्यर्थं हि शिरोव्रतोपदेशनियम:, न विद्याया:। कुत एतत्? नैतदचीर्णव्रतोऽधीयीत (मु.३.२.११) इति तस्याध्ययनसंयोगात्; समाचारेऽधिकाराच्च – समाचाराख्ये ग्रन्थे इदमपि वेदव्रतेन व्याख्यातमित्यतिदेशात्। तेषामेवैतां ब्रह्मविद्यां वदेत (मु.३.१०) वेदविद्यामित्यर्थ:। सववच्च तन्नियम: – यथा हि सवहोमास्सप्तसूर्यादयश्शतोदनपर्यन्ता आथर्विणकैकाग्निसम्बन्धिनस्तत्रैव भवन्ति; न त्रेताग्निषु ॥३।
(गुणोपसंहारतः विद्यैक्यस्य श्रुतिसिद्धत्वम्)
३५८. दर्शयति च ॥ ३–३–४ ॥
दर्शयति च श्रुतिरुपासनस्य सर्ववेदान्तप्रत्ययत्वम्; तथाहि – छान्दोग्ये तस्मिन्यदन्तस्तदन्वेष्टव्यम् (छा.८.१.१) इत्युक्त्वा किं तदत्र विद्यते यदन्वेष्टव्यम् (छा.८.१.२) इति प्रश्नपूर्वकम् अपहतपाप्मत्वादिगुणाष्टकविशष्ट: परमात्मा तस्मिन्नुपास्य इत्युक्तम्; तैत्तिरीयके तु छान्दोग्यस्थं प्रतिनिर्देशमुपजीव्य तत्रापि दह्रं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासिव्यम् (तै.नारा.१०.२३) इति गुणाष्टकविशिष्टस्य परमात्मन उपासनमुच्यते; तदुभयत्र विद्यैकत्वेन गुणोपसंहारादेवोपपद्यते॥४॥
(विद्यैक्यस्योपयोगः, गुणोपसंहारः)
तदेवं शाखान्तराधिकरणन्यायसिद्धं विद्यैक्यं स्थिरीकृत्य तत्प्रयोजनमाह –
३५९. उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥ ३–३–५ ॥
एवं सर्ववेदान्तेषु समाने सत्युपासने वेदान्तान्तराम्नातानां गुणानां वेदान्तान्तरोपसंहार: कर्तव्य: कुत:? विधिशेषवदर्थाभेदात् – यथैकस्मिन्वेदान्ते श्रुतो वैश्वानरदहरादिविधिशेषो गुणस्तद्विद्यासम्बन्धात्तदुपकार-रूपप्रयोजनसिद्ध्यर्थमनुष्ठीयते; तथा वेदान्तरोदितोऽपि तद्विद्यासम्बन्धित्वेन तदुपकाराविशेषादुपसंहर्तव्य इत्यर्थ:। चशब्दोऽवधारणे॥५॥
इति श्रीशारीरकमीमांसाभाष्ये सर्ववेदान्तप्रत्ययाधिकरणम्॥१॥