श्रीशारीरकमीमांसाभाष्ये पुरुषविद्याधिकरणम्॥९॥
(पुरुषविद्या तै.ना. 64, छा.उ. 3-16)
(अधिकरणार्थः – तैत्तरीयक-छान्दोग्य श्रुत्युक्तयोः पुरुषविद्ययोः. रूपाभेदादिकृतो भेदः)
३७८. पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॥ ३–२–२४ ॥
(विचारणीयविषयोपस्थापनम्)
तैत्तिरीयके पुरुषविद्याऽम्नायते तस्यैवं विदुषो यज्ञस्याऽत्मा यजमानश्श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हि: (तै.नारा.५२) इत्यादिका। छान्दोग्येऽपि पुरुषविद्याऽम्नायते पुरुषो वाव यज्ञस्तस्य यानि चतुर्ंिवशतिवर्षाणि (छा.३.१६.१) इत्यादिका ।
(संशयकोटिनिर्देशः)
तत्र संशय: – किमत्र विद्या भिद्यते, उत नेति ।
(पूर्वपक्षः सहेतुकः)
पुरुषविद्येति नामैक्यात्पुरुषावयवेषु यज्ञावयवकल्पनसाम्येन रूपैक्यात् तैत्तिरीयके फलसंयोगाश्रवणात् प्र ह षोडशं वर्षशतं जीवति (छा.३.१६.७) इति छान्दोग्ये श्रुतस्यैव पुरुषविद्याफलत्वात्फलसंयोगस्याप्यविशेषाद्विद्यैक्यम्॥
(सिद्धान्तप्रदर्शनम् सूत्रार्थविवरणम्)
इति प्राप्ते उच्यते – उभयत्राम्नातयोर्विद्ययो: पुरुषविद्यात्वेऽपि विद्याभेदोऽस्त्येव; कुत:? इतरेषामनाम्नानात् – एकस्यां शाखायामाम्नातानां गुणानामन्यत्रानाम्नानात्। तथा हि यत्सायं प्रातर्मध्यन्दिनं च तानि सवनानि (तै.नारा.५२) इत्यादयस्तैत्तिरीयके आम्नाता: छान्दोग्ये सवनत्वेन नाम्नायन्ते; त्रेधा विभक्तं पुरुषायुषं छान्दोग्ये सवनत्वेन कल्प्यते; छान्दोग्ये श्रुतानामशिशिषादीनां दीक्षादित्वकल्पनं तैत्तिरीयके न कृतम्; यजमानपत्न्यादिपरिकल्पनं चान्यथा। अतो रूपमुभयत्र भिद्यते। तथा फलसंयोगोऽपि भिद्यते; तैत्तिरीयके हि पूर्वानुवाके ब्रह्मणे त्वामहस ओमित्यात्मानं युञ्जीत (तै.नारा.५१.५) इति ब्रह्मविद्यामभिधाय तत्फलत्वेन ब्रह्मणो महिमानमाप्नोति (तै.नारा.५२.) इत्युक्त्वा तस्यैवं विदुष: (तै.ना.५२) इत्यादिना आम्नाता पुरुषविद्याऽस्यैव ब्रह्मविदुषो यज्ञत्वकल्पनमिति गम्यते॥ अतो ब्रह्मविद्याङ्गत्वाद्ब्रह्मप्राप्तिरेवात्र फलम् ।
(ब्रह्मविद्याङ्गतोपपादनम्)
फलवत्सन्निधावफलं तदङ्गम् (मीमांसान्याय:) इति न्यायात्तैत्तिरीयकाम्नाता पुरुषविद्या ब्रह्मविद्याङ्गमिति गम्यते। छान्दोग्ये त्वायु:प्राप्तिफला पुरुषविद्येत्युक्तम्। अतो रूपसंयोगयोर्भेदाद्विद्याभेद इत्येकत्राम्नातानां गुणानामितरत्रानुपसंहार:॥२४॥
इति श्रीशारीरकमीमांसाभाष्ये पुरुषविद्याधिकरणम्॥९॥