श्रीशारीरकमीमांसाभाष्ये समानाधिकरणम्॥६॥
(अधिकरणार्थः – अग्निरहस्य-बृहदारण्यकोक्तयोः शाण्डिल्यविद्ययोरैक्यम्)
३७३. समान एवं चाभेदात् ॥ ३–३–१९ ॥
(विचारणीयविषयोपस्थापनम्)
वाजसनेयके अग्निरहस्ये शाण्डिल्यविद्याऽऽम्नाता सत्यं ब्रह्मेत्युपासीत, अथ खलु क्रतुमयोऽयं पुरुष: (वाजसनेयके अग्निरहस्ये १०.६) इत्यारभ्य स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमाकाशात्मानम् (वाजसनेयके अग्निरहस्ये १०.६) इति । तथा तस्मिन्नेव बृहदारण्यके पुनरपि शाण्डिल्यविद्याऽऽम्नायते मनोमयोऽयं पुरुषो भास्सत्यं तस्मिन्नन्तर्हृादये यथा व्रीहिर्वा यवो वा स एष सर्वस्य वशी सर्वस्येशानस्सर्वस्याधिपतिस्सर्वमिदं प्रशास्ति यदिदं किञ्च (बृ.७.६.१) इति।
(संशयाकारप्रदर्शनम्)
तत्र संशय: – किमत्र विद्या भिद्यते, उत नेति ।
(पूर्वपक्षः)
संयोगचोदनाख्यानामविशेषेऽपि वशित्वाद्युपास्यगुणभेदेन रूपभेदाद्विद्याभेद: ।
(सिद्धान्तः सूत्रतः)
इति प्राप्ते उच्यते – समान एवमिति । यथाऽग्निरहस्ये मनोमयप्राणशरीरभारूप-सत्यसङ्कल्पत्वगुणगण: श्रुत:; एवं बृहदारण्यकेऽपि मनोमयत्वादिके समाने सत्यधिकस्य वशित्वादेश्च सत्यसङ्कल्पत्वगुणाभेदान्न रूपभेद:; अतो विद्यैक्यम् ॥१९॥
इति श्रीशारीरकमीमांसाभाष्ये समानाधिकरणम्॥६॥