श्रीशारीरकमीमांसाभाष्ये अनियमाधिकरणम् ॥१३॥
(अधिकरणार्थः – अर्चिरादिगतेः वेदान्तावगतसर्वविद्यासाधारणत्वम्, न तु विशेषनियतत्वम्)
३८६. अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम् ॥ ३–३–३२ ॥
(विचारणौपयिकः संशयः)
उपकोसलादिषु येषूपासनेष्वर्चिरादिगति: श्रूयते; किं तन्निष्ठानामेव तया ब्रह्मप्राप्ति:, उत सर्वेषां ब्रह्मोपासननिष्ठानामिति संशये,
(पूर्वपक्षः सहेतुकः)
इतरेष्वनाम्नानात्, ये चेमेऽरण्ये श्रद्धा तप इत्युपासते (छा.५.१०.१) श्रद्धां सत्यमुपासते (बृ.८.२.१५) इतीतरसकलब्रह्मविद्योपस्थापकत्वे प्रमाणाभावाच्च तन्निष्ठानामेव –
(सूत्रतः सिद्धान्तवर्णनम्)
इति प्राप्तेऽभिधीयते – अनियम: – इति । सर्वेषां – सर्वोपासननिष्ठानां तयैव गन्तव्यत्वात् तन्निष्ठानामेवेति नियमो नास्ति । सर्वेषां तयैव गमने हि सति शब्दानुमानाभ्यां – श्रुतिस्मृतिभ्यामविरोध:, अन्यथा विरोध एवेत्यर्थ:।
(सर्वविद्यानिष्ठानामपि अर्चिरादिगतेः श्रौतता)
श्रुतिस्तावत् छान्दोग्यवाजसनेयकयो: पञ्चाग्निविद्यायामर्चिरादिमार्गेण सर्वब्रह्मोपासननिष्ठानां गमनमाह – य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिषमभिसम्भवन्ति (बृ.८.२.१५) इति वाजसनेयके; तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति (छा.५.१०.१) इति छान्दोग्ये; य इत्थं विदु: इति पञ्चाग्निविद्यानिष्ठान् ये चेमे इत्यादिना श्रद्धापूर्वकं ब्रह्मोपासीनांश्चोद्दिश्यार्चिरादिका गतिरुपदिश्यते ।
(सत्यतपश्शब्दयोः ब्रह्मपरता)
सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१) सत्यं त्वेव विजिज्ञासितव्यम् (छा.७.१७) इति सत्यशब्दस्य ब्रह्मणि प्रसिद्धे: । तपश्शब्दस्यापि तेनैकार्थ्यात्सत्यतपश्शब्दाभ्यां ब्रह्मैवाभिधीयते । श्रद्धापूर्वकं ब्रह्मोपासनं चान्यत्र श्रुतं सत्यं त्वेव विजिज्ञासितव्यम् (छा.७.१७) इत्युपक्रम्य श्रद्धा त्वेवविजिज्ञासितव्या (छा.७.१९) इति।
(अर्चिरादिगतेः सर्वविद्यासाधारणत्वे गीतास्मृतिः)
स्मृतिरपि – अग्निर्ज्योतिरहश्शुक्ल: षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना: ॥ (गी.८.२४) इति सर्वेषां ब्रह्मविदामनेनैव मार्गेण गमनमित्याह । एवंजातीयका: श्रुतिस्मृतयो बह्व्यस्सन्ति। एवं सर्वविद्यासाधारणी इयं गति: प्राप्तैवोपकोसलविद्यादावनूद्यते ॥३२॥
इति श्रीशारीरकमीमांसाभाष्ये अनियमाधिकरणम्॥१४॥