श्रीशारीरकमीमांसाभाष्ये प्रदानाधिकरणम् ॥१८॥
(अधिकरणार्थः – हविस्त्यागपार्थक्ये इन्द्रादीनामिव, प्रतिगुणचिन्तनं परमात्मचिन्तनावृत्तिः)
३९६. प्रदानवदेव तदुक्तम् ॥ ३–३–४२ ॥ (सि)
(विचारणीयविषयनिर्देशः)
दहरविद्यायां – तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान् (छा.८.१.६) इति दहराकाशस्य परमात्मन उपासनमुक्त्वा एतांश्च सत्यान्कामान् (छां.८.१.६) इति गुणानामपि पृथगुपासनं विहितम् ।
(विचारौपयिकस्संशयः)
तत्र संशय: – गुणचिन्तनेऽपि तत्तद्गुणविशिष्टतया दहरस्यात्मनश्चिन्तनमावर्तनीयम्, उत नेति।
(पूर्वः पक्षः)
दहराकाशस्यैव अपहतपाप्मत्वादीनां गुणित्वात्तस्य च सकृदेवानुसन्धातुं शक्यत्वाद्गुणार्थं तच्चिन्तनं नावर्तनीयम् –
(सदृष्टान्तोपपत्तिकः सिद्धान्तः)
इति प्राप्ते उच्यते प्रदानवदेव – इति। प्रदानवदावर्तनीयमेवेत्यर्थ: । यद्यपि दहराकाश एक एवापहतपाप्मत्वादिगुणानां गुणी; स च प्रथमं चिन्तित:; तथाऽपि स्वरूपमात्राद्गुणविशिष्टाकारस्य भिन्नत्वात् अपहतपाप्मा विजर: (छा.८.१.५) इत्यादिना गुणविशिष्टतया चोपास्यत्वेन विहितत्वात्पूर्वं स्वरूपेणानुसंहितस्यापहतपाप्मत्वादिविशिष्टतयाऽनुसन्धानार्थमावृत्ति: कर्तव्या, यथा इन्द्राय राज्ञे पुरोडाशमेकादशकपालं निर्वपेत् , इन्द्रायाधिराजाय, इन्द्राय स्वराज्ञे (यजु.२.३.६) इतीन्द्रस्यैव राजत्वादिगुणविशिष्टत्वेऽपि तत्तद्गुणसम्बन्ध्याकारस्य भिन्नत्वात्प्रदानावृत्ति: क्रियते; तदुक्तं साङ्कर्षणे नाना वा देवता पृथक्त्वात् (संक.काण्डे) इति ॥४२॥
इति श्रीशारीरकमीमांसाभाष्ये प्रदानाधिकरणम्॥१८॥