श्रीशारीरकमीमांसाभाष्ये पूर्वविकल्पाधिकरणम्॥२०॥
(अधिकरणार्थः – अग्निरहस्यब्राह्मणोक्तानां मनश्चिदादीनां विद्यामयक्रत्वनुप्रविष्टता)
३९८. पूर्वविकल्प: प्रकरणात्स्यात्क्रिया मानसवत् ॥ ३–३–४४ ॥
(विचारणीयविषयोपस्थापनम्)
वाजसनेयके अग्निरहस्ये मनश्चितादयोऽग्नय: श्रूयन्ते – मनश्चितो वाक्चित: प्राणचित: चक्षुश्चित: श्रोत्रचित: कर्मचितोऽग्निचित: (अग्निरहस्यं) इति ।
(विचारौपयिकस्संशयः)
तत्र संशय: – किमेते मनश्चितादयस्साम्पादिकत्वेन विद्यारूपा अग्नय: क्रियामयक्रत्वनुप्रवेशेन क्रियारूपा:, आहोस्विद्विद्यामयक्रत्वनुप्रवेशेन विद्यारूपा एव – इति विशये
(पूर्वः पक्षः सूत्रत एव)
क्रियारूपत्वं तावदाह – पूर्वविकल्प: – इत्यादिना। चित्याग्नित्वेन सम्पादितानामेषां मनश्चितादीनां क्रत्वनुप्रवेशसाकांक्षाणां स्वदेशे क्रतुविध्यभावात्पूर्वत्र असद्वा इदमग्र आसीत् (अग्निरहस्यं) इत्यादिनेष्टकचितस्याग्ने: प्रकृतत्वात् तस्य च क्रियामयक्रत्वव्यभिचारित्वेन तत्र क्रतुसन्निधानात्तत्प्रकरणगृहीता मनश्चितादयस्तेनेष्टकचितेनाग्निना विकल्प्यमाना: क्रियारूपा एव स्यु:। विद्यारूपाणामपि क्रियामयक्रत्वनुप्रवेशेन क्रियारूपत्वं मानसग्रहवदुपपद्यते। यथा द्वादशाहे अविवाक्ये दशमेऽहनि मानसग्रहस्य मनोनिष्पाद्यग्रहणासादनस्तोत्र-शस्त्रप्रत्याहरणभक्षणत्वेन विद्यारूपस्यापि क्रियामयक्रत्वङ्गतया क्रियारूपत्वम्; तथेहापि ॥ ४४॥
(उक्तार्थदृढीकरणम्)
३९९. अतिदेशाच्च ॥ ३–३–४५ ॥
इतश्चेष्टकचितेनाग्निना मनश्चितादीनां विकल्प: क्रियारूपत्वं चावगम्यते; तेषामेकैक एव तावान् यावानसौ पूर्व: (अग्निरहस्यम्) इति पूर्वस्येष्टकचितस्याग्नेर्वीर्यं मनश्चितादिष्वतिदिश्यते; तेन तुल्यकार्यत्वाद्विकल्प:। ततश्चेष्टकचितवत्तत्क्रतुनिर्वर्तनेन तदङ्गभूता: मनश्चितादय: क्रियामयक्रत्वनुप्रवेशेन क्रियारूपा एवेति ॥ ४५॥
(सिद्धान्तसूत्राणि)
एवं प्राप्ते प्रचक्ष्महे –
४००. विद्यैव तु निर्धारणाद्दर्शनाच्च ॥ ३–३–४६ ॥
तुशब्द: पक्षं व्यावर्तयति; यदुक्तं मनश्चितादय: क्रियामयक्रत्वनुप्रवेशेन क्रियारूपा एवेति; नैतदस्ति; विद्यारूपा एवैते- विद्यारूपक्रत्वन्वयिन इत्यर्थ:। कुत:? निर्धारणाद्दर्शनाच्च; निर्धारणं तावत् ते हैते विद्याचित एव विद्यया हैवैत एवंविदश्चिता भवन्ति (अग्निरहस्यम् १०.५.३) इति; वाङ्मनश्चक्षुरादिव्यापाराणामिष्टकादिवच्चयनानुपपत्तेर्मनसा सम्पादिताग्नित्वेन विद्यारूपत्वे सिद्धेऽपि विद्याचित एव, विद्यया हैवैते (अग्निरहस्यम् १०.५.३) इति चावधारणं विद्यामयक्रत्वन्वयेन विद्यारूपत्वज्ञापनार्थमिति निश्चीयते ।
(दर्शनाच्चेति सौत्रभागव्याख्यानम्)
दृश्यते चात्रैवैषां शेषी विद्यारूप: क्रतु: ते मनसैवाधीयन्त मनसैवाचीयन्त मनसैषु ग्रहा अगृह्यन्त मनसा स्तुवन्त मनसा शंसन् यत्किञ्च यज्ञे कर्म क्रियते, यत्किञ्च यज्ञीयं कर्म मनसैव तेषु मनोमयेषु मनश्चित्सु मनोमयमक्रियत (अग्निरहस्यम् १०.५.३.३) इति। इष्टकचितेष्वग्निषु यत्क्रियामयं यज्ञीयं कर्म क्रियते; तन्मनोनिर्वर्त्येषु मनश्चिताद्यग्निषु मनोमयमेवाक्रियतेति वचनात् क्रतुरपि विद्यामयोऽत्र प्रतीयते ॥४६॥
(विद्यारूपत्वस्य बाधशङ्कातत्परिहारौ)
नन्वत्र विधिपदाश्रवणात् फलसम्बन्धाप्रतीतेश्चेष्टकचिताग्न्युपस्थापितक्रियामयक्रतु-प्रकरणाद्विद्यामयक्रत्वन्वयेन विद्यारूपतैषां बाध्यते, नेत्याह –
४०१. श्रुत्यादिबलीयस्त्वाच्च न बाध: ॥ ३–३–४७ ॥
श्रुतिलिङ्गवाक्यानां प्रकरणाद्वलीयस्त्वेन श्रुत्याद्यवगत: क्रतुरेषां तदन्वयश्च दुर्बलेन प्रकरणेन बाधितुं न शक्यते; श्रुतिस्तावत् – ते हैते विद्याचित एव (अग्निरहस्यं) इति। तां विवृणोति विद्यया हैवैत एवंविदश्चिता भवन्ति (अग्निरहस्यं) इति। विद्यया विद्यामयेन क्रतुना सम्बद्धा मनश्चितादयश्चिता भवन्तीत्यर्थ: । तान् हैतानेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते (अग्निरहस्यं) इति लिङ्गम्। वाक्यं च एवंविदे चिन्वन्ति (अग्निरहस्यं) इति । समभिव्याहारो वाक्यम् । एवंविदे विद्यामयक्रतुमते सर्वदा सर्वाणि भूतानि चिन्वन्तीत्यर्थ: । सर्वभूतकर्तृकं सर्वकालव्यापि चयनं मनसा सम्पादितं परिमितकर्तृकालक्रियामयेष्टकचितकार्यद्वारेण क्रत्वनुप्रवेशसम्भवमलभमानं विद्यामयक्रत्वनुप्रवेशे लिङ्गं भवति ॥४७॥
(पूर्वोक्तपूर्वपक्षहेत्वनुवादपूर्वकं सूत्रतो निरासः)
यच्चेदमुक्तं – विधिप्रत्ययाश्रवणात्फलसम्बन्धाप्रतीतेश्च क्रियामयात्क्रतोरन्योऽत्र विद्यामय: क्रतुर्न सम्भवति – इति, तत्राह –
४०२. अनुबन्धादिभ्य: प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् ॥ ३–३–४८ ॥
इष्टकचितान्वयिन: क्रियामयात्क्रतोर्विद्यामयोऽयं क्रतु: पृथक्त्वेन अनुबन्धादिभ्य: पृथक्त्वहेतुभ्योऽवगम्यते। अनुबन्धा: यज्ञानुबन्धिनो ग्रहस्तोत्रशस्त्रादय: मनसैषु ग्रहा अगृह्यन्त मनसास्तुवन्त मनसाशंसन् (अग्निरहस्यं) इत्यादिना प्रतिपादिता:। आदिशब्देन श्रुत्यादय: पूर्वोक्ता गृह्यन्ते। श्रुत्यादिभिस्सानुबन्धैर्विद्यामयक्रतु: पृथगवगम्यत इत्यर्थ:। प्रज्ञान्तरपृथक्त्ववत् – यथा प्रज्ञान्तरं दहरविद्यादि क्रियामयात्क्रतो: पृथग्भूतं श्रुत्यादिभिरवगम्यते, एवमयमपि । एवं चानुबन्धादिभि: पृथग्भूते विद्यामये यज्ञेऽवगते सति विधि: परिकल्प्यते । दृष्टश्चानुवादसरूपेषु कल्प्यमानो विधि: । तदुक्तं – वचनानि त्वपूर्वत्वात् (जै.सू.३.५.२१) इति । फलं च तेषामेकैक एव तावान् यावानसौ पूर्व: (अग्निरहस्यं) इत्यतिदेशात् स्वक्रतुद्वारेणेष्टकचितस्याग्ने: यत्फलम्, तदेव मनश्चितादीनामपि स्वक्रतुद्वारेण फलमित्यवगम्यते ॥४८॥
(अतिदेशस्य पूर्वपक्षोपष्टम्भकतानिरासः)
यत्पुनरतिदेशेन तुल्यकार्यत्वावगमात्क्रियामयक्रत्वनुप्रवेशोऽवगम्यत इत्युक्तम्, तत्राह –
४०३. न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्ति: ॥ ३–३–४९ ॥
नावश्यमतिदेशादवान्तरव्यापारस्यापि तुल्यतया भवितव्यम्, येन क्रियामयक्रत्वनुप्रवेश एषां स्यात्, यस्मात्कस्माच्चित्सामान्यमात्रादतिदेशोपलब्धे:; उपलभ्यते हि स एष एव मृत्युर्य एष एतस्मिन्मण्डले पुरुष: (अग्निरहस्यं – ३०-५-२) इत्यादिषु संहर्तृत्वादिसामान्यमात्रादतिदेश:; न हि तत्र मण्डलपुरुषस्य मृत्युवत् तल्लोकापत्ति: – तद्देशप्राप्तिरपि भवति; एवमिहापि मनश्चितादीनामिष्टकचिताग्निवद्भावातिदेशमात्रेणेष्टकचिताग्निदेशरूपक्रियामयक्रत्वनुप्रवेशेनापि न भवितव्यम्। अत इष्टकचिताग्ने: स्वक्रतुद्वारेण यत्फलम् तदेव मनश्चितादीनामपि विद्यामयकतुद्वारेण फलमित्यति-देशादवगम्यते ॥४९ ॥
(अनन्तरश्रुतस्य ब्राह्मणस्य सिद्धान्तोपष्टम्भकत्वोपपादनम्)
४०४. परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्ध: ॥ ३–३–५० ॥
परेण च ब्राह्मणेनास्यापि मनश्चिताद्यभिधायिन: शब्दस्य ताद्विध्यं – तद्विधत्वम्, विद्यामयप्रतिपादित्वमवगम्यते; परेण हि ब्राह्मणेन अयं वाव लोक एषोऽग्निचितस्तस्याप एव परिश्रिता: (अग्निरहस्यं) इत्यादिना स यो हैतदेवं वेद लोकं पृणानामेनं भूतमेतत्सर्वमभिसम्पद्यते (अग्निरहस्यं) इति पृथक्फला विद्यैव विधीयते, तथा वैश्वानरविद्यादौ च विद्यैव विधीयते। अतोऽग्निरहस्यस्य क्रियैकविषयत्वं नास्ति । एवं तर्हि विद्यामया: मनश्चितादयो बृहदारण्यकेऽनुबद्धव्या: किमर्थमिहानुबध्यन्ते, तत्रोच्यते – भूयस्त्वात्त्वनुबन्ध: – इति। मनश्चितादिषु सम्पादनीयानामग्न्यङ्गानां भूयस्त्वात् सन्निधाविहानुबन्ध: कृत:॥ ५०॥
इति श्रीशारीरकमीमांसाभाष्ये पूर्वविकल्पाधिकरणम्॥२०॥