श्रीशारीरकमीमांसाभाष्ये पारिप्लवार्थाधिकरणम्॥३॥
(अधिकरणार्थः – उपनिषत्सूपलभ्यमानानां आख्यानानां विद्याविध्यर्थत्वमेव न तु अश्वमेधाङ्गपारिप्लवनामकशस्त्रार्थत्वम्)
४४१. पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ ३–४–२३ ॥
(विचारणीयो विषयः ससंशयः)
प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम (कौ.३.१) श्वेतकेतुर्हारुणेय आस (छा.६.१.१) इत्येवमादीनि वेदान्तेष्वाख्यानानि किं पारिप्लवप्रयोगार्थानि, उत विद्याविशेषप्रतिपादनार्थानीति चिन्तायाम् –
(पूर्वपक्षः)
आख्यानानि शंसन्ति (?) इत्याख्यानानां पारिप्लवे विनियोगान्न विद्याप्रधानत्वं न्याय्यमिति चेत्
(सिद्धआन्तार्थः)
न सर्वाण्याख्यानानि पारिप्लवप्रयोगे विनियोगमर्हान्ति; कुत:? विशेषितत्वाद्विनियोगस्य। आख्यानानि शंसन्ति इत्युक्त्वा तत्रैव मनुर्वैवस्वतो राजा इत्यादिना मन्वादीनामाख्यानानि विशेष्यन्ते, अतस्तेषामेव तत्र विनियोग इति गम्यते । तस्मान्न सर्वा वेदान्तेष्वाख्यानश्रुतय: पारिप्लवप्रयोगार्था:; अपि तु विद्याविध्यर्था: ॥२३॥
(आख्यानानां दर्शनविध्यैकवाक्यात् उक्तार्थसिद्धिः)
४४२. तथा चैकवाक्योपबन्धात् ॥ ३–४–२४ ॥
आत्मा वा अरे द्रष्टव्य: (बृ.६-५-६) इत्यादिविधिनैकवाक्यतयोपबन्धाच्चाख्यानानां विद्याविध्यर्थान्येव तानीति गम्यते; यथा सोऽरोदीत् (यजु.१-५-१) इत्येवमादे: कर्मविध्यर्थत्वम्; न पारिप्लवार्थत्वम्॥२४॥
इति श्रीशारीरकमीमांसाभाष्ये पारिप्लवार्थाधिकरणम्॥३॥