श्रीशारीरकमीमांसाभाष्ये सर्वापेक्षाधिकरणम्॥५॥
(अधिकरणार्थः – कर्माधिकृताश्रमिणां तु ब्रह्मविद्या कर्मसापेक्षैव निष्पन्ना भवेत्)
४४४. सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ ३–४–२६ ॥
(गृहिष्वपि कर्मापेक्षाराहित्यशङ्का, तन्निरासश्च)
यदि विद्या यज्ञाद्यनपेक्षैवामृतत्वं साधयति; तर्हि गृहस्थेष्वपि तदनपेक्षैव साधयितुमर्हति, यज्ञादिश्रुतिरपि विविदिषन्ति (बृ.६.४.२२) इति शब्दात्कर्मणो वेदनाङ्गतां न प्रतिपादयतीति –
अत आह – सर्वापेक्षा इति। अग्निहोत्रादिसर्वकर्मापेक्षैव विद्या कर्मवत्सु गृहस्थेषु; कुत:? यज्ञादिश्रुते:। तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन (बृ.६.४.२२) इत्यादिना यज्ञादयो हि विद्याङ्गत्वेन श्रूयन्ते। यज्ञादिना विविदिषन्ति वेदितुमिच्छन्ति, यज्ञादिभिर्वेदनं प्राप्तुमिच्छन्तीत्यर्थ:। यज्ञादीनां ज्ञानसाधनत्वे सत्येव यज्ञादिभि: ज्ञानं प्राप्तुमिच्छन्तीति व्यपदेश उपपद्यते; यथा असेर्हाननसाधनत्वे सति असिना जिघांसतीति व्यपदेश:। अतो यज्ञादीनां ज्ञानसाधनत्वमवगम्यते ॥
(मोक्षोपायतया अवगतं विशिष्टं ज्ञानम्)
ज्ञानं च वाक्यार्थज्ञानादर्थान्तरभूतं ध्यानोपासनादिशब्दवाच्यं विशदतमप्रत्यक्षतापन्न-स्मृतिरूपं निरतिशयप्रियमहरहरभ्यासाधेयातिशयमाप्रयाणादनुवर्तमानं मोक्षसाधनमित्युक्तमस्माभि: पूर्वमेव; वक्ष्यति च आवृत्तिरसकृदुपदेशात् (ब्र.सू.४.१.१) इत्यादिना।
(ज्ञानं प्रति कर्मणां सहकारित्वप्रकारः)
एवं रूपं च ध्यानमहरहरनुष्ठीयमानैर्नित्यनैमित्तिककर्मभि: परमपुरुषाराधनरूपै: परमपुरुषप्रसादद्वारेण जायत इति यज्ञादिना विविदिषन्तीति शास्त्रेण प्रतिपाद्यते । अत: कर्मवत्सु गृहस्थेषु यज्ञादिनित्यनैमित्तिकसर्वकर्मापेक्षा विद्या। अश्ववत् – यथा गमनसाधनभूतोऽश्व: स्वपरिकरबन्ध-परिकर्मापेक्ष:; एवं मोक्षसाधनभूताऽपि विद्या नित्यनैमित्तिककर्मपरिकरापेक्षा । तदिदमाह स्वयमेव भगवान् यज्ञदानतप: कर्म न त्याज्यं कार्यमेव तत्। यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् (भ.गी.१८.५) यत: प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानव: (भ.गी.१८.४६) इति ॥२६॥
इति श्रीशारीरकमीमांसाभाष्ये सर्वापेक्षाधिकरणम्॥ ५॥