श्रीशारीरकमीमांसाभाष्ये आत्मत्वोपासनाधिकरणम्॥२॥
(अधिकरणार्थः – उपास्यं ब्रह्म उपासितुः आत्मत्वेनैवोपास्यम्, न अन्यत्वेन)
४७२. आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ४–१–३ ॥
(संशयप्रदर्शनतः अधिकरणचिन्त्योऽर्थः)
इदमिदानीं चिन्त्यते – किमुपास्यं ब्रह्मोपासितुरन्यत्वेनोपास्यम्, उतोपासितुरात्मत्वेन – इति।
(युक्त्या पूर्वःपक्षः)
किं युक्तम्?; अन्यत्वेनेति। कुत:? उपासितु: प्रत्यगात्मनोऽर्थान्तरत्वात् ब्रह्मण: । अर्थान्तरत्वं च अधिकं तु भेदिनर्देशात् (शारी.२.१.२२) अधिकोपदेशात् (शारी.३.४.८) नेतरोऽनुपपत्ते: (शारी.१.१.१७) इत्यादिषूपपादितम्। यथावस्थितं च ब्रह्मोपास्यम्; अयथोपासने हि ब्रह्मप्राप्तिरप्ययथाभूता स्यात् – यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेत: प्रेत्य भवति (छा.३.१४.१) इति न्यायात्। अतोऽन्यत्वेनोपास्यमिति॥
(सूत्रार्थवर्णनतः सिद्धान्तः)
एवं प्राप्तेऽभिधीयते – आत्मेति तु – इति । तुशब्दोऽवधारणे; उपासितुरात्मेत्येवोपास्यम्, उपासिता प्रत्यगात्मा स्वशरीरस्य स्वयं यथा आत्मा; तथा स्वात्मनोऽपि परं ब्रह्मात्मेत्येवोपासीतेत्यर्थ:। कुत:? एवं ह्युपगच्छन्ति पूर्वे उपासितार: – त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि (बृ.३.४.१०) इति। उपासितुरर्थान्तरभूतं ब्रह्मोपासितारोऽहमिति कथमभ्युपग्छन्तीत्यत्राह – ग्राहयन्ति च – इति । इममर्थमविरुद्धमुपासितॄन् ग्राहयन्ति शास्त्राणि – तान् प्रत्युपपादयन्तीत्यर्थ: ।
(शास्त्रतः आत्मत्वोपपादनप्रकारः)
य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृत: (बृ.५.७.२२) सन्मूलास्सोम्येमास्सर्वा: प्रजास्सदायतनास्सत्प्रतिष्ठा: ऐतदात्म्यमिदसर्वम् (छां.६.८.४) सर्वं खल्विदं ब्रह्म तज्जलानिति (छां.३.१४.३) इति च सर्वस्य चिदचिद्वस्तुनस्तज्जत्वात्तल्लत्वात् तदनत्वात्तन्नियाम्यत्वात्तच्छरीरत्वाच्च सर्वस्यायमात्मा, अतस्स त आत्मा; अतो यथा प्रत्यगात्मनस्स्वशरीरं प्रत्यात्मत्वात् देवोऽहं मनुष्योऽहम् इत्यनुसन्धानम्; तथा प्रत्यगात्मनोऽपि आत्मत्वात्परमात्मनस्तस्याप्यहमित्येवानुसन्धानं युक्तमिति । एवं शास्त्रैरुपपादितं सर्वबुद्धीनां ब्रह्मैकनिष्ठत्वेन सर्वशब्दानां ब्रह्मैकनिष्ठत्वमभ्युपगच्छन्त: त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते इति व्यतिकरेणोक्तवन्त: । एवं च,
(आत्मत्वानुसन्धानपृथक्त्वानुसन्धानयोरविरोधः)
अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद (बृ.३.४.१०) अकृत्स्नो ह्येष आत्मेत्येवोपासीत (बृ.३.४.१०), सर्वं तं परादाद्योऽन्यत्राऽत्मनस्सर्वं वेद (बृ.६.५.७) इत्यात्मत्वा-ननुसन्धाननिषेध:; पृथगात्मानं प्रेरितारं च मत्वा (श्वे.१.६) इति पृथक्त्वानुसन्धानविधानं चाविरुद्धम्, अहमिति स्वात्मतयाऽनुसन्धानादन्यत्वानुसन्धाननिषेधो रक्षित:; स्वशरीरात्स्वात्मनः अधिकत्वानुसन्धानवत् स्वात्मनोऽपि परमात्मनोऽधिकत्वानुसन्धानात्पृथक्त्वानुसन्धानविधानं च रक्षितम्। अधिकस्य ब्रह्मण: प्रत्यगात्मन आत्मत्वात्तस्य च ब्रह्मशरीरत्वान्निषेधवाक्ये अकृत्स्नो ह्येष: इत्युक्तम्। अत उपासितुरात्मत्वेन ब्रह्मोपास्यमिति स्थितम् ॥ ३॥
इति श्रीशारीरकमीमांसाभाष्ये आत्मत्वोपासनाधिकरणम्॥ २॥