श्रीशारीरकमीमांसाभाष्ये तदधिगमाधिकरणम्॥७॥
(अधिकरणार्थः – ब्रह्मविद्यालाभे सति तन्माहात्म्यात् पश्चात्तनानां पाप्मनामश्लेषः, प्राक्तनानां च तेषां विनाशश्च)
४८२. तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ ४–१–१३ ॥
(पेटिकासङ्गतिः)
एवं विद्यास्वरूपं विशोध्य विद्याफलं चिन्तयितुमारभते ।
(विचारणीयविषयोपस्थापनम्)
ब्रह्मविद्याप्राप्तौ पुरुषस्योत्तर-पूर्वाघयोरश्लेषविनाशौ श्रूयेते तद्यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते (छा.४.१४.३) तस्यैवाऽत्मा पदवित्तं विदित्वा न कर्मणा लिप्यते पापकेन (बृ.६.४.२३) इत्युत्तराघाश्लेष: तद्यथेषीकतूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मान: प्रदूयन्ते (छा.५.२४.३) क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे (मु.२.२.८) इति पूर्वाघविनाश: ।
(विचारौपयिकः संशयः, पूर्वपक्षश्च)
एतावश्लेषविनाशौ विद्याफलभूतावुपपद्येते, नेति संशय:। किं युक्तम्? नोपपद्येते इति। कुत:? नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि (ब्रह्म.वै.प्रकृतिखण्डे.२६.७०े) इत्यादिशास्त्र-विरोधात्। अश्लेषविनाशव्यपदेशस्तु मोक्षसाधनभूतविद्याविधायिवाक्यशेषगत: कथञ्चिद्विद्याः स्तुतिप्रतिपादनेनाप्युपपद्यते।
न च विद्या पूर्वोत्तराघयो: प्रायश्चित्ततया विधीयते; येन प्रायश्चित्तेनाघविनाश उच्यते; विद्या हि ब्रह्मविदाप्नोति परम् (तै.आन.१.१) ब्रह्म वेद ब्रह्मैव भवति (मु.३.२.९) इति ब्रह्मप्राप्त्युपायतया विधीयते । अतो विद्यार्थवादोऽयमघविनाशाश्लेषव्यपदेश इति ॥
(विद्यायाः पापप्राश्चित्तत्वायोगः)
एवं प्राप्तेऽभिधीयते तदधिगमे – इति। विद्याप्राप्तौ पुरुषस्य विद्या-माहात्म्यादुत्तरपूर्वाघयोरश्लेषविनाशावुपपद्येते; कुत:? एवंविधं हि विद्यामाहात्म्यमवगम्यते एवंविदि पापं कर्म न श्लिष्यते (छा.४.१४.३) एवं हास्य सर्वे पाप्मान: प्रदूयन्ते (छा.५-१४-३) इत्यादिव्यपदेशात् ।
(सूत्रार्थवर्णनतः सिद्धान्तार्थः)
न च नाभुक्तं क्षीयते कर्म?? (ब्रह्म.वै.प्रकृतिखण्डे.२६.७०) इत्यनेन शास्त्रेणास्य विरोध:, भिन्नविषयत्वात् । तद्धि कर्मणां फलजननसामर्थ्यद्रढिमविषयम्; एतत्तूत्पन्नाया विद्याया: प्राक्कृतानां पाप्मनां फलजननशक्तिविनाशसामर्थ्यमुत्पत्स्यमानानां च फलजननशक्त्युत्पत्तिप्रतिबन्धकरणसामर्थ्यं च प्रतिपादयतीति द्वयोर्विषयो भिद्यते । यथा अग्निजलयोरौष्ण्यतन्निवारणसामर्थ्यविषययोर्द्वयो: प्रमाणयोरपि विषयभेदात्प्रामाण्यम्; एवमत्रापीति न कश्चिद्विरोध:।
(पूर्वपक्षदर्शितस्य शास्त्रविरोधस्य भिन्नविषयत्वेन परिहारः)
अघस्याश्लेषकरणं वैदिककर्मायोग्यतावासनाप्रत्यवायहेतुशक्त्युत्पत्तिप्रतिबन्धकरणम् । अघानि हि कृतानि पुरुषस्य वैदिककर्मायोग्यतां, सजातीयकर्मान्तरारम्भरुचिं, प्रत्यवायं च कुर्वन्ति । अघस्य विनाशकरणम् उत्पन्नायास्तच्छक्तेर्विनाशकरणम् । शक्तिरपि परमपुरुषाप्रीतिरेव ॥
(अघाश्लेषविनाशयोः विवरणम्)
तदेवं, विद्या वेदितुर्वेद्यात्यर्थप्रियत्वेन स्वयमपि निरतिशयप्रिया सती वेद्यभूतपरमपुरुषाराधानस्वरूपा पूर्वकृताघसञ्चयजनितपरमपुरुषाप्रीतिं विनाशयति; सैव विद्या स्वोत्पत्त्युत्तरकालभाव्यघनिमित्त-परमपुरुषाप्रीत्युत्पत्तिं च प्रतिबघ्नाति।
(प्रामादिकस्य च उत्तराघस्य अश्लेषः)
तदिदमश्लेषवचनं प्रामादिकविषयं मन्तव्यम्; नाविरतो दुश्चरितात् (कठ.२.२४) इत्यादिभिश्शास्त्रैराप्रयाणादहरहरुत्पद्यमानाया उत्तरोत्तरातिशयभागिन्या: विद्याया: दुश्चरितविरतिनिष्पाद्यत्वावगमात्॥
इति श्रीशारीरकमीमांसाभाष्ये तदधिगमाधिकरणम्॥७॥