[highlight_content]

श्रीभाष्यम् 04-02-01 वागधिकरणम्

श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये चतुर्थे फलाध्यायेद्वितीय: उत्क्रान्तिपाद:

(अधिकरणानि – 11, सूत्राणि 20)

(पादार्थः – ब्रह्मविदुषो गतिप्रकारचिन्तायां प्रथममुत्क्रान्तिचिन्ता)

वागधिकरणम्॥१॥

(अधिकरणार्थः – ब्रह्मविदुषो गतिप्रकारचिन्तायां प्रथममुत्क्रान्तिचिन्ता)

४८९. वाङ्मनसि दर्शनाच्छब्दाच्च

(अधिकरणार्थः – प्रयतो जीवस्योक्ता वाचो मनसि सम्पत्तिः, वाक्स्वरूपसम्पत्तिरेव, न तु तद्वृत्तिमात्रस्य)

इदानीं विदुषो गतिप्रकारं चिन्तयितुमारभते । प्रथमं तावदुत्क्रान्तिश्चिन्त्यते। तत्रेदमाम्नायते अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मन: प्राणे प्राणस्तेजसि तेज: परस्यां देवतायाम् (छा.६.८.६) इति।

(अधिकरणीयः संशयः)

अत्र  वाङ्मनसि सम्पद्यते (छा.६.८.६) इति वाचो मनसि सम्पत्तिश्रुति: किं वाग्वृत्तिमात्रविषया, उत वाग्विषयेति विशये –

(युक्त्या पूर्वःपक्षः)

वृत्तिमात्रविषयेति युक्तम्। कुत:? मनसो वाक्प्रकृतित्वाभावात्तत्र वाक्स्वरूपसम्पत्त्यसम्भवात्। वागादिवृत्तीनां मनोऽधीनत्वेन वृत्तिसम्पत्तिश्रुति: कथंचिदुपपद्यत इति॥

(सूत्रतः सिद्धान्तार्थः)

एवं प्राप्तेऽभिधीयते वाङ्मनसि इति । वाक्स्वरूपमेव मनसि सम्पद्यते। कुत:? दर्शनात् – दृश्यते हि वागिन्द्रय उपरतेऽपि मन: प्रवृत्ति:। वृत्तिमात्रसम्पत्त्यापि तदुपपद्यत इति चेत् तत्राह – शब्दाच्चेति।  वाङ्मनसि सम्पद्यते (छा.६.८.६) इति वाक्स्वरूपसम्पत्तावेव हि शब्द:; न वृत्तिमात्रसम्पत्तौ । न हि तदानीं वृत्त्युपरमे वागिन्द्रियं प्रमाणान्तरेणोपलभ्यते; येन वृत्तिमात्रमेव सम्पद्यत इत्युच्येत ।

(पूर्वपक्षयुक्तेः समाधानम्)

यदुक्तं मनसो वाक्प्रकृतित्वाभावाद्वाचो मनसि सम्पत्तिर्नोपपद्यत इति; तत्,  वाङ्मनसि सम्पद्यते (छा.६.८.६) इति वचनान्मनसा वाक्संयुज्यते; नतु तत्र लीयत इति परिहर्तव्यम् ॥१॥

(उक्तेऽर्थे श्रुत्यन्तरार्थसामञ्जस्यसिद्धिः)

४९०. अत एव सर्वाण्यनु

यतो वाचो मनसा संयोगमात्रं सम्पत्ति:; न तु लय:; अत एव वाचमनु सर्वेषामिन्द्रियाणां मनसि सम्पत्तिश्रुतिरुपपद्यते,  तस्मादुपशान्ततेजा अपुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानै: (प्रश्न.उप.३.९) इति॥२॥

इति श्रीशारीरकमीमांसाभाष्ये वागधिकरणम्॥१॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.