[highlight_content]

श्रीभाष्यम् 04-02-08 तदोकोऽधिकरणम्

श्रीशारीरकमीमांसाभाष्ये तदोकोधिकरणम्॥८॥

(अधिकरणार्थः – परमपुरुषप्रसादात् विदुषः जीवस्य उत्क्रान्तिकाले मूर्धन्यनाडीप्रकाशः तया गतिश्च)

५०४. तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतश्शताधिकया १६

(अवान्तरसङ्गतिः)

एवं गत्युपक्रमावधि विद्वदविदुषोस्समानाकार उत्क्रान्तिप्रकार उक्त:; इदानीं विदुषो विशेष उच्यते।

(विचारणीयो विषयः, विचारार्थः संशयश्च)

तत्रेदमाम्नायते –  शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्डन्या उत्क्रमणे  भवन्ति (कठ.२.६.१६) इति । अनया नाडीनां शताधिकया मूर्धन्य नाड्यैव विदुषो गमनम्, अन्याभिरेव चाविदुषो गमनमित्ययं नियम उपपद्यते, नेति संशय:।

(युक्तितः पूर्वः पक्षः)

किं युक्तम्? नियमो नोपपद्यत इति । कुत:? नाडीनां भूयस्त्वादतिसूक्ष्मत्वाच्च दुर्विवेचतया पुरुषेणोपादातुमशक्यत्वात्। तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्डन्या उत्क्रमणे भवन्ति (कठ.२.६.१६) इति यादृच्छिकीमुत्क्रान्तिमनुवदतीति युक्तमिति ॥

(सूत्रतः सिद्धान्तार्थः)

एवं प्राप्ते प्रचक्ष्महे शताधिकया – इति। विद्वान् शताधिकया मूर्धन्ययैव नाड्योत्क्रामति।

न चास्या: विदुषो दुर्विवेचत्वम्; विद्वान् हि, परमपुरुषाराधनभूतात्यर्थप्रियविद्यासामर्थ्यात् विद्याशेषभूततयाऽऽत्मनोऽत्यर्थप्रियगत्यनुस्मरणयोगाच्च प्रसन्नेन हार्देन परमपुरुषेणानुगृहीतो भवति; ततश्च तदोक: – तस्य जीवस्य स्थानं हृदयम्, अग्रज्वलनं भवति अग्रे ज्वलनं प्रकाशनं यस्य, तदिदमग्रज्वलनम्। परमपुरुषप्रसादात्प्रकाशितद्वारो विद्वान् तां नाडीं विजानातीति तया विदुषो गतिरुपपद्यते ॥१६॥

इति श्रीशारीरकमीमांसाभाष्ये तदोकोऽधिकरणम्॥८॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.