श्रीभगवद्रामानुजविरचित
वेदान्तदीप:
प्रथमाध्याये प्रथम: पाद:
श्रिय: कान्तोऽनन्तो वरगुणगणैकास्पदवपु:
हताशेषावद्य: परमखपदो वाङ्मनसयो:।
अभूमिर्भूमिर्यो नतजनदृशामादिपुरुषो
मनस्तत्पादाब्जे परिचरणसक्तं भवतु मे ।।
प्रणम्य शिरसाऽऽचार्यांस्तदादिष्टेन वर्त्मना।
ब्रह्मसूत्रपदान्तस्थवेदान्तार्थ: प्रकाश्यते ।।
अत्रेयमेव हि वेदविदां प्रक्रिया – अचिद्वस्तुनस्स्वरूपतस्स्वभावतश्चात्यन्तविलक्षण: तदात्मभूतः चेतन: प्रत्यगात्मा । तस्माद्बद्धान्मुक्तान्नित्याच्च निखिलहेयप्रत्यनीकतया, कल्याणगुणैकतानतया च, सर्वावस्थचिदचिद्व्यापकतया, धारकतया, नियन्तृतया, शेषितया चात्यन्तविलक्षण: परमात्मा । यथोक्तं भगवता – द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते। उत्तम: पुरुषस्त्वन्य: परमात्मेत्युदाहृत:। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वर:। यस्मात्क्षरमतीतोऽहमक्षरादपिचोत्तम:। अतोऽस्मि लोके वेदे च प्रथित: पुरुषोत्तम: इति।
श्रुतिश्च – प्रधानक्षेत्रज्ञपतिर्गुणेश:, पतिं विश्वस्यात्मेश्वरम्, अन्तर्बहिश्च तत्सर्वं व्याप्यनारायण स्थित: इत्यादिका। कूटस्थ: – मुक्तस्वरूपम्; ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते। सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् इत्यादिव्यपदेशात्। सूत्रकारश्चैवमेव वदति नेतरोऽनुपपत्ते:, भेदव्यपदेशात्, अनुपपत्तेस्तु न शारीर:, कर्मकर्तृव्यपदेशाच्च, शब्दविशेषात्, सम्भोगप्राप्तिरिति चेन्न वैशेष्यात्, न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च, उभयेऽपि हि भेदेनैनमधीयते, विशेषणभेदव्यपदेशाभ्यां च नेतरौ, मुक्तोपसृप्यव्यपदेशाच्च, स्थित्यदनाभ्यां च, इतरपरामर्शात्स इति चेन्नासम्भवात्, उत्तराच्चेदाविर्भूतस्वरूपस्तु, सुषुप्त्युत्क्रान्त्योर्भेदेन, पत्यादिशब्देभ्य:, अधिकं तु भेदनिर्देशात्, अधिकोपदेशात्तु बादरायणस्यैव तद्दर्शनात्, जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च, भोगमात्रसाम्यलिङ्गाच्च इत्यादिभि:। न चाविद्याकृतमुपाधिकृतं वा भेदमाश्रित्यैते निर्देशा:; इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता: सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च, तदा विद्वान् पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति, मुक्तोपसृप्यव्यपदाशाच्च, उत्तराच्चेदाविर्भूतस्वरूपस्तु, संपद्याविर्भावस्स्वेनशब्दात्, जगद्व्यापारवर्जं प्रकरणात् असन्निहितत्वाच्च, भोगमात्रसाम्यलिङ्गाच्च, इति सर्वाविद्योपाधिविनिर्मुक्तमधिकृत्यैव भेदोपपादनात्। श्रुतिस्मृतिसूत्रेषु सर्वत्र भेदे निर्दिष्टे चिदचिदीश्वरस्वरूपभेदस्स्वाभाविको विवक्षित इति निश्चीयते। सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत, वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्, सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्षत बहुस्यां प्रजायेयेति तत्तेजोऽसृजत, सन्मूलास्सोम्येमास्सर्वा: प्रजास्सदायतनास्सत्प्रतिष्ठा:, ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो, क्षेत्रज्ञं चापि मां विद्धि, तदनन्यत्वमारम्भणशब्दादिभ्य इति परस्य ब्रह्मण: कारणत्वं, कृत्स्नस्य चिदचिदात्मकप्रपञ्चस्य कार्यत्वं, कारणात्कार्यस्यानन्यत्वं चोच्यमानमेवमेवोपपद्यते। सर्वावस्थस्य चिदचिद्वस्तुन: परमात्मशरीरत्वं, परमात्मनश्चात्मत्वं, य: पृथिव्यां तिष्ठन्यस्य पृथिवी शरीरं, य आत्मनि तिष्ठन्यस्यात्मा शरीरं य आत्मानमन्तरो यमयति, यस्याव्यक्तं शरीरं यस्याक्षरं शरीरं यस्य मृत्युश्शरीरम्, एष सर्वंभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण:, अन्त: प्रविष्टश्शास्ता जनानां सर्वात्मा इत्यादि श्रुत्यैवोपदिष्टमिति सूक्ष्मचिदचिद्वस्तुविशिष्ट: परमात्मा कारणम्, स एव परमात्मा स्थूलचिदचिद्वस्तुशरीर: कार्यमिति, कारणावस्थायां कार्यावस्थायां च चिदचिद्वस्तुशरीरकतया तत्प्रकार: परमात्मैव सर्वशब्दवाच्य इति परमात्मशब्देन सर्वशब्दसामानाधिकरण्यं मुख्यमेवोपपन्नतरम्। अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि, तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्चत्यच्चाभवत् इत्यादि श्रुतिरेवेममर्थमुपपादयति। सर्वमात्मतयाऽनुप्रविश्य तच्छरीरत्वेन सर्वप्रकारतया स एव सर्वशब्दवाच्यो भवतीत्यर्थ:। बहु स्याम् इति बहुभवनसङ्कल्पोऽपि नामरूपविभागानर्हातिसूक्ष्मचिदचिद्वस्तुशरीरकतयैकधाऽवस्थितस्य विभक्तनामरूपचिदचित् शरीरकतया बहुप्रकारताविषय: इति वेदवित्प्रक्रिया।
ये पुनर्निर्विशेषकूटस्थस्वप्रकाशनित्यचैतन्यमात्रं ब्रह्म ज्ञातव्यतयोक्तमिति वदन्ति, तेषाम्, जन्माद्यस्य यत:, शास्त्रयोनित्वात्, तत्तु समन्वयात्, ईक्षतेर्नाशब्दम् इत्यादे: — जगद्व्यापारवर्जं, प्रकरणादसनन्निहितत्वाच्च, भोगमात्रसाम्यलिङ्गाच्च, अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् इत्यन्तस्य सूत्रगणस्य ब्रह्मणो जगत्कारणत्वबहुभवनसङ्कल्परूपेक्षणाद्यनन्तविशेषप्रतिपादनपरत्वात्सर्वं सूत्रजातं, सूत्रकारोदाहृता:, यतो वा इमानि भूतानि जायन्ते, तदैक्षत बहुस्यां प्रजायेयेति इत्याद्या: सर्वश्रुतयश्च न सङ्गच्छन्ते। अथोच्येत येनाश्रुतं श्रुतम् इत्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय, यथा सोम्यैकेन मृत्पिण्डेन इत्येकमृत्पिण्डारब्धघटशरावादीनां तन्मृत्पिण्डादनन्यद्रव्यतया तज्ज्ञानेन तेषां ज्ञाततेव, ब्रह्मज्ञानेन तदारब्धस्य कृत्स्नस्य चिदचिदात्मकस्य जगतस्तस्मादनतिरिक्तवस्तुतया ज्ञातता सम्भवतीत्युपपाद्य, सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् इतीदं शब्दवाच्यस्य चिदचिदात्मकप्रपञ्चस्य सृष्टे: प्राङ्निखिलभेदप्रहाणेन सच्छब्दवाच्येनैकतापत्तिं घटशरावाद्युत्पत्ते: प्रागुत्पादकमृत्पिण्डैकतापत्तिवत् अभिधाय, तदैक्षत बहु स्याम् इति तदेव सच्छब्दवाच्यं ब्रह्म चिदचिदात्मकप्रपञ्चरूपेणात्मनो बहुभवनमेकमृत्पिण्डस्य घटशरावादिरूपेण बहुभवनवत्सङ्कल्प्य आत्मानमेव तेज: प्रभृतिजगदाकारेण असृजतेति चाभिधाय, ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि इत्यभिधानात् ब्रह्मैवाविद्याकृतेन पारमार्थिकेन वोपाधिना संबद्धं देवादिरूपेण बहुभूतमिति वेदविद्भिरभ्युपगन्तव्यमिति। तदयुक्तम्, ज्ञाज्ञौ द्वावजावीशनीशौ, नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् इत्यादिश्रुतिभि: जीवानामजत्वनित्यत्व-बहुत्ववचनात्। यदि घटशरावादेरुत्पत्ते: प्रागेकीभूतस्य मृद्द्रव्यस्य उत्पत्त्युत्तरकालभाविबहुत्ववत्सृष्टे: प्रागेकीभूतस्यैव ब्रह्मणस्सृष्ट्युत्तरकालीनं नानाविधजीवरूपेण बहुत्वमुच्यते, तदा जीवानामजत्वनित्यत्वबहुत्वादि विरुध्येत। सूत्रविरोधश्च इतरव्यपदेशात् हिताकरणादिदोषप्रसक्ति: इति ब्रह्मैव देवमनुष्यादिजीवस्वरूपेण बहुभूतं चेदात्मनो हिताकरणादिदोषप्रसक्तिरित्युक्त्वा, अधिकं तु भेदनिर्देशात् इति जीवाद्ब्रह्मणोऽर्थान्तरत्वमुक्तम्। तथा च वैषम्यनैर्घृण्ये न सापेक्षत्वात् इति देवादिविषमसृष्टिप्रयुक्तपक्षपातनैर्घृण्ये, जीवानां पूर्वपूर्वकर्मापेक्षत्वाद्विषमसृष्टे: इति परिहृते। तथा न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च इति, सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् इति सृष्टे: प्रागविभागवचनात् सृष्टे: प्राग्जीवानामभावात्तत्कर्म न संभवतीति परिचोद्य, जीवानां तत्कर्मप्रवाहाणां चानादित्वादिति परिहृतम्। नात्मा श्रुतेर्नित्यत्वाच्च ताभ्य: इत्यात्मन उत्पत्त्यभावश्चोक्तो नित्यत्वं च स्वाभ्युपगमविरोधश्च। आमोक्षाज्जीवभेदस्यानादित्वं सर्वैरेव हि वेदान्तिभिरभ्युपगम्यते। अतश्श्रुतिविरोधात्सूत्रविरोधात् स्वाभ्युपगविरोधाच्च सृष्टे: प्रागेकत्वावधारणं नामरूपविभागाभावाभिप्रायं, नामरूपविभागानर्हासूक्ष्मचिदचिद्वस्तुशक्तिभेदसहं चेति सर्वैरभ्युपगम्यते। इयांस्तु विशेष: – अविद्यापरिकल्पनेऽप्युपाधिपरिकल्पनेऽपि ब्रह्मव्यतिरिक्तस्याविद्यासंबन्धिनश्चोपाधिसंबन्धिन: चेतनस्याभावादविद्योपाधिसम्बन्धौ तत्कृताश्च दोषा ब्रह्मण एव भवेयुरिति।
सन्मात्रब्रह्मवादेऽपि प्राक्सृष्टेस्सन्मात्रं ब्रह्मैकमेव सृष्ट्युत्तरकालं भोक्तृभोग्यनियन्तृरूपेण त्रिधाभूतं चेत्, घटशरावमणिकवज्जीवेश्वरयोरुत्पत्तिमत्त्वमनित्यत्वं च स्यात्। अथैकत्वापत्ति-वेलायामपि भोक्तृभोग्यनियन्तृशक्तित्रयमवस्थितमिति चेत्, किमिदं शक्तित्रयशब्दवाच्यमिति विवेचनीयम्। यदि सन्मात्रस्यैकस्यैव भोक्तृभोग्यनियन्तृरूपेण परिणामसामर्थ्यं शक्तित्रय-शब्दवाच्यम्, एवं तर्हि मृत्पिण्डस्य घटशरावादिपरिणामसमर्थस्य तदुत्पादकत्वमिव ब्रह्मण ईश्वरादीनामुत्पादकत्वमिति तेषामनित्यत्वमेव। अथेश्वरादीनां सूक्ष्मरूपेणावस्थितिरेव शक्तिरित्युच्येत, तर्हि तदतिरिक्तस्य सन्मात्रस्य ब्रह्मण: प्रमाणाभावात्तदभ्युपगमे च तदुत्पाद्यतयेश्वरादीनामनित्यत्वप्रसङ्गाच्च त्रयाणां नामरूपविभागानर्ह- सूक्ष्मदशापत्तिरेव प्राक्सृष्टेरेकत्वावधारणावसेयेति वक्तव्यम्। न तदा तेषां ब्रह्मात्मकत्वावधारणं विरुध्यते। अतस्सर्वावस्थावस्थितस्य चिदचिद्वस्तुन: ब्रह्मशरीरत्वश्रुतेस्सर्वदा सर्वशब्दैर्ब्रह्मैव तत्तच्छरीरकतया तत्तद्विशिष्टमेवाभिधीयत इति स्थूलचिदचिद्वस्तुविशिष्टं ब्रह्मैव कार्यभूतं जगत्, नामरूपविभागानर्हसूक्ष्मचिदचिद्वस्तुविशिष्टं ब्रह्मकारणमिति तदेव मृत्पिण्डस्थानीयम्, सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् इत्युच्यते, तदेव विभक्तनामरूपचिदचिद्वस्तुविशिष्टं ब्रह्म कार्यमिति सर्वं समञ्जसम्। श्रुतिन्यायविरोधस्तु तेषां भाष्ये प्रपञ्चित इति नेह प्रतन्यते। भाष्योदित: अधिकरणार्थ: ससूत्रार्थविवरण: सुखग्रहणाय संक्षेपेणोपन्यस्यते।
शारीरकाध्यायपादार्थसंग्रह:
तत्र प्रथमे पादे प्रधानपुरुषावेव जगत्कारणतया वेदान्ता: प्रतिपादयन्तीत्याशङ्क्य सर्वज्ञं सत्यसङ्कल्पं निरवद्यं समस्तकल्याणगुणाकरं ब्रह्मैव जगत्कारणतया प्रतिपादयन्तीत्युक्तम्। द्वितीयतृतीयचतुर्थपादेषु कानिचिद्वेदान्तवाक्यानि प्रधानादिप्रतिपादनपराणीति तन्मुखेन सर्वाक्षेपमाशङ्क्य तान्यपि ब्रह्मपराणीत्युक्तम्। तत्रास्पष्टजीवादिलिङ्गकानि वाक्यानि द्वितीये निरूपितानि, स्पष्टलिङ्गकानि तृतीये। चतुर्थे तु प्रधानादिप्रतिपादनच्छायानुसारीणीति विशेष:। अत: प्रथमेऽध्याये सर्वं वेदान्तवाक्यजातं सार्वज्ञ्यसत्यसङ्कल्पत्वादियुक्तं ब्रह्मैव जगत्कारणतया प्रतिपादयतीति स्थापितम्। द्वितीयेऽध्याये तस्यार्थस्य दुर्धर्षणत्वप्रतिपादनेन द्रढिमोच्यते। तत्र प्रथमे पादे साङ्ख्यादिस्मृतिविरोधान्न्यायविरोधाच्च प्रसक्तो दोष: परिहृत:। द्वितीये तु साङ्ख्यादिवेदबाह्यपक्षप्रतिक्षेपमुखेन तस्यैवादरणीयता स्थिरीकृता। तृतीयचतुर्थयोः वेदान्तवाक्यानामन्योन्यविप्रतिषेधादिदोषगन्धाभावख्यापनाय वियदादीनां ब्रह्मकार्यताप्रकारो विशोध्यते। तत्र तृतीये पादे च चिदचित्प्रपञ्चस्य ब्रह्मकार्यत्वे सत्यप्यचिदंशस्य स्वरूपान्यथाभावेन कार्यत्वं, चिदंशस्य स्वभावान्यथाभावेन ज्ञानसङ्कोचविकासरूपेण कार्यतोदिता। चतुर्थे तु जीवोपकरणानामिन्द्रियादीनामुत्पत्तिप्रकार: इति प्रथमेनाध्यायद्वयेन मुमुक्षुभिरुपास्यं निरस्तनिखिलदोषगन्धमनवधिकातिशयासङ्ख्येयकल्याणगुणगणं निखिलजगदेककारणं ब्रह्मेति प्रतिपादितम्। उत्तरेण द्वयेन ब्रह्मोपासनप्रकारस्तत्फलभूतमोक्षस्वरूपं च चिन्त्यते। तत्र तृतीयस्य प्रथमे पादे ब्रह्मोपासिसिषोत्पत्तये जीवस्य संसरतो दोषा: कीर्तिता:। द्वितीये चोपासिसिषोत्पत्तय एव ब्रह्मणो निरस्तनिखिलदोषताकल्याण-गुणाकरतारूपोभयलिङ्गता प्रतिपाद्यते। तृतीये तु ब्रह्मोपासनैकत्वनानात्वविचारपूर्वकमुपासनेषु उपसंहार्यानुपसंहार्यगुणविशेषा: प्रपञ्चिता:। चतुर्थे तु उपासनस्य वर्णाश्रमधर्मेतिकर्तव्यताकत्वमुक्तम्। चतुर्थेऽध्याये ब्रह्मोपासनफलचिन्ता क्रियते। तत्र प्रथमे पादे ब्रह्मोपासनफलं वक्तुमुपासनस्वरूप पूर्वकोपासनानुष्ठानप्रकारो विद्यामाहात्म्यं चोच्यते। द्वितीये तु ब्रह्मोपासीनानां ब्रह्मप्राप्तिगत्युपक्रमप्रकार: चिन्तित:। तृतीये त्वर्चिरादिगतिस्वरूपमर्चिरादिनैव ब्रह्मप्राप्तिरिति च प्रतिपाद्यते। चतुर्थे तु मुक्तस्य ब्रह्मानुभवप्रकारश्चिन्त्यते। अतो मुमुक्षुभिर्ज्ञातव्यं निरस्तनिखिलदोषगन्ध-मनवधिकातिशयासङ्ख्येयकल्याणगुणगणाकरं निखिलजगदेककारणं परं ब्रह्म, तज्ज्ञानं च मोक्षसाधनमसकृदावृत्तस्मृति सन्तानरूपमुपासनात्मकम्, उपासनफलं चार्चिरादिना परं ब्रह्मोपसंपद्य स्वस्वरूपभूतज्ञानादिगुणाविर्भाव- पूर्वकानन्तमहाविभूत्यनवधिकातिशयानन्द ब्रह्मानुभवोऽपुनरावृत्तिरूप इति शारीरकशास्त्रेणोक्तं भवति।
१।१।१
१। ओम् अथातो ब्रह्मजिज्ञासा – ब्रह्ममीमांसाविषय:। सा किमारम्भणीया, उत अनारम्भणीयेति संशय:। तदर्थं परीक्ष्यते – वेदान्ता: किं ब्रह्मणि प्रमाणम्, उत नेति। तदर्थं परिनिष्पन्नेऽर्थे शब्दस्य बोधनसामर्थ्यावधारणं संभवति, नेति। न संभवति इति पूर्वपक्ष:। संभवतीति राद्धान्त:। यदा न संभवति, तदा परिनिष्पन्नेऽर्थे शब्दस्य बोधनसामर्थ्याभावात्सिद्धरूपे ब्रह्मणि न वेदान्ता: प्रमाणम् इति तद्विचाराकारा ब्रह्ममीमांसा नारम्भणीया। यदा संभवति, तदा सिद्ध्येऽप्यर्थे शब्दस्य बोधनसामर्थ्यसंभवाद्वेदान्ता: ब्रह्मणि प्रमाणमिति सा चारम्भणीया स्यात्। अत्र पूर्वपक्षवादी मन्यते – वृद्धव्यवहारादन्यत्र व्युत्पत्त्यसंभवात् व्यवहारस्य च कार्यबुद्धिपूर्वकत्वेन कार्य एवार्थे शब्दशक्त्वधारणात्परिनिष्पन्नेऽर्थे ब्रह्मणि न वेदान्ता: प्रमाणमिति तद्विचाररूपा ब्रह्ममीमांसा नारम्भणीयेति। सिद्धान्तस्तु – बालानां मातापितृप्रभृतिभिः अम्बातातमातुलशिशुपशु-पक्षिमृगादिषु अङ्गुल्या निर्दिश्य तत्तदभिधायिनश्शब्दान्प्रयुञ्जानै: क्रमेण बहुशश्शिक्षितानां तत्तच्छब्दश्रवणसमनन्तरं स्वात्मनामेव तदर्थबुद्ध्युत्पत्तिदर्शनात्, शब्दार्थयो: सम्बन्धान्तरादर्शनात् सङ्केतयितृपुरुषाज्ञानाच्च बोध्यबोधकभाव एव शब्दार्थयोस्संबन्ध इति निश्चिन्वानानां परिनिष्पन्नेऽर्थे शब्दस्य बोधकत्वावधारणं संभवतीति ब्रह्मणि वेदान्तवाक्यानां प्रामाण्यात्तदर्थ-विचाराकारा ब्रह्ममीमांसा आरम्भणीयेति। सूत्रार्थस्तु – अथातो ब्रह्मजिज्ञासा – अथ इत्यानन्तर्ये। अत इति च वृत्तस्य हेतुभावे। ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा, ज्ञातुमिच्छा जिज्ञासा। इच्छाया: इष्यमाणप्रधानत्वादिष्यमाणं ज्ञानमिहाभिप्रेतम्। पूर्ववृत्तादल्पास्थिरफलकेवल कर्माधिगमादनन्तरं तत एव हेतोरनन्तस्थिरफलब्रह्माधिगम: कर्तव्य:॥१॥ इति जिज्ञासाधिकरणम् ॥ १ ॥
१।१।२
२। जन्माद्यस्य यत: – तैत्तरीयके, यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्म इत्येतद्वाक्यं विषय:। किमेतज्जिज्ञास्यतया प्रतिज्ञातं ब्रह्म जगज्जन्मादिकारणतया लक्षणत: प्रतिपादयितुं शक्नोति, न वेति संशय:। न शक्नोतीति पूर्वपक्ष: । कुत:? जगज्जन्मादीनामुपलक्षणतया विशेषणतया वा ब्रह्मलक्षणत्वासंभवात्। उपलक्षणत्वे ह्युपलक्ष्यस्याकारान्तरयोगोऽपेक्षित:। न चेह तदस्ति। अत: उपलक्षणत्वं न संभवति। विशेषणत्वेऽप्यनेकविशेषणविशिष्टतयाऽपूर्वस्यैकस्य प्रतिपादकत्वं न संभवति, विशेषणानां व्यावर्तकत्वेन विशेषणबहुत्वे ब्रह्मबहुत्वप्रसक्ते:। राद्धान्तस्तु – एकस्मिन्नविरुद्धानां विशेषणानां अनेकत्वेऽपि श्यामत्वयुवत्वादिविशिष्ट-देवदत्तवज्जगज्जन्मादिविशिष्टं ब्रह्मैकमेव विशेष्यं भवति। उपलक्षणत्वे जन्मादिभिरुपलक्ष्यस्य ब्रह्मशब्दावगतबृहत्त्वाद्याकाराश्च सन्तीति जगज्जन्मादि-कारणं ब्रह्मेति लक्षणत: प्रतिपादयितुं शक्नोतीति। सूत्रार्थ: – अस्य विविधविचित्रभोक्तृभोग्यपूर्णस्य जगत: यतो जन्मादि, तद्ब्रह्मेति प्रतिपादयितुं शक्नोत्येतद्वाक्यमिति॥२॥ इति जन्माद्यधिकरणम् ॥ २ ॥
१।१।३
३। शास्त्रयोनित्वात् – यतो वा इमानि इत्यादि वाक्यमेव विषय:। तत्किं जगत्कारणे ब्रह्मणि प्रमाणम् ? उत नेति संशय:। नैतत्प्रमाणमिति पूर्वपक्ष:, अनुमानसिद्धब्रह्मविषयत्वात्। प्रमाणान्तराविषये हि शास्त्रं प्रमाणम्। जगतस्सावयवत्वेन कार्यत्वात्। कार्यस्य स्वोपादानोपकरणसंप्रदान-प्रयोजनाद्यभिज्ञकर्तृकत्वात्, जगन्निर्माणकार्यचतुर: कर्मपरवशपरिमित-शक्त्यादिक्षेत्रज्ञविलक्षणस्सर्वज्ञ: सर्वशक्तस्सर्वेश्वर: अनुमानसिद्ध इति तस्मिन् यतो वा इमानि भूतानि इत्यादिवाक्यं प्रमाणमिति। राद्धान्तस्तु – जगत: कार्यत्वेऽप्येकदैवैकेनैव कृत्स्नं जगत् निर्मितमित्यत्र प्रमाणाभावात्; क्षेत्रज्ञानामेव विलक्षणपुण्यानां ज्ञानशक्तिवैचित्र्यसंभावनया कदाचित्कस्यचिज्जगदेकदेशनिर्माणसामर्थ्यसंभवात्तदतिरिक्त पुरुषानुमानं न संभवतीति शास्त्रैकप्रमाणकत्वात् ब्रह्मणस्तत्प्रतिपादकत्वेन तस्मिन्, यतो वा इमानि भूतानि इत्यादिवाक्यं प्रमाणमिति। शास्त्रं योनि: यस्य कारणं, प्रमाणम् तद्ब्रह्म शास्त्रयोनि; प्रमाणान्तराविषयत्वेन शास्त्रैकप्रमाणकत्वाद्ब्रह्मण: तस्मिन्, यतो वा इमानि इत्यादि वाक्यं प्रमाणमिति सूत्रार्थ:॥३॥ इति शास्त्रयोनित्वाधिकरणम् ॥ ३ ॥
१।१।४
४। तत्तु समन्वयात् – ब्रह्मणश्शास्त्रप्रमाणकत्वं संभवति, नेति विचार्यते। न संभवतीति पूर्व: पक्ष:। कुत:? प्रवृत्तिनिवृत्त्यन्वयविरहिणो ब्रह्मण: स्वरूपेणा पुरुषार्थत्वात्, पुरुषार्थावबोधकत्वेन च शास्त्रस्य प्रामाण्यात्, मोक्षसाधनब्रह्मध्यानविधिपरत्वेऽपि असत्यपि ब्रह्मणि तद्ध्यानविधान-संभवात्, न ब्रह्मसद्भावे तात्पर्यमिति ब्रह्मण: शास्त्रप्रमाणकत्वं न संभवति। राद्धान्तस्तु अतिशयितगुणपितृ पुत्रादिजीवनज्ञानवदनवधिकातिशयानन्दस्वरूपब्रह्मज्ञानस्य निरतिशय-पुरुषार्थत्वात् तस्य शास्त्रप्रमाणकत्वं संभवति, आनन्दो ब्रह्म,यदेष आकाश आनन्दो न स्यात्, यतो वाचो निवर्तन्ते अप्राप्य मनसा सह, आनन्दं ब्रह्मणो विद्वान् इत्यादिभिरनवधिकातिशयानन्द-स्वरूपं ब्रह्मेति हि प्रतिपाद्यते। अतो ब्रह्म स्वेन परेण वाऽप्यनुभूयमानं निरतिशयानन्द-स्वरूपमेवेति तत्प्रतिपादनपरस्यैव साक्षात्पुरुषार्थान्वय:। प्रवृत्तिनिवृत्ति परस्य तु तत्साध्यफल-संबन्धात् पुरुषार्थान्वय इति। सूत्रार्थ: – तु शब्द: प्रसक्ताशङ्कानिवृत्त्यर्थ:। तत् – पूर्वसूत्रोदितं ब्रह्मण: शास्त्रयोनित्वं समन्वयात्, सिद्ध्यति। सम्यक् पुरुषार्थतया अन्वय: समन्वय:। वेदितुर्निरतिशयानन्दस्वरूपत्वेन परमपुरुषार्थरूपे परे ब्रह्मणि वेदकतया शास्त्रस्यान्वयाद्ब्रह्मण: शास्त्रप्रमाणकत्वं सिद्ध्यत्येवेति॥४॥ इति समन्वयाधिकरणम् ॥४॥
१।१।५
५। ईक्षतेर्नाशब्दम् – येनाश्रुतं श्रुतं भवति इत्यादिजगत्कारणवादिवेदान्तवेद्यं विषय:। तत् किं साङ्ख्योक्तं प्रधानम्, उत अनवतिकातिशयानन्दं ब्रह्मेति संशय:। प्रधानमिति पूर्वपक्ष:। कुत:? प्रतिज्ञादृष्टान्तान्वयेनानुमानाकारवाक्यवेद्यत्वात्। येनाश्रुतं श्रुतं भवति इत्यादिना एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय, यथा सोम्यैकेन मृत्पिण्डेन इति दृष्टान्तेन ह्युपपाद्यते। एवमानुमानिकमेव एतद्वाक्यवेद्यमिति निश्चीयते। सदेव सोम्येदम् इति सच्छब्द: प्रधानविषय:। तदैक्षत बहु स्याम् इति च गौणमीक्षणं भवितुमर्हाति; तत्तेज ऐक्षत इत्यादिगौणेक्षणसाहचर्याच्च। राद्धान्तस्तु – तदैक्षत बहु स्याम् इति बहुभवनसङ्कल्परूपेक्षणान्वयात्, सदेव सोम्य इति कारणवाचिसच्छब्दविषयो नाचेतनं प्रधानम्, अपि तु सार्वज्ञ्यसत्यसङ्कल्पादियुक्तं परब्रह्मैवेति निश्चीयते। न चानुमानाकारमेतद्वाक्यम्, हेत्वनुपादानात्। अन्यज्ञानेनान्यज्ञानासंभवपरिजिहीर्षया तु दृष्टान्तोपपादानम्। न च मुख्येक्षणसंभवे गौणपरिग्रहसम्भव:। तेज: प्रभृतिशरीरकस्यान्तर्यामिणो वाचकत्वादिति परमेव ब्रह्म जगत्कारणवादिवेदान्तवेद्यम् – इति । सूत्रार्थश्च – ईक्षतेरिति ईक्षतिधात्वर्थ: ईक्षणम् । शब्द: प्रमाणं यस्य न भवति तदशब्दं – परोक्तमानुमानिकं प्रधानम् । सदेव सोम्येदम् इति जगत्कारणतया प्रतिपादितान्वयिन: ईक्षणव्यापारान्नाचेतनमशब्दं तत्, अपि तु सर्वज्ञं सत्यसङ्कल्पं ब्रह्मैव जगत्कारणमिति निश्चीयते – इति ॥५॥
६। गौणश्चेन्नात्मशब्दात् – तत्तेज ऐक्षत इत्यचेतनगतगौणेक्षणसाहचर्यात्, तदैक्षत इत्यत्र ईक्षतिर्गौण इति चेन्न, आत्मशब्दात्। सच्छब्दाभिहिते ईक्षितरि, ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा इति श्रूयमाणाच्चेतनवाचिन: आत्मशब्दादयमीक्षतिर्मुख्य एवेति प्रतीयते। ऐतदात्म्यमिदं सर्वं इति तेज:प्रभृतीनामपि तदात्मकत्वावगमात् तेज: प्रभृतीक्षणमपि मुख्यमेवेत्यभिप्राय: ॥६॥
७। तन्निष्ठस्य मोक्षोपदेशात् – इतश्च सच्छब्दाभिहितं न प्रधानम्, अपि तु परमेव ब्रह्म। तत्त्वमसि इति सदात्मकतया प्रत्यगात्मानुसन्धाननिष्ठस्य, तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्य इति मोक्षोपदेशात् तत्कारणं परमेव ब्रह्म। ।७॥
८। हेयत्वावचनाच्च – यदि प्रधानमिह कारणतया विवक्षितम्, तदा तस्य मोक्षविरोधित्वाद्धेयत्वमुच्येत। न चोच्यते। अतश्च न प्रधानम्। ।८॥
९ । प्रतिज्ञाविरोधात् – प्रधानवादे प्रतिज्ञा च विरुध्यते, येनाश्रुतं श्रुतम् इति वक्ष्यमाणकारणविज्ञानेन चेतनाचेतनमिश्रकृत्स्नप्रपञ्चज्ञानं हि प्रतिज्ञातम्। चेतनांशं प्रति प्रधानस्याकारणत्वात्, तज्ज्ञानेन चेतनांशो न ज्ञायत इति न प्रधानं कारणम्॥९॥
१०। स्वाप्ययात् – स्वमपीतो भवति। सता सोम्य तदा संपन्नो भवति इति जीवस्य सुषुप्तस्य स्वाप्ययश्श्रूयते। स्वकारणे ह्यप्यय: स्वाप्यय:। जीवं प्रति प्रधानस्याकारणत्वात् स्वाप्ययश्रुतिः विरुध्यते। अतश्च न प्रधानम्; अपि तु ब्रह्मैव॥१०॥
११। गतिसामान्यात् – इतरोपनिषद्गतिसामान्यादस्यां चोपनिषदि न प्रधानं कारणं विवक्षितम्। इतरासु चोपनिषत्सु, यस्सर्वज्ञ स्सर्ववित्। तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते, पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च, स कारणं करणाधिपाधिप:, आत्मनि खल्वरे विदिते सर्वमिदं विदितं, तस्य ह वा एतस्य महतो भूतस्य विश्वसितमेतद्यदृग्वेद:, पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम्, तस्माद्विराडजायत, आत्मा वा इदमेक एवाग्र आसीत् । स इमान् लोकनसृजत, तस्माद्वा एतस्मादात्मन आकाशस्संभूत:, एको ह वै नारायण आसीत् । स एकाकी न रमेत इति सर्वज्ञ: पुरुषोत्तम एव कारणतया प्रतिपाद्यते। अस्याश्च तद्गतिसामान्यादत्रापि स एव कारणतया प्रतिपादनमर्हातीति न प्रधानम्॥११॥
१२। श्रुतत्वाश्च – श्रुतमेवास्यामुपनिषदि आत्मत एवेदं सर्वम् इति। अतश्च सदेव सोम्य इत्यादिजगत्कारणवादिवेदान्तवेद्यं न प्रधानं; सर्वज्ञं सत्यसङ्कल्पं परमेव ब्रह्म इति स्थितम्॥१२॥ इति ईक्षत्यधिकरणम् ॥५॥
१।१।६
१३। आनन्दमयोऽभ्यासात् – तैत्तिरीयके — तस्माद्वा एतस्मादात्मन आकाशस्संभूत: इति प्रकृत्य, तस्माद्वा एतस्माद्विज्ञानमयात्। अन्योऽन्तर आत्माऽऽनन्दमय इत्यत्र जगत्कारणतयाऽवगत: आनन्दमय: किं प्रत्यगात्मा, उत परमात्मेति संशय:। प्रत्यगात्मेति पूर्व:पक्ष:। कुत:? तस्यैष एव शारीर आत्मा इत्यानन्दमयस्य शारीरत्व श्रवणात्। शारीरो हि शरीरसंबन्धी। स च प्रत्यगात्मैव। तस्य चेतनत्वेनेक्षापूर्विका सृष्टिरुपपद्यत इति। राद्धान्तस्तु — सैषाऽऽनन्दस्य मीमांसा भवति इत्यारभ्य, यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह, आनन्दं ब्रह्मणो विद्वान् इति निरतिशयदशाशिरस्कोऽभ्यस्यमान आनन्द: प्रत्यगात्मनोऽर्थान्तरभूतस्य परस्यैव ब्रह्मण इति निश्चीयते। शारीरात्मत्वं च परमात्मन एव, तस्माद्वा एतस्मादात्मन आकाशस्संभूत: इत्याकाशादिजगत्कारणतयाऽवगत एवान्नमयस्य शारीर आत्मेति प्रतीयते, आत्मान्तरानिर्देशात्। श्रुत्यन्तरेषु पृथिव्यक्षरादीनां शरीरत्वं, परमात्मन आत्मत्वं च श्रूयते यस्य पृथिवी शरीरम् इत्यारभ्य, एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण इति। अन्नमयस्यात्मैव प्राणमयादिषु, तस्यैष एव शारीर आत्मा य: पूर्वस्य इत्यनुकृष्यत इति प्रत्यगात्मनो विज्ञानमयस्य च स एव शारीर आत्मा। आनन्दमये तु, तस्यैष एव शारीर आत्मा य: पूर्वस्य इति निर्देश: आनन्दमयस्यानन्यात्मत्वप्रदर्शनार्थ:। अतो जगत्कारणतया निर्दिष्टं आनन्दमय: परमात्मैवेति। सूत्रार्थस्तु आनन्दमयशब्दनिर्दिष्ट: आकाशादिजगत्कारणभूत: प्रत्यगात्मनोऽर्थान्तरभूत: परमात्मा। कुत:? तस्यानन्दस्य निरतिशयप्रतीतिबलात्। स एको मानुष आनन्द:। ते ये शतम् इत्याद्यभ्यासात्, तस्य च प्रत्यगात्मन्यसंभावितस्य तदतिरिक्ते परमात्मन्येव संभवात्॥१३॥
१४। विकारशब्दान्नेति चेन्न प्राचुर्यात् – आनन्दमय: इति विकारार्थान्मयट्छब्दान्नायमविकृत: परमात्मा। अस्य च विकारार्थत्वमेव युक्तम्, अन्नमय: इति विकारोपक्रमादिति चेन्न, प्रत्यगात्मनोऽपि, न जायते म्रियते वा इत्यादि विकारप्रतिषेधात्प्राचुर्यार्थ एवायं मयडिति निश्चयात्। अस्मिंश्चानन्दे, यतो वाचो निवर्तन्ते इत्यादि वक्ष्यमाणात्प्राचुर्यादयमानन्दप्रचुर: परमात्मैव। न ह्यनवधिकातिशयरूप: प्रभूतानन्द: प्रत्यगात्मनि संभवति॥१४॥
१५। तद्धेतुव्यपदेशाच्च – एष ह्येवाऽऽनन्दयाति इति जीवान् प्रति आनन्दयितृत्वव्यपदेशादयं परमात्मैव॥१५॥
१६। मान्त्रवर्णिकमेव च गीयते – सत्यं ज्ञानमनन्तं ब्रह्म इति मन्त्रवर्णोदितं ब्रह्मैव, तस्माद्वा एतस्मादात्मन इत्यारभ्य, आनन्दमय: इति च गीयते। ततश्चाऽऽनन्दमयो ब्रह्म॥१६॥
प्रत्यगात्मन: परिशुद्धं स्वरूपं मन्त्रवर्णोदितमित्याशङ्क्याह –
१७। नेतरोऽनुपपत्ते: – परस्माद्ब्रह्मण: इतर: प्रत्यगात्मा न मन्त्रवर्णोदित:, तस्य, विपश्चिता ब्रह्मणा इति विपश्चित्त्वानुपपत्ते:। विविधं पश्यच्चित्त्वं हि विपश्चित्त्वम्। तच्च, सोऽकामयत बहु स्यां प्रजायेय इत्यादिवाक्योदित निरुपाधिक बहुभवनसङ्कल्परूपं सर्वज्ञत्वम्। तत्तु प्रत्यगात्मन: परिशुद्धस्यापि न संभवति, जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च इति वक्ष्यमाणत्वात्। अत: परं ब्रह्मैव मान्त्रवर्णिकम्
॥१७॥
१८। भेदव्यपदेशाश्च – भीषाऽस्माद्वात: पवते इत्यादिना अग्निवायुसूर्यादिजीववर्गस्य आनन्दमयात्प्रशासितु: प्रशासितव्यत्वेन भेदो व्यपदिश्यते। अतश्चानन्दमय: परमात्मेति। योजनान्तरम् – तस्माद्वा एतस्माद्विज्ञानमयात्। अन्योऽन्तर आत्माऽऽनन्दमय इति विज्ञानमयाज्जीवादानन्दमयस्य भेदो व्यपदिश्यति। विज्ञानमयो हि जीव एव न बुद्धिमात्रम्, मयट्च्छ्रुते:। अतश्चानन्दमय: परमात्मा॥१८॥
१९। कामाच्च नानुमानापेक्षा – सोऽकामयत इत्यारभ्य, इदं सर्वमसृजत इति कामादेव जगत्सर्गश्रवणात् अस्यऽऽनन्दमयस्य जगत्सर्गे नानुमानगम्यप्रकृत्यपेक्षा प्रतीयते। प्रत्यगात्मनो यस्य कस्यचिदपि सर्गे प्रकृत्यपेक्षास्ति। अतश्चायं प्रत्यगात्मनोऽन्य: परमात्मा। ।१९॥
२०। अस्मिन्नस्य च तद्योगं शास्ति – रसो वै स:। रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति इति अस्मिन् – आनन्दमये रसशब्दनिर्दिष्टे, अस्य अयंशब्दनिर्दिष्टस्य, जीवस्य,तल्लाभादानन्दयोगं शास्ति शास्त्रम्। प्रत्यगात्मनो यल्लाभादानन्दयोग:,स तस्मादन्य: परमात्मैवेत्यानन्दमय: परं ब्रह्म॥२०॥ इति आनन्दमयाधिकरणम् ॥६॥
१।१।७
२१। अन्तस्तद्धर्मोपदेशात् – छान्दोग्ये य एषोऽन्तरादित्ये हिरण्मय: पुरुषो दृश्यते, य एषोऽन्तरक्षिणि पुरुषो दृश्यते इत्यक्ष्यादित्याधारतया श्रूयमाण: पुरुष: किं जीवविशेष:, उत परमपुरुष इति संशय:। जीवविशेष इति पूर्वपक्ष:। कुत:? सशरीरत्वात्। शरीरसंयोगो हि कर्मवश्यस्य जीवस्य स्वकर्मफलभोगायेति। राद्धान्तस्तु – स एष सर्वेभ्य: पाप्मभ्य: उदित: इत्यादिना अपहतपाप्मत्व-पूर्वकसर्वलोककामेशत्वोपदेशात्, तेषां च जीवेष्वसंभवात्, अयमक्ष्यादित्याधार: पुरुषोत्तम एव। स्वासाधारणविलक्षणरूपवत्त्वं च ज्ञानबलैश्वर्यादिकल्याणगुणवत्तस्य संभवति। श्रूयते च तद्रूपस्य अप्राकृतत्वम्। आदित्यवर्णं तमसस्तु पारे इत्यादौ। सूत्रार्थस्तु – आदित्याद्यन्तश्श्रूयमाण: पुरुष: परं ब्रह्म। तदसाधारणापहतपाप्मत्वादि धर्मोपदेशात्॥२१॥
२२। भेदव्यपदेशाच्चान्य: – य आदित्ये तिष्ठन्नादित्यादन्तर:, य आत्मनि तिष्ठन्नात्मनोऽन्तर: इत्यादिभि: जीवात् भेदव्यपदेशाच्चायं जीवादन्य: परमात्मैव॥२२॥ इति अन्तरधिकरणम् ॥७॥
१।१।८
२३। आकाशस्तल्लिङ्गात् – (छान्दोग्ये) – अस्य लोकस्य का गतिः इत्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तंयन्ति इत्यत्र आकाशशब्द-निर्दिष्टं जगत्कारणं किं प्रसिद्धाकाश: उत समस्तचिदचिद्वस्तुविलक्षणं ब्रह्मेति संशय:। प्रसिद्धाकाश: इति पूर्वपक्ष:। कुत:? आकाशशब्दस्य लोके तत्रैव व्युत्पत्ते:, यतो वा इमानि भूतानि इत्यादि सामान्यलक्षणस्य सदादिशब्दानामपि साधारणत्वेन, आकाशदेव समुत्पद्यन्ते, इति विशेषे पर्यवसानात्। ईक्षा(क्षणादयोऽप्याकाश एव जगत्कारणमिति निश्चिते सति गौणा वर्णनीया इति। राद्धान्तस्तु – सर्वाणि ह वा इमानि भूतानि इति प्रसिद्धवन्निर्देशात्, प्रसिद्धेश्चेक्षापूर्वकत्वात् चिदचिद्वस्तुविलक्षणं सर्वज्ञं ब्रह्माकाशशब्दनिर्दिष्टमिति। सूत्रार्थस्तु – आकाशशब्दनिर्दिष्टं परमेव ब्रह्म, प्रसिद्धवन्निर्दिश्यमानात् जगत्कारणत्वादिलिङ्गात्॥२३॥ इति आकाशाधिकरण्म् ॥८॥
१।१।९
२४। अत एव प्राण: – छान्दोग्ये — प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता इति प्रस्तुत्य, कतमा सा देवतेति। प्राण इति होवाच, सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति; प्राणमभ्युज्जिहते, सैषा देवता प्रस्तावमन्वायत्ता इत्यत्र निखिलजगत्कारणतया प्राणशब्दनिर्दिष्ट: किं प्रसिद्ध: प्राण:, उतोक्तलक्षणं ब्रह्मेति संशय:। प्रसिद्धप्राण इति पूर्वपक्ष:। कुत:? सर्वस्य जगत: प्राणायत्तस्थितिदर्शनात्, स एव निखिलजगदेककारणतया निर्देशमर्हातीति। राद्धान्तस्तु – शिलाकाष्टादिषु अचेतनेषु चेतनस्वरूपेषु च प्राणायत्तस्थित्यभावत् , सर्वाणि ह वा इमानि भूतानि इति प्रसिद्धवन्निर्देशादेव हेतो: प्राणशब्दनिर्दिष्टं परमेव ब्रह्म। सूत्रमपि व्याख्यातम्॥२४॥ इति प्राणाधिकरणम्॥९॥
१।१।१०
२५। ज्योतिश्चरणाभिधानात् – छान्दोग्ये अथ यदत: परो दिवो ज्योतिर्दीप्यते विश्वत: पृष्टेषु सर्वत: पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषु इदं वा व तद्यदिदमस्मिन्नन्त: पुरुषे ज्योति: इत्यत्र जगत्कारणत्वव्याप्तनिरतिशयदीप्तियुक्ततया ज्योतिश्शब्दनिर्दिष्टं किं प्रसिद्धादित्यादिज्योति:, उत परमेव ब्रह्मेति संशय:। प्रसिद्धज्योतिरिति पूर्वपक्ष:। कुत:? इदं वाव तद्यदिदमस्मिन्नन्त: पुरुषे ज्योति: इति कौक्षेयज्योतिषा प्रसिद्धेनैक्यावगमात्, स्ववाक्ये तदतिरिक्तपरब्रह्मासाधारणलिङ्गादर्शनाच्च। राद्धान्तस्तु – प्रसिद्धज्योतिषोऽन्यदेव परं ब्रह्मेह निरतिशयदीप्तियुक्तं ज्योतिश्शब्दनिर्दिष्टम्। कुत:? पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि इति पूर्ववाक्ये द्युसंबन्धितया निर्दिष्टस्यैव चतुष्पदो ब्रह्मण:, अथ यदत: परो दिवो ज्योति: इत्यत्र प्रत्यभिज्ञानात्। तच्च परमेव ब्रह्मेति विज्ञातम्, सर्वेषां भूतानां तस्य पादत्वेन व्यपदेशात्। एवं परब्रह्मत्वे निश्चिते कौक्षेयज्योतिष: तदात्मकत्वानुसन्धानं फलयोपदिश्यत इति ज्ञायते। सूत्रार्थस्तु – ज्योतिश्शब्दनिर्दिष्टं परं ब्रह्म, अस्य ज्योतिष: पूर्ववाक्ये सर्वभूतचरणत्वाभिधानात्। सर्वभूतपादत्वं च परस्यैव ब्रह्मण उपपद्यते॥२५॥
२६। छन्दोऽभिधान्नान्नेति चेन्न तथा चेतोऽर्पणनिगमात्तथाहि दर्शनम् – गायत्री वा इदं सर्वम् इति गायत्र्याख्यच्छन्दस: प्रकृतत्वात्सर्वभूतपादत्वेन गायत्र्या एवाभिधानान्न ब्रह्मेति चेत्, नैतत्। तथा चेतोऽर्पणनिगमात् – गायत्री यथा भवति तथा ब्रह्मणि चेतोऽर्पणोपदेशात्। गायत्रीसादृश्यं चतुष्पात्त्वं ब्रह्मण्यनुसंधेयमित्युपदिश्यते। गायत्र्यास्सर्वात्मकत्वानुपपत्तेरित्यर्थ:। तथा हि दर्शनं तथा ह्यन्यत्रापि(प्य)छन्दस एव सादृश्याच्छन्दश्शब्देनाभिधानं दृश्यते ते वा एते पञ्चान्ये पञ्चान्ये दश संपद्यन्त इत्यारभ्य सैषा विराडन्नात् इति॥२६॥
२७। भूतादिपादव्यपदेशोपपत्तैश्चैवम् – भूतपृथिवीशरीरहृदयानि निर्दिश्य सैषा चतुष्पदा इति भूतादीनां पादत्वव्यपदेशो ब्रह्मण्येवोपपद्यत इति ब्रह्मैव गायत्रीशब्दनिर्दिष्टमिति गम्यते॥२७॥
२८। उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् – पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि इति पूर्ववाक्योदितं परं ब्रह्मैवास्तु; तथापि अथ यदत: परो दिवो ज्योति: इति द्युसंबन्धमात्रेण नेह तत्प्रत्यभिज्ञायते; तत्र चात्र च व्य(उ)पदेशप्रकारभेदात्; तत्र हि दिवि इति द्या: सप्तम्या निर्दिश्यते, इह च दिव: परो ज्योति: इति पञ्चम्या, ततो न प्रतिसन्धानमिति चेन्न, उभयस्मिन्नपि व्यपदेश उपरिस्थितिरूपार्थैक्येन प्रतिसंधानाविरोधात्। यथा वृक्षाग्रे श्येन:, वृक्षाग्रात्परत: श्येन इति॥२८॥ इति ज्योतिरधिकरणम् ॥१०॥
१।१।११
२९। – प्राणस्तथानुगमात् – कौषीतकीब्राह्मणे प्रतर्दनविद्यायाम् त्वमेव वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे इति प्रतर्देनोक्त इन्द्र: प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व इत्याह। अत्र हिततमोपासनकर्मतया निर्दिष्ट इन्द्रप्राणशब्दाभिधेय: किं जीव:। उत परमात्मेति संशय:। जीव इति पूर्व: पक्ष: कुत:? इन्द्रशब्दस्य जीवविशेषे प्रसिद्धे:, प्राणशब्दस्यापि तत्समानाधिकरणस्य स एवार्थ इति तं मामायुरमृतमित्युपास्व इति तस्यैवोपास्यत्वोपदेशादिति। राद्धान्तस्तु – इन्द्रप्राणशब्द निर्दिष्टं जीवादर्थान्तरभूतं परं ब्रह्म स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽमृत इतीन्द्रप्राणशब्द-निर्दिष्टस्यैव जीवेष्वसंभावितानन्दत्वाजरत्वामृतत्व-श्रवणात्। सूत्रार्थस्तु – उपास्यतयोपदिष्टमिन्द्रप्राणशब्दाभिधेयं परं ब्रह्म। तथेति प्रकारवचन: परब्रह्मप्रकारभूतेष्वानन्दादिषु अस्यानुगमात्॥२९॥
३०। न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमाह्यस्मिन् – नायमुपास्य: परमात्मा, मामेव विजानीहि तं मामायुरमृतमित्युपास्व इति प्रज्ञातजीवस्येन्द्रस्य वक्तुस्स्वात्मन उपास्यत्व-उपदेशात्, उपक्रमे जीवभावनिश्चयेसत्युपसंहारस्य तदनुगुणतया नेयत्वादिति चेन्न। अध्यात्मसंबन्धभूमा ह्यस्मिन् आत्मनि संबन्ध: – अध्यात्मसंबन्ध: तस्य भूमा बहुत्वम्। जीवादर्थान्तरभूतात्माऽसाधारणधर्मसंबन्धबहुत्वमस्मिन् प्रकरणे उपक्रमप्रभृत्योपसंहारादुपलभ्यते। उपक्रमे तावत् यं त्वं मनुष्याय हिततमं मन्यसे इति ह्यनेनोच्यमानमुपासनं परमात्मोपासनमेव, तस्यैव हिततमत्वात्। तथा एष एव साधु कर्म कारयति इत्यादि साध्वसाधुकर्मणो: कारयितृत्वं परमात्मान एव धर्म:। तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता: एवमेवैता भूतमात्रा: प्रज्ञामात्रास्वर्पिता: प्रज्ञामात्रा: प्राणेऽर्पिता: इति सर्वाधारत्वं च तस्यैव धर्म:। आनन्दादयश्च। एष लोकाधिपतिरेषसर्वेश इति च। हीति हेतौ । अत: परब्रह्मैवायमित्यर्थ:॥३०॥
परमात्मैवोपास्यश्चेत्कथमिन्द्रो मामुपास्व इत्युपादिदेशेत्यत आह –
३१। शास्त्रदृष्ट्यातूपदेशो वामदेववत् – इन्द्रस्य जीवस्यैव सत: स्वात्मत्वेनोपास्यभूत परमात्मोपदेशोऽयं शास्त्रदृष्ट्या। अन्त: प्रविष्ट: शास्ता जनानां सर्वात्मा। तत्त्वमसि। य आत्मनि तिष्टन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृत:। एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण: इत्यादीनि हि शास्त्राणि परमात्मानं जीवात्मन आत्मतयोपदिदिशु:। अतो जीवात्मवाचिनश्शब्दा: जीवात्मशरीरकं परमात्मानमेव वदन्तीति शास्त्रदृष्टार्थस्य तस्य मामेव विजानीहि। मामुपास्स्व इति स्वात्मशब्देन परमात्मोपदेशोऽयं न विरुद्ध्यते। यथा वामदेव: शास्त्रदृष्ट्या स्वात्मशरीरकं परमात्मानं पश्यन्नहमिति परमात्मानमवोचत् । तद्धैतत्पश्यन्नृषिर्वामदेव: प्रतिपेदे अहं मनुरभवं सूर्य्यश्चाहं कक्षीवानृषिरस्मि विप्र: इति॥३१॥
३२। जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् – त्रिशिर्षाणं त्वाष्ट्रमहनमरुन्मुखान्यतीन्सालावृकेभ्य: प्रायच्छम्। यावद्ध्यस्मिञ्छरीरे प्राणो वसति तावदायुः इति जीवमुख्यप्राणलिङ्गात् नाध्यात्मसंबन्धभूम्ना परमात्मत्वनिश्चय इति चेन्न। परमात्मन एव स्वाकारेण जीवशरीरकत्वेन, प्राणशरीरकत्वेन चोपासात्रैविध्याद्धेतो: तत्तच्छब्देनाभिधानमिति निश्चीयते। अन्यत्रापि ब्रह्मोपासने त्रैविध्यस्याश्रितत्वात् सत्यं ज्ञानमनन्तं ब्रह्म। आनन्दो ब्रह्म इति स्वाकारेणोपास्यत्वं सच्च त्यच्चाभवत् इत्यादिना भोक्तृशरीरकत्वेन भोग्यशरीरकत्वेन च। इह प्रतर्दनविद्यायामपि तस्य त्रैविध्यस्य संभवात्। अत इन्द्रप्राणशब्दनिर्दिष्ट: परमात्मा॥३२॥ इति इन्द्रप्राणाधिकरणम् ॥११॥
इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे प्रथमस्याध्यायस्य प्रथम:पाद: ॥