[highlight_content]

श्रीवेदान्तसार: Ady 01 Pada 03

श्रीभगवद्रामानुजविरचित:

श्रीवेदान्तसार:

अथ प्रथमाध्याये तृतीय: पाद:

१-३-१

६६। द्युभ्वाद्यायतनं स्वशब्दात् – यस्मिन्द्यौ: पृथिवी चान्तरिक्षम् इत्यादौ द्युपृथिव्यादीनामायतनम् – आधार: परमपुरुष:। तमेवैकं जानथात्मानम् इत्यात्मशब्दात्। निरुपाधिकात्मत्वं हि परमपुरुषस्यैव। अमृतस्यैषसेतुरिति तदेव द्रढयति। बहुधा जायमान: इति परत्वं न निवारयति, अजायमानो बहुधा विजायते इति कर्मभिरजायमानस्यैव आश्रितवात्सल्यात् छन्दतो जननं तस्य हि श्रूयते॥१॥

६७। मुक्तोपसृप्यव्यपदेशाच्च –  तदा विद्वान् पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति तथा विद्वान्नामरूपाद्विमुक्त: परात्परं पुरुषमुपैति दिव्यम् इति च पुण्यपापविनिर्मुक्तानां प्राप्यतया व्यपदेशाच्चायं पर:॥२॥

६८। नानुमानमतच्छब्दात्प्राणभृच्च – यथा न प्रधानमतच्छब्दात्, तथा न प्राणभृदपीत्यर्थ:॥३॥

६९।  भेदव्यपदेशात् – अनीशया शोचति मुह्यमान:, जुष्टं यदा पश्यत्यन्यमीशम् इत्यादिना प्रत्यगात्मनो भेदेन व्यपदेशाच्चायं पर:॥४॥

७०। प्रकरणात् – अथ परा यया तदक्षरमधिगम्यते इत्यादि परस्य हीदं प्रकरणम्॥५॥

७१। स्थित्यदनाभ्यां च – तयोरन्य: पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति इति जीवस्य कर्मफलादनमभिधाय अनश्नतो दीप्यमानस्य स्थित्यभिधानाच्चायं परमात्मा॥६॥ इति द्युभ्वाद्यधिकरणम् ॥ १ ॥

१-३-२

७२। भूमा संप्रसादादध्युपदेशात् – सुखं त्वेव विजिज्ञासितव्यम्, भूमैव सुखम् इत्युक्त्वा भूम्नस्स्वरूपमाह यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा इति। यस्मिन् सुखेऽनुभूयमाने, तद्व्यतिरिक्तं किमपि सुखत्वेन न पश्यति न शृणोति न विजानाति स भूमेत्युच्यते, अथ यत्रान्यत्पश्यति अन्यच्छृणोति अन्यद्विजानाति तदल्पम् इति वचनात्। तथा च महाभारते –

दिव्यानि कामचाराणि विमानानि सभास्तथा ।

आक्रीडा विविधा राजन् पद्मिन्यश्चामलोदका: ॥

एते वै निरयास्तात स्थानस्य परमात्मन: । इति।

एष तु वा अतिवदति यस्सत्येनातिवदति इति प्रस्तुतञ्चातिवादित्वम् एवमेव समञ्जसम्। अतिवादित्वं हि स्वोपास्यपुरुषार्थाधिक्यवादित्वम्। तदल्पम् इत्यल्पप्रतियोगित्वेन, भूमा इत्युक्तप्रकार वैपुल्याश्रयसुखरूपवाची। अयं भूमशब्दव्यपदिष्ट: परमात्मा, संप्रसादादध्युपदेशात्, संप्रसाद: – प्रत्यगात्मा, अथ य एष संप्रसाद: इत्यादिश्रुते:। एष तु वा अतिवदति यस्सत्येन इत्यादिना प्राणशब्दनिर्दिष्टात् प्रत्यगात्मन: ऊर्ध्वमर्थान्तरत्वेनास्योपदेशात् ॥७॥

७३। धर्मोपपत्तेश्च – स भगव: कस्मिन् प्रतिष्ठित: स्वे महिम्नि इत्यादावुपदिष्टानां स्वमहिम-प्रतिष्ठितत्वसर्वकारणत्वसर्वात्मकत्वादिधर्माणां परस्मिन्नेवोपपत्तेश्च भूमा पर: ॥८॥ इति भूमाधिकरणम्॥

१-३-३

७४। अक्षरमम्बरान्तधृते: – एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति अस्थूलमनणु इत्यादिना अभिहितमक्षरं परं ब्रह्म, अक्षरमम्बरान्तधृते:, यदूर्ध्वं गार्गि दिव: इत्यारभ्य, सर्वविकाराधारतया निर्दिष्ट आकाश: कस्मिन्नोतश्च प्रोतश्च इति पृष्टे, एतद्वै तदक्षरम् इति निर्दिष्टस्याक्षरस्य वायुमदम्बरान्तधृते: सर्वविकाराधारो ह्ययमाकाश: वायुमदम्बरान्तकारणं प्रधानम्, तद्धारकं परं ब्रह्म ॥९॥

७५। सा च प्रशासनात् – सा च धृति:, एतस्य वा अक्षरस्य प्रशासने गार्गि इत्यादिना प्रकृष्टाज्ञया क्रियमाणा श्रूयते। अत: इदमक्षरं प्रत्यगात्मा च न भवतीत्यर्थ:॥१०॥

७६। अन्यभावव्यावृत्तेश्च – अन्यभाव: – अन्यत्वम्। अदृष्टं द्रष्टृ इत्यादिना परमात्मनः अन्यत्वं ह्यस्याक्षरस्य व्यावर्तयति वाक्यशेष:, अतश्च पर एव ॥११॥  इति अक्षराधिकरणम् ॥ ३ ॥

१-३-४

७७। ईक्षतिकर्म व्यपदेशात्स: – य: पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत इत्यारभ्य स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षत इत्यत्र ध्यायति पूर्वकेक्षतिकर्म, स: – प्रशासिता परमात्मा इत्यर्थ:, उत्तरत्र तमोङ्कारेणैवायनेनान्वेति इति विद्वान् यत्तच्छान्तमजरं अमृतमभयं परञ्च इति परमपुरुषासाधारणधर्मव्यपदेशात्, यत्तत्कवयो वेदयन्ते इति तदीयस्थानस्य सूरिभिर्दृश्यत्व व्यपदेशाच्च ॥१२॥ ईक्षतिकर्मव्यपदेशाधिकरणम् ॥ ४॥

१-३-५

७८। दहर उत्तरेभ्य: – अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन् अन्तराकाश:, तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम् इत्यत्र दहराकाशनिर्दिष्ट: परमात्मा, उत्तरेभ्य: वाक्यगतेभ्य: तदसाधारणधर्मेभ्य:। उत्तरत्र दहराकाशस्य सर्वाधारतयाऽतिमहत्त्वमभिधाय, एतत्सत्यं ब्रह्माख्यं पुरम् इति निर्दिश्य तस्मिन् ब्रह्माख्ये दहराकाशे कामास्समाहिता: इत्युक्ते, कोऽयं दहराकाश:? के च कामा:? इत्यपेक्षायाम्, एष आत्मा अपहत पाप्मा इत्यारभ्य सत्यकामस्सत्यसङ्कल्प: इत्यन्तेन दहराकाश: आत्मा, कामाश्च  अपहतपाप्मत्वादय: तद्विशेषणभूतगुणा इति हि ज्ञापयति। दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तः तदन्वेष्टव्यम् इत्यत्र दहराकाश: तदन्तर्वर्ति च यत्, तदुभयमन्वेष्टव्यमित्युक्तमिति विज्ञायते। अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान् इति हि व्यज्यते॥१३॥

७९। गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च – एवमेवेमास्सर्वा: प्रजा: अहरहर्गच्छन्त्य: एतं ब्रह्मलोकं न विन्दन्ति इत्यहरहस्सर्वासां प्रजानामजानतीनां दहराकाशोपरि गति: – वर्तनम्, दहराकाशसमानाधिकरणो ब्रह्मलोकशब्दश्च दहराकाश: परं ब्रह्मेति ज्ञापयति। तथा ह्यन्यत्र सर्वासां परमात्मोपरिवर्तमानत्वं दृष्टम्, तस्मिन् लोकाश्श्रितास्सर्वे, तदक्षरे परमे प्रजा: इत्यादौ, ब्रह्मलोकशब्दश्च एष ब्रह्मलोक: इत्यादौ। अन्यत्र दर्शनाभावेऽपि इदमेव पर्याप्तमस्य परमात्मत्वे लिङ्गम्, यद्दहराकाशोपरि सर्वस्य वर्तमानत्वम्, ब्रह्मलोकशब्दश्च ॥१४॥

८०। धृतेश्च  महिम्नोऽस्यास्मिन्नुपलब्धे: – अथ य आत्मा स सेतुर्विधृति: इति जगद्धृते: परमात्मनो महिम्नोऽस्मिन् दहराकाशे उपलब्धेश्चायं पर:, सा हि परमात्ममहिमा, एष सेतुर्विधरण: इत्यादि श्रुते:।१५॥

८१। प्रसिद्धेश्च – आकाशशब्दस्य यदेष आकाश आनन्द: इति परमात्मन्यपि प्रसिद्धेश्चायं पर:, सत्यसङ्कल्पत्वादिगुणबृन्दोपबृंहिताप्रसिद्धि: भूताकाशप्रसिद्धेर्बलीयसीत्यर्थ:॥१६॥

८२। इतरपरामर्शात्स इति चेन्नासंभवात्  – अथ य एष संप्रसाद: इतीतरस्य – जीवस्य परामर्शात् प्रकृताकाशस्स इति चेत्। नैतत्। उक्तगुणानां तत्रासंभवात्॥१७॥

८३। उत्तराच्चेदाविर्भूतस्वरूपस्तु – उत्तरत्र य आत्मा अपहतपाप्मा इति जीवस्य अपहत- पाप्मत्वादि श्रवणान्नासंभव:। जागरितस्वप्नसुषुप्त्याद्यवस्थासु वर्तमानत्वात् स हि जीव इति चेत्, नैतत्, आविर्भूतस्वरूपस्तु – कर्मारब्धशरीरसंबन्धित्वेन तिरोहितापहतपाप्मत्वादिक:, पश्चात्                      परञ्ज्योतिरुपसंपद्याविर्भूतस्वरूप: तत्र अपहतपाप्मत्वादिगुणको जीव: प्रतिपादित: दहराकाशस्तु अतिरोहितकल्याणगुणसागर इति नायं जीव:॥१८॥

८४। अन्यार्थश्च परामर्श: – अस्माच्छरीरात् समुत्थाय परंज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते इति जीवात्मनो दहराकाशोपसंपत्त्या स्वरूपाविर्भावापादनरूपमाहात्म्य-प्रतिपादनार्थः अत्र जीवपरामर्श:       ॥१९॥

८५। अल्पश्रुतेरिति चेत्तदुक्तम् – अल्पस्थानत्वस्वरूपाल्पत्वश्रुतेर्नायं परमात्मेति चेत्। तत्रोत्तरमुक्तम् निचाय्यत्वादेवं व्योमवच्च इति॥२०॥

८६। अनुकृतेस्तस्य च – तस्य दहराकाशस्य परञ्ज्योतिष:, अनुकरणश्रवणाच्च जीवस्य, न जीवो दहराकाश:, स तत्र पर्येति जक्षत्क्रीडन् रममाण: इत्यादि: तदुपसंपत्त्या स्वच्छन्दवृत्तिरूप: तदनुकारश्श्रूयते॥२१॥

८७। अपि स्मर्यते – इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता: । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च इति॥२२॥  इति दहराधिकरणम् ॥ ५ ॥

१-३-६

८८। शब्दादेव प्रमित: – अङ्गुष्ठमात्र: पुरुषो मध्य आत्मनि तिष्ठति, ईशानो भूतभव्यस्य इत्यादौ अङ्गुष्ठप्रमित: परमात्मा ईशानो भूतभव्यस्य इति सर्वेश्वरत्ववाचिशब्दादेव॥२३॥

८९। हृद्यपेक्षया तु मनुष्याधिकारत्वात् – अनवच्छिन्नस्यापि उपासकहृदि वर्तमानत्वापेक्षमङ्गुष्ठप्रमितत्वम्। मनुष्याणामेवोपसनसंभावनया तद्विषयत्वाच्च शास्त्रस्य, मनुष्यहृदयापेक्षयेदमुक्तम्। स्थितं तावदुत्तरत्र समापयिष्यते॥२४॥ इति प्रमिताधिकरणपूर्वभागः ॥ ६ ॥

१-३-७

९०। तदुपर्यपि बादरायणस्संभावात् – तत् – ब्रह्मोपासनम् उपरि – देवादिष्वप्यस्ति, अर्थित्वसामर्थ्यसंभवात्, इति भगवान् बादरायण: मेने। संभवश्च पूर्वोपार्जितज्ञानाविस्मरणात्, मन्त्रार्थवादेषु विग्रहादिमत्तया स्तुतिदर्शनात्, तदुपपत्तये तत्संभवे तेषामेव प्रामाण्येन विग्रहादिमत्त्वाच्च ॥२५॥

९१। विरोध: कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् – विग्रहादिमत्त्वे एकस्यानेकत्र युगपत्सान्निध्यायोगात् कर्मणि विरोध: इतिचेन्न, शक्तिमत्सु सौभरिप्रभृतिषु युगपदनेकशरीरप्रतिपत्तिदर्शनात्॥२६॥

९२। शब्द इति चेन्नात: प्रभवात्प्रत्यक्षानुमानाभ्याम् – वैदिके तु शब्दे विरोधप्रसक्ति: – देहस्य सावयवत्वेनोत्पत्तिमत्त्वात् इन्द्रादिदेवोत्पत्ते: प्राक् विनाशादूर्ध्वं च वैदिकेन्द्रादिशब्दानां अर्थशून्यत्वं अनित्यत्वं वा स्यात् इति चेन्न। अत: – वैदिकादेवेन्द्रादिशब्दादिन्द्राद्यर्थसृष्टे:। नहीन्द्रादिशब्दा: व्यक्तिवाचका:, अपि तु गवादिशब्दवदाकृतिवाचिन:, पूर्वस्मिन्निन्द्रादौ विनष्टे वैदिकेन्द्रादिशब्दादेव ब्रह्मा पूर्वेन्द्राद्याकृतिविशेषं स्मृत्वा, तदाकारमपरमिन्द्रादिकं कुलालादिरिव घटादिकं सृजतीति न कश्चिद्विरोध:। कुत इदमवगम्यते? श्रुतिस्मृतिभ्याम्। श्रुति: – वेदेनरूपे व्यकरोत् सतासती प्रजापति: स भूरिति व्याहरत् स भूमिमसृजत इत्यादि:। स्मृतिरपि

सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् ।

वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे ॥ इत्यादि:॥२७॥

९३। अत एव च नित्यत्वम् – यतो ब्रह्मा वैदिकाच्छब्दादर्थान् स्मृत्वा सृजति, अत एव, मन्त्रकृतो वृणीते, विश्वामित्रस्य सूक्तं  भवति इति विश्वामित्रादीनां मन्त्रादिकृत्त्वेऽपि मन्त्रादि- मयवेदस्य नित्यत्वं तिष्ठति। अनधीतमन्त्रादिदर्शनशक्तान् पूर्वविश्वामित्रादीन् तत्तद्वैदिकशब्दै: स्मृत्वा, तदाकारानपरान् तत्तच्छक्तियुक्तान् सृजति हि ब्रह्मा नैमित्तिकप्रलयानन्तरम्। ते चानधीत्यैव तानेव मन्त्रादीनस्खलितान् पठन्ति। अतस्तेषां मन्त्रादिकृत्त्वं वेदनित्यत्वं च स्थितम्॥२८॥

प्राकृतप्रलये तु चतुर्मुखे वेदाख्यशब्दे च विनष्टे कथं वेदस्य नित्यत्वमित्यत आह –

९४। समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च – अत एव सृज्यानां समाननामरूपत्वात्, प्राकृतप्रलयावृत्तावपि न विरोध:, आदिकर्ता परमपुरुषो हि पूर्वरूपसंस्थानं जगत् स्मृत्वा तदाकारमेव जगत् सृजति, वेदांश्च पूर्वानुपूर्वीविशिष्टानाविष्कृत्य चतुर्मुखाय ददातीति, श्रुति- स्मृतिभ्यामादिकर्ता पूर्ववत्सृजतीत्यवगम्यते। श्रुतिस्तावत् सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् इत्यादिका यो ब्रह्मणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै इति च। स्मृतिरपि

यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये ।

दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ इति। वेदस्य नित्यत्वं च, पूर्वपूर्वोच्चारणक्रम- विशिष्टस्यैव सर्वदोच्चार्यमाणत्वम् ॥२९॥  इति देवताधिकरणम्

१-३-८

९५। मध्वादिष्वसंभवादनधिकारं जैमिनि: – मधुविद्यादिषु वस्वादिदेवानामेव उपास्यत्वात्, प्राप्यत्वाच्च, तत्र वस्वादीनां कर्मकर्तृभावविरोधेन उपास्यत्वासंभवात्। वसूनां सतां वसुत्वं प्राप्तमिति प्राप्यत्वासंभवाच्च, तत्र वस्वादीनामनधिकारं जैमिनिर्मेने ॥३०॥

९६। ज्योतिषि भावाच्च – तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् इति ज्योतिषि – परस्मिन् ब्रह्मणि, देवानां साधारण्येन प्राप्तत्वेऽपि अधिकारमात्र (भाव) वचनात्, अन्यत्र वस्वाद्युपासने अनधिकारो न्यायसिद्धो गम्यते॥३१॥

९७। भावं तु बादरायणोऽस्ति हि – मधुविद्यादिष्वपि वस्वादीनामधिकारभावं भगवान् बादरायणो मन्यते। अस्ति हि वस्वादीनां सतां स्वावस्थब्रह्मण उपास्यत्वसंभव:, कल्पान्तरे वसुत्वादे: प्राप्यत्वसंभवश्च। एकल एव मध्ये स्थाता इत्यादिना आदित्यस्य कारणावस्थां प्रतिपाद्य य एतामेवं ब्रह्मोपनिषदं वेद इति मधुविद्याया: ब्रह्मविद्यात्वमाह। अत: कार्यकारणोभयावस्थं तत्रोपास्यम्। कल्पान्तरे वस्वादित्वमनुभूय अधिकारावसाने ब्रह्मप्राप्तिर्न विरुद्धा॥३२॥ इति प्रमिताधिकरणगर्भे मध्वधिकरणम् ॥

१-३-९

९८। शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि – आजहारेमाश्शूद्र इत्यादौ ब्रह्मोपदेशे शिष्यं प्रति शूद्रेत्यामन्त्रणेन शिष्यस्य ब्रह्मज्ञानाप्राप्त्या शुक्सञ्जातेति सूच्यते। शोचनाच्छूद्र:। न जातियोगेन कुत:? तदनादरश्रवणात् – ब्रह्मविद्यावैकल्येन स्वात्मानं प्रति हंसोक्तानादरवाक्यश्रवणात्, तदैवाचार्यं प्रति आद्रवणात्। हि शब्दो हेतौ। यतश्श्रूद्रेत्यामन्त्रणं न जातियोगेन, अतश्शूद्रस्य ब्रह्मोपासनाधिकारो न सूच्यते॥३३॥

९९। क्षत्रियत्वगतेश्च – शुश्रूषो: क्षत्रियत्वगतेश्च न जातियोगेन शूद्रेत्यामन्त्रणम्। उपक्रमे बहुदायी इत्यादिना दानपतित्वबहुपक्वान्नदायित्वबहुग्रामप्रदानैरस्य हि क्षत्रियत्वं गम्यते॥३४॥

१००। उत्तरत्र चैत्ररथेन लिङ्गात् –  उपरिष्टाच्चास्यां विद्यायां ब्राह्मणक्षत्रिययोरेवान्वयो दृश्यते अथ ह शौनकञ्च कापेयमभिप्रतारिणञ्च इत्यादौ। अभिप्रतारी हि चैत्ररथ: क्षत्रिय:। अभिप्रतारिण: चैत्ररथत्वं क्षत्रियत्वं च कापेयसाहचर्याल्लिङ्गादवगम्यते। प्रकरणान्तरे हि कापेय- सहचारिणश्चैत्ररथत्वं क्षत्रियत्वं चावगतम् एतेन चैत्ररथं कापेया अयाजयन् इति, तस्माच्चैत्ररथो नामैक: क्षत्रपतिरजायत इति च। अतश्चायं शिष्य: न चतुर्थ:॥३५॥

१०१। संस्कारपरामर्शात्तदभावाभिलापाच्च – विद्योपक्रमे उप त्वा नेष्ये इत्युपनयनपरामर्शात्, शूद्रस्य तदभावाभिलापाच्च न शूद्रस्य ब्रह्म विद्याधिकार:, न शूद्रे पातकं किंचित् न च संस्कारमर्हाति इति संस्कारो हि निषिद्ध:॥३६॥

१०२। तदभावनिर्धारणे च प्रवृत्ते: – नैतदब्राह्मणो विवक्तुमर्हाति समिधं सोम्याहर इति शूद्रत्वाभावनिश्चय एव उपदेशप्रवृत्तेश्च नाधिकार: ॥३७॥

१०३। श्रवणाध्ययनार्थप्रतिषेधात् – शूद्रस्य श्रवणाध्ययनादीनि हि निषिध्यन्ते तस्माच्छूद्र-समीपे नाध्येतव्यम् इति। अनुपशृण्वतोऽध्ययनादि च न संभवति ॥३८॥

१०४। स्मृतेश्च – स्मर्यते हि शूद्रस्य वेदश्रवणादौ दण्ड:। अथ हास्य वेदमुपशृण्वत: त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्, उदाहरणे जिह्वाच्छेद:, धारणे शरीरभेद: इति ॥३९॥ इति अपशूद्राधिकरणम् ॥९॥

प्रमिताधिकरणशेष:

प्रासङ्गिकं परिसमाप्य प्रकृतमनुसरति-

१०५। कम्पनात् – अङ्गुष्ठप्रमितप्रकरणमध्ये यदिदं किञ्च जगत्सर्वं प्राण एजति निस्सृतम् इत्यादिना अभिहिताङ्गुष्ठप्रमितप्राणशब्दनिर्दिष्टजनितभयात् वज्रादिवोद्यतात् अग्निवायुसूर्येन्द्र प्रभृतिकृत्स्नजगत्कम्पनात् अङ्गुष्ठप्रमित: परमपुरुष इति निश्चीयते॥४०॥

१०६। ज्योतिर्दर्शनात् – तत्प्रकरणे न तत्र सूर्यो भाति इत्यारभ्य तस्य भासा सर्वमिदं विभाति इति भाश्शब्दाभिहितस्य अनवधिकातिशयज्योतिषो दर्शनाच्च अङ्गुष्ठप्रमित: परमपुरुष:॥४१॥ इति प्रमिताधिकरणशेष:॥

१-३-१०

१०७। आकाशोऽर्थान्तरत्वादिव्यपदेशात् – आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म इत्यादिना निर्दिष्ट: आकाश: धूत्वा शरीरमकृतं कृतात्मा इति प्रकृतात्प्रत्यगात्मन: परिशुद्धादर्थान्तरभूत: परमपुरुष: नामरूपयो: निर्वोढृत्वतदस्पर्शरूपार्थान्तरत्वामृतत्वादि-व्यपदेशात्॥४२॥

तत्त्वमस्यादिना ऐक्योपदेशात् प्रत्यगात्मनो नार्थान्तरभूत: परमपुरुष इत्याशङ्क्याह –

१०८। सुषुप्त्युत्क्रान्त्योर्भेदेन – प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम् प्राज्ञेनात्मनाऽन्वारूढ: इति सुषुप्त्युत्क्रान्त्यो: बाह्यान्तरविषयानभिज्ञात्प्रत्यगात्मन: तदानीमेव प्राज्ञतया भेदेन व्यपदेशादर्थान्तरभूत एव॥४३॥

१०९।    पत्यादिशब्देभ्य: – परिष्वञ्जके प्राज्ञे श्रूयमाणेभ्य: पत्यादिशब्देभ्यश्चायं अर्थान्तरभूत:। सर्वस्याधिपति: सर्वस्य वशी सर्वस्येशान: इति ह्युत्तरत्र श्रूयते। ऐक्योपदेशोऽपि अवस्थितेरिति काशकृत्स्न: इत्यनेन जीवस्य शरीतभूतस्यात्मतया अवस्थितेरिति स्वयमेव परिहरिष्यति॥४४॥  इति अर्थान्तरत्वादिव्यपदेशाधिकरणम् ॥ १० ॥

इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे प्रथमाध्यायस्य तृतीय: पाद: ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.