श्रीवेदान्तसार:
अथ द्वितीयाध्याये द्वितीय: पाद:
२–२–१
१७५। रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च – दार्वादेरचेतनस्य रथप्रासादादिनिर्माणे तदभिज्ञानधिष्ठितस्य रचनानुपपत्तेश्च तज्ज्ञाधिष्ठितस्य रचनाप्रवृत्तेश्च अनुमानगम्यं प्रधानमचेतनं प्राज्ञानधिष्ठितं न जगत्कारणम्॥१॥
१७६। पयोम्बुवच्चेत्तत्रापि – यथा पय: अम्बु च दध्यादिभावेऽनपेक्षं, तद्वत्प्रधानमपीतिचेत्, तत्राप्युक्त एव हेतु:, तस्यापि पक्षीकृतत्वात्॥२॥
१७७। व्यतिरेकानवस्थितेश्चानपेक्षत्वात् – प्राज्ञाधिष्ठितत्वानपेक्षत्वेन सर्वदा सृष्टिप्रसङ्गाच्च न प्रधानं कारणम्॥३॥
१७८। अन्यत्राभावाच्च न तृणादिवत् – क्षीरीभवद्धेनूपयुक्ततृणादिवत् प्रधानमपीति न युक्तं वक्तुम्, अनडुहा(दा)दिष्वदर्शनात्, तद्धि प्राज्ञाधिष्ठितम्॥४॥
१७९। पुरुषाश्मवदिति चेत्तथाऽपि – पुरुष: स्वसन्निधानात्प्रधानं प्रवर्तयति अन्धपङ्गु पुरुषवत्, अश्मवत् – अयस्कान्ताश्मवदिति न प्राज्ञापेक्षेति चेत्, न, तथाऽपि न प्रधानप्रवृत्ति- संभव:, अविकृतत्वात्पुरुषस्य, पङ्ग्वन्धादे: मार्गोपदेशदेशान्तरगमनादि: कादाचित्को विकारोऽस्ति॥५॥
१८०। अङ्गित्वानुपपत्तेश्च – गुणानामुत्कर्षापकर्षरूपाङ्गाङ्गिभावाद्धि जगत्प्रवृत्ति:, प्रतिसर्गावस्थायां साम्यावस्थानां वैषम्यकृताङ्गाङ्गित्वानुपपत्तेश्च न जगदारम्भ:॥६॥
१८१। अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् – ज्ञस्य या शक्ति:, तद्वियोगात्, ज्ञातृत्व-शक्तिवियोगादित्यर्थ:। उक्तप्रकारव्यतिरिक्तप्रकारेण प्रधानानुमितौ च प्रधानस्य ज्ञातृत्वशक्तिवियोगात् रचनानुपपत्त्यादयो दोषास्तदवस्था:॥७॥
१८२। अभ्युपगमेऽप्यर्थाभावात् – प्रधानाभ्युपगमेऽपि प्रयोजनाभावान्न तदनुमेयम्। पुरुषस्य निर्विकारस्य प्रधानदर्शनरूपविकारासंभवात्, प्रकृतिधर्माध्यासनिमित्तभोग: तद्विवेकानुसन्धानकृत-कैवल्यं च न संभवति ॥८॥
१८३। विप्रतिषेधाच्चासमञ्जसम् – पुरुषस्य द्रष्टृत्वभोक्तृत्वनिर्विकारत्वादिविरुद्ध-सहस्राभ्युपगमाच्च असमञ्जसं कापिलमतम्॥९॥ इति रचनानुपपत्त्यधिकरणम् ॥ १ ॥
२–२–२
१८४। महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् – असमञ्जसमिति वर्तते। वा शब्दश्चार्थे। ह्रस्वपरिमण्डलाभ्यां महद्दीर्घवत् – द्व्यणुकत्र्यणुकोत्पत्तिवदन्यच्च तन्मतं सर्वमसमञ्जसम्। अवयवास्स्वकीयैष्षड्भि: पार्श्वैस्संयुज्यमाना हि पृथुतरमवयविनमारभन्ते, परमाणूनां निरवयवत्वेन पार्श्वानभ्युपगमात्, पार्श्वाननपेक्ष्य संयुज्यमानानां न पृथुतरद्रव्यारम्भकत्वसंभव:॥१०॥
१८५। उभयथाऽपि न कर्मातस्तदभाव: – अणुगताद्यकर्मासंभवात्तत्कृताणुसंयोगाभावात् क्षेत्रज्ञादृष्टानां विपाकापेक्षत्वेऽपि न तत्कृतकादाचित्काणुगतकर्मसंभव:। अनपेक्षत्वे प्रागप्युत्पादकं स्यात्। विपाको नाम कश्चिददृष्टगतो धर्मो न ज्ञायते, कर्मविधिवेलायामेव कालविशेषनियत- फलदायित्वं यस्य कर्मणश्चोदितम्, तस्य तत्कालागम एव विपाक:। अनियतकालविशेषाणां कर्मणां प्रबलकर्मान्तराप्रतिबन्ध एव विपाक:। अदृष्टानि च तत्तत्कर्मानुगुणफलदानस्वभावानि, अतोऽनन्तैः आत्मभि: विविधकालफलदायित्वेनानुष्ठितानामेकदैकरूपविपाको न संभवति। अनुमेयेश्वरासिद्धेः तदधिष्ठानाच्च न संभवति॥११॥
१८६। समवायाभ्युपगमाच्च साम्यादनवस्थिते: – समवायाभ्युपगमाच्चासमञ्जसम्, समवायस्यापि जातिगुणादेरिवापृथक्सिद्धिहेत्वपेक्षासाम्यादनवस्थिते:, समवायस्य तत्स्वभाव-कल्पनायां जात्यादेरेव तन्न्याय्यम्॥१२॥
१८७। नित्यमेव च भावात् – समवायस्य नित्यत्वाभ्युपगमे संबन्धिनित्यत्वमन्तरेण तदनुपपत्ते:, अवयवावयविनोरुभयोर्नित्यत्वप्रसङ्गादसदेवेदम्॥१३॥
१८८। रूपादिमत्त्वाच्च विपर्ययो दर्शनात् – परमाणूनां रूपादिमत्त्वान्नित्यत्वादिविपर्ययश्च, घटादिषु तथा दर्शनात् ॥१४॥
१८९। उभयथा च दोषात् – अनित्यत्वादिभयाद्रूपादिशून्यत्वे कारणगुणपूर्वकत्वासिद्धि:, तद्भयाद्रूपादिमत्त्वे च अनित्यत्वादिरित्युभयधा च दोषादसमञ्जसमेव॥१५॥
१९०। अपरिग्रहाच्चात्यन्तमनपेक्षा – काणादपक्षे कस्याप्यंशस्य वैदिकैरपरिग्रहात् अनुपपन्नत्वात् च, अत्यन्तमनपेक्षा॥१६॥ इति महद्दीर्घाधिकरणम् ॥ २ ॥
२–२–३
१९१। समुदाय उभयहेतुकेऽपि तदप्राप्ति: – अणुहेतुके पृथिव्यादिसमुदाये, पृथिव्यादिहेतुके शरीरेन्द्रियसमुदाये च सुगताभ्युपगते तदभ्युपगमप्रकारेणैव समुदायासिद्धि:। क्षणिकत्वं हि तैरभ्युपगम्यते, संहतौ व्याप्रियमाणा: परमाणव: पृथिव्यादयश्च तदानीमेव नष्टाश्चेत् के समुदायरूपेण संहन्यन्ते? ॥१७॥
१९२। इतरेतरप्रत्ययत्वादुपपन्नमिति चेन्न सङ्घातभावानिमित्तत्वात् – अस्थिरेषु स्थिरत्वबुद्धिरूपाविद्या रागद्वेषादिपरम्परया अन्योन्यकारणत्वात्सर्वकारणत्वमुपपन्नमिति चेत्, न, अविद्यायास्सङ्घातभावानिमित्तत्वात्। न हि शुक्तिकादिषु रजतादिबुद्धिरूपाविद्यया शुक्तिकादिर्वस्तुतो रजतादिकार्यं करोति। अत्र विदुषस्तदानीमेव नष्टत्वात् अविद्यानिमित्त-रागादयोऽपि न संभवन्ति ॥१८॥
१९३। उत्तरोत्पादे च पूर्वनिरोधात् – उत्तरघटक्षणोत्पत्तौ पूर्वघटक्षणस्यापि नष्टत्वेन अभावस्यैवोत्पादकत्वाविशेषेण सर्वदोत्पत्तिश्च स्यात्॥१९॥
१९४। असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा – असत उत्पात्तावधिपतिसहकार्यादीनां ज्ञानहेतुत्वप्रतिज्ञाविरोधश्च। तस्यापि स्थित्यभ्युपगमे युगपत् घटद्वयोपलब्धिप्रसक्ति:, अस्थितौ च संप्रयोगज्ञानापत्ते: यौगपद्यम्॥२०॥
१९५। प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्तिरविच्छेदात् – निरोध: – निरन्वयविनाश:। स स्थूल: सूक्ष्मश्च न संभवति, कपालादिभावरूपावस्थाप्राप्तेरेव विनाशशब्दाभिधेयत्वात्, सतो द्रव्यस्य अविच्छेदात्॥२१॥
१९६। उभयथा च दोषात् – उत्पन्नस्य तुच्छतापत्तौ तुच्छादुत्पत्तौ च भावादुत्पत्त्यसंभवात् अभावात्मककार्यापत्तिरूपदोषात्तुच्छत्वासिद्धि:॥२२॥
१९७। आकाशे चाविशेषात् – आकाशे च न तुच्छत्वम्, अबाधितप्रतीत्यविशेषात्। प्रतीयते ह्याकाश: श्येनादिपतनदेशत्वेन॥२३॥
१९८। अनुस्मृतेश्च – प्रत्यभिज्ञानाच्च न क्षणिकत्वसिद्धि:। तदेवेदमिति हि सामानाधिकरण्येन अतीतवर्तमानदेशकालविशिष्टं वस्तु एकमिति प्रतीयते। अस्याश्च सामग्री पूर्वानुभव- जनितसंस्कारवत: पुरुषस्येन्द्रियसंप्रयोग:॥२४॥
१९९। नासतोऽदृष्टत्वात् – ज्ञानाकारवैचित्र्येण ज्ञाने स्वाकारं समर्प्य विनष्टमप्यर्थमनुमिनोति इति वादश्च न संभवति, असतो विनष्टस्य धर्मिणो धर्मसंक्रमणस्यादृष्टत्वात्। (ज्ञाने नीलाद्याकार उपलभ्यते, स विनष्टस्यासतोऽर्थस्याकारो भवितुं नार्हाति। कुत:? अदृष्टत्वात्। न खलु धर्मिणि विनष्टे तद्धर्मस्यार्थान्तरे संक्रमणं दृष्टम्।)॥२५॥
२००। उदासीनानामपि चैवं सिद्धि: – क्षणिकत्वाभ्युपगमे अनुष्ठातुरन्यत्वात् फलिनां निष्प्रयत्नानामपि सर्वार्थसिद्धिस्स्यात्॥२६॥ इति समुदायाधिकरणम् ॥ ३ ॥
२–२–४
२०१। नाभाव उपलब्धे: – ज्ञानव्यतिरिक्तार्थाभाववादश्च न संभवति, घटमहं जानामीति कर्तृज्ञानकर्मतयाऽर्थस्योपलब्धे: न तदभावश्शक्यते वक्तुम्। पुरुषस्यार्थविशेषव्यवहारानुगुण्य-आपादकत्वमेव ज्ञानस्याकार:॥२७॥
२०२। वैधर्म्याच्च न स्वप्नादिवत् – क(का)रण दोषबाधकप्रत्ययराहित्यरूपवैषम्याच्च न स्वप्नादिवज्जागरितज्ञानस्य मिथ्यात्वम्॥२८॥
२०३। न भावोऽनुपलब्धे: – अर्थशून्यस्य ज्ञानस्य सद्भावो न संभवति, अनुपलब्धे:। स्वप्नज्ञानस्याप्यर्थवत्तोपपादयिष्यते॥२९॥ इति उपलब्ध्यधिकरणम् ॥ ४ ॥
२–२–५
२०४। सर्वथाऽनुपपत्तेश्च – सर्वशून्यवादश्च न संभवति। सदिति प्रतिज्ञायामसदिति प्रतिज्ञायां च तुच्छता न संभवति, अनुपपत्ते:। सदसद्बुद्धीनां वस्तुगताऽन्योन्य- विरुद्धभावरूपावस्थाविशेषविषयत्वात्॥३०॥ इति सर्वथानुपपत्त्यधिकरणम् ॥ ४ ॥
२–२–६
२०५। नैकस्मिन्नसंभवात् – अर्हतो मतं न युक्तिमत्। एकस्मिन् वस्तुनि युगपत् सत्त्वासत्त्वनित्यत्वानित्यत्वभेदाभेदानामसंभवात्। पर्यायरूपाश्च द्रव्यस्यास्तित्वादिशब्दबुद्धिविषया: परस्पर विरुद्धपिण्डत्वघटत्वकपालत्वाद्यवस्था: युगपन्न संभवन्ति, तथा, घटत्वशरावत्वावस्थाश्च पृथिव्यादे: प्रदेशभेदेन। तथा च द्रव्यस्यानित्यत्वमुत्पत्तिविनाशयोगित्वं तद्विपरीतं नित्यत्वं नैकस्मिन् समवैति॥३१॥
२०६। एवं चात्माकार्त्स्न्यम् – आत्मनश्शरीरपरिमाणत्वे बृहतश्शरीरादल्पीयसि प्रविशत: आकार्त्स्न्यं – विकल्पत्वं प्रसज्येत॥३२॥
२०७। न च पर्यायादप्यविरोधो विकारादिभ्य: – तथा सङ्कोचविकासावस्थायोगादपि नाविरोध:, घटादिवद्विकारादियोगप्रसक्ते:॥३३॥
२०८। अन्त्यावस्थितेश्चोभयनित्यत्वादविशेष: – अन्त्यस्य – मोक्षावस्थापरिमाणस्य, एकरूपावस्थिते:, तस्य स्वाभाविकत्वेनात्मतत्परिमाणयोरुभयोर्नित्यत्वेन पूर्वत्रापि अविशेष:। विविध देहपरिमाणत्वे वैकल्यं स्यादेव ॥३४॥ इति नैकस्मिन्नसम्भवाधिकरणम् ॥
२–२–७
२०९। पत्युरसामञ्जस्यात् – नेति वर्तते। पशुपतेर्मतमनादरणीयं वेदविरुद्ध- निमित्तोपादानभेदतद्विरुद्धाचारपरत्वेन असामञ्जस्यात्॥३५॥
२१०। अधिष्ठानानुपपत्तेश्च – अनुमेयेश्वराभ्युपगमेन हि केवलाधिष्ठातृत्वमुच्यते, तथा सति अशरीरस्य प्रधानाधिष्ठानानुपपत्ते:, सशरीरत्वे तु शरीरोत्पत्त्यनिरूपणात्, सावयवस्य तस्य नित्यत्वे महीमहीधरादीनामपि नित्यत्वाविरोधाच्च॥३६॥
२११। करणवच्चेन्न भोगादिभ्य: – करणकळेबराद्यधिष्ठानवदशरीरस्यैवाधिष्ठानमिति चेन्न। पुण्यपापनिमित्तत्वात्तस्य तत्फलभोगादिप्रसक्ते:॥३७॥
२१२। अन्तवत्त्वमसर्वज्ञता वा – तथा सति क्षेत्रज्ञवत् अन्तवत्त्वमसर्वज्ञता च॥३८॥ इति पशुपत्त्यधिकरणम् ॥ ७ ॥
२–२–८
२१३। उत्पत्त्यसंभवात् – साङ्ख्यादिवत्पञ्चरात्रमपि जीवोत्पत्त्यभिधानात्, श्रुतिविरुद्धत्वेन तदसंभवादप्रमाणम्॥३९॥
२१४। न च कर्तु: करणम् – कर्तु: – जीवात्, करणं – मनश्च, श्रुतावुत्पद्यते इति नोच्यते, एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च इत्यादि श्रुते:॥४०॥
२१५। विज्ञानादिभावे वा तदप्रतिषेध: – वासुदेवात्सङ्कर्षणो नाम जीव: इत्यादौ सङ्कर्षणादीनां विज्ञानादिरूपवासुदेवत्वे सति तदभिधायिन: प्रामाण्यानिषेध:। परब्रह्मवासुदेवस्य श्रुतावपि अजायमानो बहुधा विजायते इति चावतारश्श्रूयते जीवादिशब्दा: तत्तच्छरीरकसङ्कर्षणादीनां वाचका:॥४१॥
२१६। विप्रतिषेधाच्च – तस्मिन्नपि तन्त्रे व्याप्तिरूपेण संबन्धस्तस्याश्च पुरुषस्य च।
स ह्यनादिरनन्तश्च परमार्थेन निश्चित:॥ इति जीवोत्पत्तिप्रतिषेधाच्चाविरोधश्श्रुत:॥४२॥ इति उत्पत्त्यसम्भवाधिकरणम् ॥ ८ ॥
इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे द्वितीयाध्याये द्वितीय: पाद: ।