श्रीवेदान्तसार:
अथ तृतीयाध्याये तृतीय: पाद:।
३–३–१
३५५। सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् – सर्ववेदान्तप्रत्ययं दहराद्युपासनमेकमेव, विद्यात्, उपासीत इति कर्मविधिष्विव चोदनाफलसंयोगरूपाख्यानामविशेषात्॥१॥
३५६। भेदान्नेति चेदेकस्यामपि – अविशेषपुन:श्रुतिर्भेदापादिकेति न विद्यैक्यमिति चेत्, विद्यैक्येऽपि शाखान्तरे प्रतिपत्तृभेदान्न भेद:॥२॥
३५७। स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच्च सववच्च तन्नियम: – आथर्वणवेदे तेषामेवैतां ब्रह्मविद्यां वदेत इति शिरोव्रतवतां नियम: शिरोव्रतस्य स्वाध्यायाङ्गत्वेन नैतदचीर्णव्रतोऽधीयीत इति तस्याध्ययनसंबन्धावगमात्, समाचाराख्यग्रन्थे इदमपि वेदव्रतेन व्याख्यातमिति वेदव्रतत्वावगमाच्च। ब्रह्मविद्यामित्यत्र ब्रह्मशब्दो वेदविषय:।यथा सवहोमास्तेषामेव, तथा शिरोव्रतमिति तन्न विद्याभेदलिङ्गम्॥३॥
३५८। दर्शयति च – श्रुतिरेव विद्यैक्यं दर्शयति; छान्दोग्ये दहरविद्योक्तं गुणाष्टकं तैत्तिरीयके केवलं तस्मिन्यदन्त: इति वदति॥४॥
३५९। उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च – एवं सर्वत्र विद्यैक्ये अन्यत्रोक्तानामन्यत्र उपसंहार: तद्विद्योपकाररूपार्थैक्यात्; यथैकविधिशेषतया विहिताङ्गानामिति॥५॥ इति सर्ववेदान्तप्रत्ययाधिकरणम्॥१॥
३–३–२
पूर्वकाण्डोक्तं स्वीकृत्यात्र वक्तव्यमाह –
३६०। अन्यथात्वं शब्दादिति चेन्नाविशेषात् – वाजिनां छन्दोगानां चोद्गीथे प्राणदृष्ट्योपासनं शत्रुपरिभवफलं हि विहितम्। तत्र विद्यैक्यं पूर्वपक्षं हृदि निधाय राद्धान्तच्छायया चोदयति। वाजिनां प्राणदृष्ट्योपासनमुद्गीथकर्तृविषयमितरत्र कर्मविषयमिति शब्दादेव प्रतीयते; अथ हैममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य उदगायत् इत्यादिनोद्गीथकर्तृविषयं वाजिनाम्; छन्दोगानां तु य एवायं मुख्य: प्राणस्तमुद्गीथमुपासाञ्चक्रिरे इत्युद्गीथविषयमिति चेत्, तदिदमाह – अन्यथात्वं शब्दादिति चेदिति, न, उपक्रमाविशेषात् । हन्तासुरान्यज्ञ उद्गीथेनात्ययाम इत्येकत्र, अन्यत्रापि, तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिहनिष्याम इति॥६॥
३६१। न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् – नैवम्, प्रकरणं ह्युभयत्र भिद्यते; ओमित्येतदक्षरमुद्गीथमुपासीत इत्युद्गीथावयवभूतप्रणवविषयं छन्दोगानाम् हन्तासुरान्यज्ञ उद्गीथेनात्ययाम इति तु वाजिनां कृत्स्नोद्गीथविषयमिति रूपभेदाद्विद्याभेद:। यथा एकस्यामपि शाखायामुद्गीथोपासने हिरण्मयपुरुषदृष्टे: परोवरीयस्त्वादिविशिष्टदृष्टिर्भिद्यते॥७॥
३६२। संज्ञातश्चेत्तदुक्तमस्ति तु तदपि – उद्गीथविद्येति संज्ञैक्याद्विद्यैक्यमुक्तं चेत्, विधेयभेदेऽपि संज्ञैक्यमस्त्येव, यथा नैयमिकाग्निहोत्रे कुण्डपायिनामयनाग्निहोत्रे चेत्येवमादिषु॥८॥
३६३। व्याप्तेश्च समञ्जसम् – प्रथमप्रपाठके उपक्रमवदुत्तरास्वपि प्रणवस्योपास्यत्वव्याप्ते:, मध्ये च उद्गीथमुपासाञ्चक्रिरे इति प्रणवविषयत्वमेव समञ्जसम्॥९॥ इति अन्यथात्वाधिकरणम्॥२॥
३–३–३
३६४। सर्वाभेदादन्यत्रेमे – यो ह वै ज्येष्ठं च श्रेष्ठं च वेद प्राणो वा व ज्येष्ठश्च श्रेष्ठश्च इति वाजिनां छन्दोगानां कौषीतकिनां च प्राणविद्यायां वागादिकरणग्रामस्थिते: तत्कार्यस्य च प्राणहेतुकत्वेन तिसृष्वप्येकरूपेण प्राणज्यैष्ठ्यमुपपादितम्। वागादिगतवसिष्ठत्वादिसंबन्धित्वमपि प्राणस्योभयत्रोक्तम्। कौषीतकिनां तु तन्नोक्तम्। तथाऽपि सर्वत्र ज्यैष्ठ्योपपादनप्रकारस्य सर्वस्याभेदाद्विद्यैक्यमिति कौषीतकिप्राणविद्यायामपि वसिष्ठत्वादय उपसंहार्या:॥१०॥ इति सर्वाभेदाधिकरणम् ॥ ३ ॥
३–३–४
३६५। आनन्दादय: प्रधानस्य – अभेदादिति वर्तते। ब्रह्मस्वरूपनिरूपणान्तर्गतामलत्व-ज्ञानानन्दादयो गुणा: सर्वासु परविद्यासूपसंहार्या:, गुणिनो ब्रह्मणस्सर्वत्राभेदात्॥११॥
३६६। प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे – तस्य प्रियमेव शिर: इति प्रियशिरस्त्वादीनामप्राप्ति:, ब्रह्मगुणत्वाभावात्तेषाम्। शिर:पक्षादिभेदे ब्रह्मगुणे सति ब्रह्मण उपचयापचयप्रसक्ति:॥१२॥
३६७। इतरे त्वर्थसामान्यात् – आनन्दादय: स्वरूपनिरूपणान्तर्गततया ब्रह्मसमाना इत्युपसंहार्या एव॥१३॥
३६८। आध्यानाय प्रयोजनाभावात् – प्रियशिरस्त्वाद्युपदेश: ब्रह्मणोऽनुचिन्तनार्थ:। प्रयोजनान्तराभावात्॥१४॥
३६९। आत्मशब्दाच्च – अन्योऽन्तर आत्माऽऽनन्दमय:, इत्यात्मशब्दाच्च प्रियशिर:पक्षादयो न ब्रह्मगुणा:॥१५॥
३७०। आत्मगृहीतिरितरवदुत्तरात् – परमात्मन एवात्मशब्देन ग्रहणमिति सोऽकामयत, बहु स्यां प्रजायेयेति उत्तरात् बहुभवनसङ्कल्पाभिधायिनो वाक्यादवगम्यते; आत्मा वा इदमेक एवाग्र आसीत् इत्यात्मशब्दादिवत्॥१६॥
३७१। अन्वयादिति चेत् स्यादवधारणात् – पूर्वत्र प्राणमयादिष्वात्मशब्दान्वयात्कथमुत्तरात् निर्णय इति चेत्, आत्मन आकाशस्संभूत: इत्यवगतस्यात्मन एव प्राणमयादिष्ववधारणात् स्यादेव परमात्मैवेति निर्णय:॥१७॥ इति आनन्दाद्यधिकरणम् ॥ ४ ॥
३–३–५
३७२। कार्याख्यानादपूर्वम् – यो ह वै ज्येष्ठं च श्रेष्ठंच वेद इति प्राणविद्यां विधाय, अपां प्राणवासस्त्वमुक्त्वा, तस्मादेवं विदशिष्यन्नाचामेदशित्वा चाचामेदेतमेव तदनमनग्नं कुरुत इत्याचमनस्य सदाचारप्राप्तत्वादाचमनमनूद्य आचमनीयानामपां प्राणवासस्त्वानुसन्धानमप्राप्तं विधीयत इति युक्तम्, अप्राप्तस्यैव विधेयतया ख्यापनात्। अत्रानुवादसरूपो विधि: कल्प्यत इत्यर्थ:॥१८॥ इति कार्याख्यानाधिकरणम् ॥ ५ ॥
३–३–६
३७३। समान एवं चाभेदात् – अग्निरहस्ये, बृहदारण्यके चाम्नाता शाण्डिल्यविद्या। एकत्र स आत्मानमुपासित मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमाकाशात्मानम् इति। इतरत्र मनोमयोऽयं पुरुषो भास्सत्यं तस्मिन्नन्तर्हृादये यथा व्रीहिर्वा यवो वा स एष सर्वस्य वशी सर्वस्येशानस्सर्वस्याधिपतिस्सर्वम् इदं प्रशास्ति इति। उभयत्र मनोमयत्वादिके समानेऽपि वशित्वादेस्सत्यसङ्कल्पत्वविततिरूपेणाभेदादैक्यम्॥१९॥ इति समानाधिकरणम् ॥६॥
३–३–७
३७४। सम्बन्धादेवमन्यत्रापि – बृहदारण्यके – य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षिन् इत्युपक्रम्य, सत्यस्य ब्रह्मण: आदित्यमण्डले अक्षिणि चोपास्यत्वमुक्त्वा, तस्योपनिषदहरित्यधिदैवतम् तस्योपनिषदहम् इत्यध्यात्म इति द्वे नामनी आम्नायेते। उभयत्रैकस्यैवोपास्यस्य संबन्धाद्विद्यैक्यमित्युभयत्रोभे नामनी॥२०॥
३७५। न वा विशेषात् – नैतत्। आदित्याक्षिस्थानसंबन्धभेदादुपास्यस्य विद्याभेद इति तत्र नियते नामनी॥२१॥
३७६। दर्शयति च – दर्शयति च श्रुतिर्विद्याभेदं तस्यैतस्य तदेव रूपं यदमुष्य रूपम् इति रूपातिदेशं ब्रुवती॥२२॥ इति सम्बन्धाधिकरणम् ॥ ७ ॥
३–३–८
३७७। संभृतिद्युव्याप्त्यपि चात: – ब्रह्मज्येष्ठा वीर्या संभृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान इत्यादि ज्येष्ठानां वीर्याणां ब्रह्मणि संभृति: द्युव्याप्तिश्च ब्रह्मण इत्येतदनारभ्याधीतमपि न सर्वोपासनशेषभूतम्। अतो द्युव्याप्तिसामर्थ्यादल्पस्थानव्यतिरिक्तेषूपासनेषु प्राप्नोति। संभृत्याद्यपि द्युव्याप्तिसह पठितं तत्रैव॥२३॥ इति सम्भृत्यधिकरणम् ॥ ८ ॥
३–३–९
३७८। पुरुषविद्यायामपि चेतरेषामनाम्नानात् – छान्दोग्ये तैत्तिरीयके चाम्नाता पुरुषविद्याभिन्ना, यजमानपत्न्यादीनां यज्ञावयवानामितरेषां सवनत्रयादीनां चैकत्राम्नातानामन्यत्रानाम्नानात्, फलभेदाच्च, तैत्तिरीयके आत्मादीनां यजमानत्वकल्पनं सायंप्रातर्मध्यन्दिनानां सवनत्वकल्पनं ब्रह्ममहिमप्राप्तिफलम्। अत्र फलस्याश्रवणात् पूर्वप्रस्तुतफलं ब्रह्मविद्याङ्गम्। छान्दोग्ये चाशिशिषादीनां दीक्षात्वकल्पनं त्रेधा विभक्तपुरुषायुषस्य च सवनत्रयकल्पनं शतं जीवतीति च फलम्॥२४॥ इति पुरुषविद्याधिकरणम् ॥९॥
३–३–१०
३७९। वेधाद्यर्थभेदात् – उपनिषदारंभेष्वधीत शुक्रं प्रविध्य हृदयं प्रविध्य इत्यादिमन्त्रवत्, महाव्रतादिमन्त्रवच्च, शं नो मित्र:, सहनाववतु इति मन्त्रावपि मन्त्रसामर्थ्येन प्रयोजनभेदावगमात् अध्ययनशेषभूताविति न विद्याङ्गभूतौ॥२५॥ इति वेधाद्यधिकरणम् ॥ १० ॥
३–३–११
३८०। हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्स्तुत्युपगानवत्तदुक्तम् – विदुषो ब्रह्म प्राप्नुवत: पुण्यपापयोर्विमोचनमेकस्यां शाखायां विदुषस्तच्चिन्तनार्थमधीतम्। विमुक्तयो: प्रवेशस्थानमेकस्यां शाखायां पुण्यप्रवेशस्थानं सुहृद:, दुष्कृतस्य शत्रव इति। एकस्यां शाखायां विमोचनं प्रवेशस्थानं चेत्युभयमाम्नातम्। सर्वं तच्चिन्तनार्थम्। हानाविति प्रदर्शनार्थम्। हानावुपायने चेत्यर्थ:। हानि: – विमोचनम्, उपायनं – प्रवेशनम्। केवलहानावाम्नातायां केवले चोपायने आम्नाते इतरेतरसमुच्चयो न्याय्य:, न विकल्प:, उपायनशब्दस्य हानिवाक्यशेषत्वात्। तच्छेषत्वं च त्यक्तयो: प्रवेशस्थान-वाचित्वेन तदपेक्षत्वात्। यथा वानस्पत्या: कुशा इत्येतद्वाक्यशेषभूतम् औदुंबर्य: कुशा इति प्रदेशान्तरस्थम्; यथा च देवासुराणां छन्दोभि: इत्येतद्वाक्यशेषभूतं देवच्छन्दांसि पूर्वम् इति प्रदेशान्तरस्थम् यथा च हिरण्येन षोडशिनस्तोत्रमुपाकरोत् इत्येतद्वाक्यशेषभूतम्, समयाविषिते सूर्ये षोडशिनस्तोत्रम् इति; यथा च ऋत्विज उपगायन्ति इत्येतच्छेषभूतं नाध्वर्युरुपगायेत् इति। एवमुपायनवाक्यस्य हानिवाक्यशेषतया संभवन्त्यां गतौ न विकल्पो न्याय्य:। तदुक्तम् अपि तु वाक्यशेषस्स्यादन्याय्यत्वाद्विकल्पस्य इत्यादिना॥२६॥ इति हान्यधिकरणम् ॥ ११ ॥
३–३–१२
३८१। साम्पराये तर्तव्याभावात् तथा ह्यन्ये – सुकृतदुष्कृतयोर्हानि: अश्व इव रोमाणि विधूय धूत्वा शरीरम् इति देहवियोगकाले श्रुता। शाखान्तरे स आगच्छति विरजां नदीं तत्सुकृतदुष्कृते धूनुते इत्यध्वन्यपि श्रुताऽपि, सांपराये – चरमदेहवियोगकाल एव चिन्तनीया, देहवियोगादूर्ध्वं ब्रह्मप्राप्तिव्यतिरेकेण तरितव्यभोगाभावात्, तथा ह्यन्ये शाखिन: – तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये, इति देहवियोगसमन्तरं ब्रह्मप्राप्तिमधीयते॥२७॥
३८२। छन्दत उभयाविरोधात् – देहवियोगकाले पुण्यपापविमोचनश्रुते:, देहवियोगादूर्ध्वं ब्रह्मप्राप्तिश्रुतेश्चेत्युभयश्रुत्यविरोधाद्धेतो: सुकृतदुष्कृते धूनुते इत्ययं श्रुतिखण्ड: छन्दतो नेतव्य:, एतं देवयानं पन्थानमापद्यत, इति वाक्यखण्डात् प्रागनुगमयितव्य इत्यर्थ:॥२८॥
चोदयति-
३८३। गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोध: – देवयानगतिश्रुतेरर्थवत्त्वं उभयत्र चिन्तायामेव। अन्यथा – देहवियोगकाले एव चिन्तायां तस्मिन्नेव सर्वकर्मक्षयाद्देहाभावेन गतिर्नोपपद्यत इति हि गतिश्रुतिविरोध:॥२९॥
परिहरति –
३८४। उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् – देहवियोगकाले सर्वकर्मक्षयेऽपि गतिविधिरुपपन्न:। ब्रह्मोपासीनानामकर्मलभ्यार्थोपलब्धे:, स स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति, इत्यादौ, यथा लोके राजानमुपासीनानाम् इतरपुरुषासाधारणसर्वार्थसिद्धि:॥३०॥
३८५। यावदधिकारमवस्थितिराधिकारिकाणाम् – वसिष्ठादीनां ज्ञानिनामपि देहपातादूर्ध्वं फलान्तरानुभव:, प्रारब्धाधिकारहेतुकर्मविनाशाभावात्, यावदधिकारसमाप्ति तद्धेतुकर्मफलानुभवाय तेषां तत्रैव स्थिति:, नार्चिरादिप्राप्ति:। ज्ञानिनामपि प्रारब्धकर्म अनुभवेनैव नश्यतीति वक्ष्यते॥३१॥ इति सामपरायाधिकरणम् ॥ १२ ॥
३–३–१३
३८६। अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम् – येषूपकोसलादिषूपासनेष्वर्चिरादिगतिः आम्नाता, तन्निष्ठानामेव तया प्राप्तिरिति तच्चिन्तनमपि तेषामेवेति नियमाभाव:, अपि तु सर्वोपासननिष्ठानाम्, तथा सत्येव श्रुतिस्मृतिभ्यामविरोध:। श्रुतिस्तावत् पंचाग्निविद्यायां ये चेमेऽरण्ये श्रद्धां सत्यमुपासते तेऽर्चिषमभिसंभवन्ति, इति विशेषेण श्रुता। स्मृतिरपि, अग्निर्ज्योतिरहश्शुक्ल: इत्यादिका॥३२॥ इति अनियमाधिकरणम् ॥ १३ ॥
३–३–१४
३८७। अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् – एतद्वै तदक्षरं, अथ परा यया तदक्षरम् इत्यारभ्य अस्थूलमनण्वह्रस्वमदीर्घमलोहितम्, यत्तदद्रेश्यमग्राह्यम् इत्याद्यस्थूलत्वाद्रेश्यत्वादिविषयाणामक्षरब्रह्मसंबन्धिनीनां धियां सर्वपरविद्यासु संग्रह:। गुणिनो ब्रह्मणस्सर्वत्रैकत्वात्, एतैर्गुणैर्विना सकलेतरव्यावृत्तब्रह्मानुसन्धानानुपपत्तेश्च। हेयसंबन्धानर्हानन्दादयोऽपि प्रत्यगात्मनो ब्रह्मव्यावर्तका:। प्रधानानुवर्तित्वं हि गुणस्वभाव:। यथा जामदग्न्यचतूरात्रपुरोज्डाश्युपसद्गुणभूतमन्त्रस्य प्रधानभूतोपसदनुवर्तित्वेनोपांशुगुणकत्वम्। तदुक्तम् – गुणमुख्यव्यतिक्रमे इत्यादिना॥३३॥
नैतावता सर्वत्र सर्वोपसंहारव्याप्तिरित्याह –
३८८। इयदामननात् – आमननम् – आभिमुख्येन मननं, इयदेव गुणजातं सर्वत्रोपसंहार्यं, येन गुणजातेन सकलेतरव्यावृत्तब्रह्ममननम्॥३४॥ इति अक्षरध्यधिकरणम् ॥ १४ ॥
३–३–१५
३८९। अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् – बृहदारण्यके य आत्मेति इत्युषस्तिप्रश्न:, भूतग्रामवत्प्रत्यगात्मविषय:; अन्यथा य: प्राणेन प्राणिति स त आत्मा इति प्रतिवचनस्य कहोलविषयादशनायाद्यतीतत्वादे:, भेदानुपपत्तिरिति चेत्, न। य आत्मा सर्वान्तर: इत्युभयत्र प्रश्नैकरूप्यात् परमात्मैवोभयत्र प्रतिवचनगत:, प्राणनादिहेतुत्वमशनायादि अतीतत्वं च परमात्मन्येवोपपद्यते। प्राणानादिहेतुत्वं हि परमात्मन एव। को ह्येवान्यात् क: प्राण्यात् इत्यादि श्रुते: सद्विद्योपदेशवत् प्रश्नप्रतिवचानावृत्तिरेकविषया॥३५॥
प्रष्टृभेदोऽपि न भेदक इत्याह –
३९०। व्यतिहारो विशिंषन्ति हीतरवत् – अर्थैक्ये निश्चिते सति प्रष्ट्रोर्बुद्धिव्यतिहार: कार्य:- उषस्तिना अशनायाद्यतीतत्वधी: कार्या; कहोलेनापि प्राणनादिहेतुत्वधी: कार्या। उभयत्र प्रकरणगतवाक्यानि हि परमात्मानमेव विशिंषन्ति, यथा इतरत्र सद्विद्यायामपि॥३६॥
प्रश्नाद्यावृत्तौ कथमैक्यमित्यत्राह –
३९१। सैव हि सत्यादय: – सेयं देवतैक्षत, इति प्रस्तुता देवतैव सर्वत्र प्रश्नगता, प्रतिवचनेषु च तत्सत्यं स आत्मा इत्यादय इत्यैक्यम्॥३७॥ इति अन्तरत्वाधिकरणम् ॥ १५॥
३–३–१६
३९२। कामादीतरत्र तत्र चायतनादिभ्य: – दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तः तदन्वेष्टव्यम् इत्युक्त्वा, एष आत्मापहतपाप्मा इत्यारभ्य, सत्यकामस्सत्यसङ्कल्प इति छान्दोग्ये। वाजिनां च य एषोऽन्तर्हृादय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशान: इत्युभयत्र हृदयायतनत्वसत्यसङ्कल्पत्वतद्विशेषरूपवशित्वादिभिर्दहरविद्याप्रत्यभिज्ञानात्सत्यसङ्कल्पत्वसह-चारिणः अपहतपाप्मत्वादिसत्यसङ्कल्पत्व-पर्यन्ता: उभयत्रोपसंहार्या:॥३८॥
३९३। आदरादलोप: – नेह नानाऽऽस्ति किञ्चन, स एष नेति नेत्यात्मा इति निषेधो न वशित्वादिगुणविषय:, सर्वस्य वशी सर्वस्येशान: इति तेषामज्ञातानामादरेण विधानात्। अतो न लोप:। सर्वस्य ब्रह्मकार्यतयैक्यात् नेह नानास्ति इत्यब्रह्मात्मकनानात्वं प्रतिषिध्यते स एष नेति नेत्यात्मा इत्यादि च प्राकृतविशेषविषयम्॥३९॥
३९४। उपस्थितेऽतस्तद्वचनात् – उपस्थिते – ब्रह्मोपसंपन्ने, अत: उपसंपत्तेरेव हेतो:। जक्षत्क्रीडन् रममाण इत्यादिना छन्दतो ज्ञात्यादिप्राप्त्यभिधानात्, साक्षान्मोक्षफलं तत् न सांसारिकफलमिति परविद्यैवैषा सगुणा॥४०॥ इति कामाद्यधिकरणम् ॥ १६ ॥
३–३–१७
३९५। तन्निर्धारणानियमस्तद्दृष्टे: पृथग्घ्यप्रतिबन्ध: फलम् – उद्गीथाद्युपासनस्य क्रतुषु गोदोहनादिवदुपादानानियमः, तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद इत्युद्गीथोपासनरहितस्यापि क्रत्वनुष्ठानदर्शनात्। यदेव विद्यया करोति तदेव वीर्यवत्तररम् इति वर्तमाननिर्देशेऽपि क्रतुवीर्यवत्तरत्वसाधनतयोपासनविधि: कल्प्यते। वीर्यवत्तरत्वं नाम प्रबलकर्मान्तराप्रतिबन्धेनाविलम्बितफलत्वम्। अत: क्रतुफलात्पृथक्फलमुद्गीथोपासनमित्यनियम: ॥४१॥ इति तन्निर्धारणानियमाधिकरणम ॥१८॥
३–३–१८
३९६। प्रदानवदेव तदुक्तम् – दहरविद्यायामपहतपाप्मत्वादिगुणविशिष्टोपासने, तत्तद्गुणविशिष्टस्वरूपभेदात् प्रतिगुणं गुण्यावृत्ति:। इन्द्राय राज्ञे इत्यादिषु विशिष्टस्वरूपभेदात्प्रदानावृत्तिवत्। तदुक्तम् नाना वा देवता पृथक्त्वात् इति॥४२॥ इति प्रदानाधिकरणम् ॥ १८ ॥
३–३–१९
३९७। लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि – सहस्रशीर्षं देवम् इत्यत्र नारायणशब्देन प्रकृतदहरविद्योपास्यमात्रं न विशेष्यते, अपि तु सर्वपरविद्यासूपास्यम्, तच्चिह्नभूतवाक्यभूयस्त्वादेव। अक्षरशिवशंभुपरब्रह्मादिशब्दैस्सर्वोपास्याननूद्य नारायणत्वं हि विधीयते। प्रकरणाद्धि वाक्यं बलीय:। तदपि श्रुतिलिङ्ग इत्यादिनोक्तम्॥४३॥ इति लिङ्गभूयस्त्वाधिकरणम् ॥ १९ ॥
३–३–२०
३९८। पूर्वविकल्प: प्रकरणात्स्यात् क्रियामानसवत् – मनश्चितो वाक्चित: प्राणचित: इत्यादिसांपादिकाग्नीनाम् असद्वा इदमग्र आसीत् इत्यादिना पूर्वप्रकृतेष्टकचिताग्निशेषिभूत- क्रियामयक्रत्वनुप्रवेशस्स्यात्। एषामग्नित्वेनेष्टकचिताग्निना विकल्प:। द्वादशाहाङ्गभूतमानसग्रहवत् एषां मानसानामपि क्रियामयक्रत्वङ्गत्वं न विरुद्धम्॥४४॥
३९९। अतिदेशाच्च – तेषामेकैक एव तावान्यावानसौ पूर्व: इतीष्टकचिताग्निकार्यातिदेशाच्च तदङ्गत्वम्॥४५॥
४००। विद्यैव तु निर्धारणाद्दर्शनाच्च – विद्यैव एते, विद्यामयक्रत्वङ्गभूता इत्यर्थ:। सांपादिकाग्नित्वेनैषां विद्यामयत्वे सिद्धेऽपि ते हैते विद्याचित एव इति निर्धारणं हि विद्यामयक्रत्वन्वयेन विद्यामयत्वख्यापनाय। दृश्यते चात्र विद्यामय: क्रतु: मनसैषु ग्रहा अगृह्यन्त इत्यादौ॥४६॥
४०१। श्रुत्यादिबलीयस्त्वाच्च न बाध: – ते हैते विद्याचित एव विद्यया हैवैते एवं विदश्चिता भवन्ति इति श्रुत्या वाक्येन चावगतविद्यामयक्रत्वन्वयस्य दुर्बलप्रकरणेन न बाध:॥४७॥
४०२। अनुबन्धादिभ्य: प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् – मनसैषु ग्रहा अगृह्यन्त इत्यादिक्रत्वनुबन्धै:, ते हैते विद्याचित एव इति श्रुत्यादिभिश्चात्र विद्यामयक्रतुविधि: कल्प्यत इति दहरविद्यादीनां क्रियामयत्वात्पृथक्त्ववत्, अस्यापि विद्यामयक्रतोस्सानुबन्धै: पृथक्त्वमवगम्यते। दृष्टश्च अनुवादसरूपेऽपि विधि: यदेव विद्यया करोति इत्यादौ। तदुक्तम् वचनानि त्वपूर्वत्वात् इति॥४८॥
४०३। न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्ति: – तेषामेकैक एव तावान्यावानसौ इतीष्टकचिताग्निफलसामान्येनातिदेश: इष्टकचिताग्ने: स्वक्रतुद्वारेण यत्फलम्, तदेवैषां विद्यामयक्रत्वनुप्रवेशेन फलमिति; न पुनरिष्टकचितातिदेशत्वमप्येषामिति, केनापि सामान्यानातिदेशोपलब्धे:। यथा स एष एव मृत्यु: य एष एतस्मिन्मण्डले पुरुष इति सर्वहरत्वमात्रेण। न हि तत्र मण्डलपुरुषस्य मृत्युदेशत्वम्॥४९॥
४०४। परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्ध: – परेण च ब्राह्मणेनास्य मनश्चिदादिवाचिनश्शब्दस्य विद्यामयप्रतिपादित्वमवगम्यते अयं वा व लोक एषोऽग्निचितस्तस्याप एव इत्यादिना पृथक्फला विद्यैव विधीयते। क्रियाप्रकरणे अग्निरहस्ये मनश्चिदादीनामनुबन्धस्तु संपादनीयानामग्न्यङ्गानां भूयस्त्वात्॥५०॥ इति पूर्वविकल्पाधिकरणम् ॥ २० ॥
३–३–२१
४०५। एक आत्मनश्शरीरे भावात् – शरीरे वर्तमानत्वादुपासितु:। तस्य च कर्तृत्वभोक्तृत्वादि- स्वरूपत्वात्, तथावस्थितस्यात्मतया परविद्यासु परमात्मोपास्य इत्येके मन्यन्ते ॥५१
४०६। व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् – नैवम्, यत् कर्तृत्वादिस्वरूपस्यैवोपासितुः आत्मतया परमात्माऽनुसन्धेय इति। अपि तूपासितुस्सांसारिकस्वभावान्मुक्तस्वरूपस्य यो व्यतिरेक: अपहतपाप्मत्वादिगुणकत्वरूप:, सोऽनुसन्धेय:, तथानुसन्धानभावभावित्वात् तत्स्वरूपोपलब्धे:, यथावस्थित- स्वरूपब्रह्मानुसन्धानभाविनी हि ब्रह्मोपलब्धि:। तद्वत् यथाक्रतुरस्मिन् लोके पुरुष इत्यादिश्रुते:॥५२॥ इति शरीरे भावाधिकरणम् ॥ २१ ॥
३–३–२२
४०७। अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् – उद्गीथादिक्रत्वङ्गाश्रया उपासना: यासु शाखासु श्रूयन्ते, तास्वेव कार्या इति न ह्यस्ति नियामकम्; अत: उद्गीथानुबन्धित्वात् प्रतिशाखं कार्या:॥५३॥
४०८। मन्त्रादिवद्वाऽविरोध: – वाशब्दोऽवधारणे, यथा क्रत्वङ्गभूतानां मन्त्राणामेकैक- शाखागतानामपि सर्वशाखागतक्रत्वन्वयेनाविरोध:॥५४॥ इति अङ्गावबद्धाधिकरणम् ॥ २२ ॥
३–३–२३
४०९। भूम्न: क्रतुवज्ज्यायस्वं तथा हि दर्शयति – वैश्वानरविद्यायां त्रैलोक्यशरीरतया उपास्यस्य स्वर्लोकादिपृथिव्यन्तानां वैश्वानरात्मनो मूर्धादिपादपर्यन्तावयवत्वमभिधाय, यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु इत्यादिना ब्रह्मानुभव: फलं चाभिहितम्। तत्र मूर्धाद्यवयवोपासनात्, भूम्न: – समस्तोपासनस्य ज्यायस्त्वं – प्रामाणिकत्वमस्ति; तत्रैव ब्रह्मानुभवफलाभिधानात्। तत्रावयवोपासनम्, तत्र तत्र फलकीर्तनं च क्रताविव द्रष्टव्यम्। यथा वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते इत्युक्त्वा, यदष्टाकपालो भवति इत्यादौ। तथा, समस्तोपासनस्यैव श्रैष्ठ्यं दर्शयति श्रुति: दिवमेव भगवो राजन् इत्यवयवोपासनेऽभिहिते मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्य इत्यादिनानर्थं ब्रुवती॥५५॥ इति भूमज्यायस्त्वाधिकरणम् ॥ २३॥
३–३–२४
४१०। नाना शब्दादिभेदात् – सद्विद्याभूमविद्यादीनां ब्रह्मण एकस्यैवोपास्यत्वे तत्प्राप्तेरेव फलत्वेऽप्युपास्यत्वप्रकारभेदाद्विद्याभेद:। प्रकारभेदश्च शब्दान्तराद्यनुबन्धभेदादवगम्यते। पूर्वकाण्डोदितमपि ज्ञानस्याविधेयत्वं ब्रुवतां निरसनाय पुनरारब्धम्॥५६॥ इति शब्दादिभेदाधिकरणम् ॥ २४ ॥
३–३–२५
४११। विकल्पोऽविशिष्टफलत्वात् – एकस्मिन्नुपासके सर्वासां परविद्यानां विकल्प:, अपरिच्छिन्नानन्दरूपब्रह्मानुभवफलस्याविशिष्टत्वात्॥५७॥
४१२। काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् – ब्रह्मव्यतिरिक्तविद्याफलस्य परिमितत्वात् भूयस्त्वापेक्षया समुच्चयस्संभवतीति यथाकामं समुच्चीयेरन् विकल्पेरन्वा॥५८॥ इति विकल्पाधिकरणम् ॥ २५ ॥
३–३–२६
४१३। अङ्गेषु यथाश्रयभाव: – उद्गीथमुपासीत इत्युद्गीथाद्यङ्गेष्वाश्रितानामुद्गीथादिवत् क्रत्वङ्गभाव एव। गोदोहनादिवत् स्ववाक्ये फलान्तराश्रवणात् उद्गीथादिसंबन्धितया क्रत्वङ्गभावो न विरुध्यत इति॥५९॥
४१४। शिष्टेश्च – उद्गीथमुपासीत इति विधे:, यदेव विद्यया करोति इत्यत्र विध्यभावात् चाङ्गभावो न विरुद्ध:॥६०॥
४१५। समाहारात् – उद्गीथमनुसमाहरति इति वेदनहानावन्येन समाधानं ब्रुवत् वेदनस्याङ्गतां द्योतयति॥६१॥
४१६। गुणसाधारण्यश्रुतेश्च – प्रकृतोपासनस्यैव ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायति इति सर्वत्र संचरत: प्रणवस्य गुणत्वेनोपासनस्यापि संचारादुपासनोपादाननियमो गम्यते। अत: पूर्वोक्तोपादानानियमो न संभवति॥६२॥
४१७। न वा तत्सहभावाश्रुते: – नैतत्, अङ्गभावाश्रुते:। अङ्गभावो हि समभाव: यदेव विद्यया करोति तदेव वीर्यवत्तरम् इति फलान्तरसाधकतयाऽवगतस्योपासनस्याङ्गभावासंभवात्, उद्गीथमुपासीतेत्युद्गीथाश्रयतामात्रप्रतिपादनात्॥६३॥
४१८। दर्शनाच्च – एवं विद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजोऽभिरक्षति इति ब्रह्मणो वेदनेन सर्वरक्षणं ब्रुवन्ती श्रुतिरुद्गातृप्रभृतीनां वेदनस्यानङ्गतां दर्शयतीति उपासनोपादानानियमस्सिद्ध:॥६४॥ इति यथाश्रयभावाधिकरणम् ॥२६॥
श्रीवेदान्तसारे तृतीयस्याध्यायस्य तृतीय: पाद: ॥