श्रीवेदान्तसार:
॥ अथ द्वितीयाध्याये चतुर्थ: पाद:॥
२–४–१
२६९। तथा प्राणा: – यथा जीवोत्पत्ति: नित्यत्वश्रुतेर्नोपपद्यते। तथेन्द्रियाण्यपि, असद्वा इदमग्र आसीत्, ऋषयो वाव तेऽग्रे सदासीत्।। प्राणा वा व ऋषय: इति प्रलयकाले प्राणानां स्थित्युपदेशात्॥१॥
२७०। गौण्यसंभवात्तत्प्राक्छ्रुतेश्च – तस्य परमात्मन एव सृष्टे: प्रागवस्थानश्रुते: ऋषिशब्द: प्राणशब्दश्च परमात्मन्येव। बहुत्वासंभवात्, बहुवचनश्रुतिर्गौणी॥२॥
२७१। तत्पूर्वकत्वाद्वाच: – परमात्मन: सृष्टिपूर्वकत्वात् इतरेषां नामयोग्यस्य तदानीं प्राणशब्दो नेन्द्रियविषय:॥३॥ इति प्राणाधिकरणम् ॥ १ ॥
२–४–२
२७२। सप्तगतेर्विशेषितत्वाच्च – सप्तैवेन्द्रियाणि। सप्तप्राणा:, यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च इति सप्तानामेव सहगतेस्तेषामेव योगे विशेषितत्वाच्च॥४॥
२७३। हस्तादयस्तु स्थितेऽतो नैवम् – हस्तादयोऽपीन्द्रियाणि, जीवे देहान्तरवस्थिते उपकारकत्वाविशेषात्; अतो न सप्तैव; अपि त्वेकादश, दशेमे पुरुषे प्राणा आत्मैकादश:, इन्द्रियाणि दशैकं च इति श्रुतिस्मृतिभ्याम्, बुद्ध्यादय: मनोवृत्ति भेदा:। सप्तानां गतिश्रवणं विशेषणं च तेषां प्राधान्यात्॥५॥ इति सप्तगत्यधिकरणम् ॥ २ ॥
२–४–३
२७४। अणवश्च – तानि चाणूनि । प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति इति गतिश्रवणात्॥६॥
२७५। श्रेष्ठश्च – श्रेष्ठ: – पञ्चवृत्ति: प्राणोऽप्युत्पद्यते। उत्तरचिन्तार्थोऽय मनुवाद:॥७॥ इति प्राणाणुत्वाधिकरणम् ॥ ३ ॥
२–४–४
२७६। न वायुक्रिये पृथगुपदेशात् – पञ्चवृत्तिप्राण: न वायुमात्रम्, तत्क्रिया वा । एतस्माज्जायते प्राण:। खं वायुरिति पृथगुपदेशात्॥८॥
२७७। चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्य: – वायो: पृथग्भूतोऽयम्, नाग्न्यादिवत् भूतान्तरम्, वायुरेव देहधारणयोग्याकारमापन्न: चक्षुरादिवत् जीवोपकरणम्, चक्षुरादिभिस्सहोपदेशतत्तुल्योपकार-तन्मुख्यत्वेभ्य:॥९॥
२७८। अकरणत्वाच्च न दोषस्तथा हि दर्शयति – करणम् – क्रिया; न जीवोपकाररूपक्रियारहितत्वे दोष:; यत: श्रुतिरेव देहेन्द्रियाद्यशैथिल्यकरणं दर्शयति, प्राणोत्क्रमणे देहेन्द्रियादिशैथिल्याभिधानात्॥१०॥
२७९। पञ्चवृत्तिर्मनोवद्व्यपदिश्यते – प्राण एक एव स्ववृत्तिभि: पञ्चभि: प्राणापानादिनामभाग्भवति। कामादिभिर्यथैकमेव मन: । काम: संकल्प: इत्यारभ्य एतत्सर्वं मन एव इति॥११॥ इति वायुक्रियाधिकरणम् ॥ ४ ॥
२–४–५
२८०। अणुश्च – प्राणोऽनूत्क्रामतीत्युत्क्रान्तेरणु:॥१२॥ इति श्रेष्ठाणुत्वाधिकरणम्॥ ५ ॥
२–४–६
२८१। ज्योतिराद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् – जीवेन सह अग्न्यादे: इन्द्रियाद्यधिष्ठानम् परमात्मसङ्कल्पादेव भवति। योऽग्नौ तिष्ठन् योऽग्निमन्तरो यमयतीत्यादिशब्दात्॥१३॥
२८२। तस्य च नित्यत्वात् – सर्वस्य तन्नियाम्यत्वनियमात्॥१४॥ इति ज्योतिराद्यधिष्ठानाधिकरणम् ॥६॥
२–४–७
२८३। त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् – श्रेष्ठादन्यत्र ये प्राणा: त इन्द्रियाणि, तेष्वेवेन्द्रियव्यपदेशात्। इन्द्रियाणि दशैकं चेत्यादि॥१५॥
२८४। भेदश्रुतेर्वैलक्षण्याच्च – एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च इति भेदेनोत्पत्तिश्रुते:, इन्द्रियवृत्त्युपरमेऽपि प्राणवृत्त्यनुपरमवैलक्षण्याच्च॥१६॥ इति इन्द्रियाधिकरणम् ॥ ७॥
२–४–८
२८५। संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् – देवादिनामरूपव्यष्टिसृष्टि: चतुर्मुखशरीरकात् परमात्मन एव, न केवलचतुर्मुखात्; नामरूपे व्याकरणवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणि इति त्रिवृत्करणं कुर्वतो नामरूपव्याकरणोपदेशात्। त्रिवृत्करणं तु केवलचतुर्मुखस्य न संभवति, त्रिवृत्कृतैस्तेजोबन्नैरण्डमुत्पाद्य पश्चाच्चतुर्मुखसृष्टि:, तदण्डमभवद्धैमम् तस्मिञ्जज्ञे स्वयंब्रह्मा इत्यादि स्मृते:॥१७॥
२८६। मांसादि भौमं यथाशब्दमितरयोश्च – अन्नमशितं त्रेधा विधीयते इत्यत्र प्रागुक्तत्रिवृत्करणादर्थान्तरभूत: अण्डान्तर्वर्तिपुरुषभुक्तान्नादीनां परिणामप्रकार उच्यते। अन्यथा मांसमनसो: पुरीषादणीयस्त्वेनाप्यत्वतैजसत्वप्रसक्ति:। तथा सति अन्नमशितं त्रेधा इति भूमेरेव त्रिधात्वोपक्रम:, अन्नमयं हि सोम्य मन: इति मनसो भौमत्वं च विरुध्यते। तथेतरयो: अप्तेजसो: त्रैविध्यं विरुध्यते, तदिदमाह – मांसादिभौमं यथा शब्दमितरयोश्चेति। पुरीषवन्मांसमनसी अपि भौमे इतीहोच्यते। तथा मूत्रवल्लोहितप्राणावप्याप्यौ। तथा अस्थिवन्मज्जावाचौ तैजस्यौ॥१८॥
पूर्वमेव त्रिवृत्कृतं चेत्, त्र्यात्मकं वस्तु कथमन्नमापस्तेज इत्युच्यत इत्यत्राह –
२८७। वैशेष्यात्तु तद्वादस्तद्वाद: – अन्नादिभूयस्त्वेन वैशेष्यादन्नादिवाद:॥१९॥ इति संज्ञामूर्तिकॢप्त्यधिकरणम् ॥
इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे द्वितीयस्याध्यायस्य
चतुर्थ: पाद: । समाप्तश्चाध्याय: ॥