श्रीवेदान्तसार:
॥ अथ तृतीयाध्यायस्य द्वितीय: पाद:॥
३–२–१
३१५। सन्ध्ये सृष्टिराह हि – सन्ध्ये – स्वप्ने, अथ रथान् रथयोगान् इत्यादिना अभिहिता सृष्टिर्जीवकृता। पुष्करिण्यस्स्रवन्त्यस्सृजते स हि कर्ता, इति। स्वप्नदृशं जीवमेव कर्तारमाह श्रुति:॥१॥
३१६। निर्मातारं चैके पुत्रादयश्च – य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाण:, इति, एनं जीवं स्वाप्नार्थनिर्मातारम् एके शाखिनोऽधीयते। अत्र कामशब्दनिर्दिष्टा: काम्यमानतया पुत्रादय:, पूर्वत्र सर्वान् कामान् छन्दत: इत्युक्त्वा शतायुष: पुत्रपौत्रान् इति विवृतत्वात् ॥२॥
३१७। मायामात्रं तु कार्त्स्न्येनाऽनभिव्यक्तस्वरूपत्वात् – स्वप्ने या रथादिसृष्टि:, तदिदमीश्वरकृतं मायामात्रम्। स्वप्नदृशैवानुभाव्यं तत्कालमात्रावसानमित्याश्चर्यतया मायेत्युक्तम्। जीवस्य सत्यसङ्कल्पत्वादिकं स्वाभाविकं स्वरूपं संसारदशायां कार्त्स्न्येनानभिव्यक्तमिति। न तस्य सङ्कल्पमात्रात् सृष्टिरुपपद्यते। स हि कर्ता, पुरुषो निर्मिमाण: इति न जीवविषयम्। तस्मिल्लोकाश्श्रितास्सर्वे इति वचनात्। स्वाभाविकस्य अनभिव्यक्तिहेतुमाह॥३॥
३१८। पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ – जीवस्यानाद्यपचारप्रवाहेण पराभिध्यानादेव तिरोहितम्। तदपचारात्तदनुवृत्तेर्हि अस्य बन्धविपर्ययौ। अथ तस्य भयं भवति, अथ सोऽभयङ्गतो भवति इति श्रुते:॥४॥
३१९। देहयोगाद्वा सोऽपि – सोऽपि तिरोभाव:, देवमनुष्यादिदेहाकाराचिद्योगात् सृष्टिवेलायाम्, नामरूपविभागानर्हासूक्ष्माकाराचिद्योगात् प्रलये॥५॥
३२०। सूचकश्च हि श्रुतेराचक्षते च तद्विद: – अथ स्वप्ने पुरुषं कृष्णं कृष्णदन्तम् इत्यादि श्रुते: शुभाशुभसूचकश्च हि स्वप्न:। स्वप्नविदश्चाचक्षते तत्। अतो न जीवस्स्रष्टा स्वाप्नार्थानाम्॥६॥ इति सन्ध्याधिकरणम् ॥ १ ॥
३–२–२
३२१। तदभावो नाडीषु तच्छ्रुतेरात्मनि च – स्वप्नाभाव: – सुषुप्ति:। आसु तदा नाडीषु सृप्तो भवति, सता सोम्य तदा सम्पन्नो भवति, इति श्रुते: नाडीषु परमात्मनि पुरीतति शेते इति श्रुते: पुरीतति च। प्रासादखट्वापर्यङ्कवदविरोध:॥७॥
३२२। अत: प्रबोधोऽस्मात् – सत आगम्य न विदु: इति ब्रह्मण: प्रबोधश्रुति: अत एव॥८॥ इति तदभावाधिकरणम् ॥ २ ॥
३–२–३
३२३। स एव तु कर्मानुस्मृतिशब्दविधिभ्य: – सता संपन्नोऽपि सुप्त एव प्रबुद्ध उत्तिष्ठति, ज्ञानवैधुर्येण कृतस्य कर्मणस्तेनानुभाव्यत्वात्। पूर्वानुभूतप्रत्यभिज्ञानात्। त इह व्याघ्रो वा इत्यादि। यद्यद्भवन्ति तथा भवन्ति इति शब्दात्, मोक्षोपायविध्यानर्थक्याच्च॥९॥ इति कर्मानुस्मृतिशब्दविध्यधिकरणम् ॥३॥
३–२–४
३२४। मुग्धेऽर्धसंपत्ति: परिशेषात् – मूर्च्छिते पुरुषे या अवस्था, सा मरणायार्धसंपत्तिरिति हेतुभेदादाकारभेदादपुनरुत्थाननियमाभावाच्च ज्ञायते॥१०॥ इति मुग्धाधिकरणम् ॥
३–२–५
३२५। न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि – जागरादिषु चतसृष्ववस्थास्वन्तर्यामित्वेन स्थितेरपि परस्य ब्रह्मणो न कश्चन दोष:। यतस्सर्वत्र श्रुतिस्मृतिषु निरस्तनिखिलदोषसंबन्धत्वसमस्त- कल्याणगुणाकरत्वरूपोभयलिङ्गं परं ब्रह्म श्रुतम्। अपहतपाप्मा विजर:, निरवद्यं, यस्सर्वज्ञ स्सर्ववित्, समस्तकल्याणगुणात्मकोऽसौ, सकला न यत्र क्लेशादय: इत्यादिषु॥११॥
३२६। भेदादिति चेन्न प्रत्येकमतद्वचनात् – जीवस्य स्वतोऽपहतपाप्मनोऽपि शरीरसंबन्धित्वावस्थाभेदात् यथा दोषसंबन्ध:, तथा परस्यापि, यस्य पृथिवी शरीरम् इति शरीरसंबन्धित्वाद्दोष इति चेत्, न, यस्य पृथिवी शरीरम् इत्यादिषु प्रतिपर्यायं स त आत्माऽन्तर्याम्यमृत: इति निर्दोषत्ववचनात्॥१२॥
३२७। अपि चैवमेके – एकस्मिन् शरीरेऽवस्थितयोर्जीवपरयोर्योविशेष उक्त:, एवमेके स्वशब्देनाधीयते, द्वा सुपर्णा इत्यारभ्य पिप्पलं स्वाद्वत्ति अनश्नन्यन्योऽभिचाकशीति। इति॥१३॥
३२८। अरूपवदेव हि तत्प्रधानत्वात् – मनुष्यादिशरीरेषु शरीरत्वेऽपि रूपरहितवस्तुवदेव वर्तते तत् – ब्रह्म, जीवनामरूपयोरपि निर्वोढृत्वेन प्रधानत्वात्, तथा हि श्रुति: नामरूपयोर्निर्वहिता ते यदन्तरा इति नामरूपयोरन्तरा अस्पृष्टो मध्ये वर्तते। अवश्य इत्यर्थ:॥१४॥
३२९। प्रकाशवच्चावैयर्थ्यात् – यथा, सत्यं ज्ञानम् इति वाक्यावैयर्थ्यात् स्वप्रकाशतया ज्ञानस्वरूपं ब्रह्म, तथा, निरवद्यम्, यस्सर्वज्ञस्सर्ववित्, परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च, इत्यादिपरश्शतवाक्यावैयर्थ्यात् निरवद्यं कल्याणगुणाकरं चेत्युभयलिङ्गमेव॥१५॥
३३०। आह च तन्मात्रम् – सत्यं ज्ञानम् इति ज्ञानस्वरूपमात्रमाह, नान्यन्निवारयति, अविशेषात्, विरोधाभावाच्च॥१६॥
३३१। दर्शयति चाथो अपि स्मर्यते – दर्शयति च निर्दोषत्वं कल्याणगुणाकरत्वञ्च वेदान्तगण: निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्, तमीश्वराणां इत्यादि: । यो मामजमनादिम् इत्यादिना स्मर्यते च तत्॥१७॥
३३२। अत एव चोपमा सूर्यकादिवत् – यत: पृथिव्यादौ सर्वत्र स्थितस्यापि निर्दोषत्वं, कल्याणगुणाकरत्वञ्च, अत एव शास्त्रेषु जलसूर्यकादिवदित्युपमा – आकाशमेकं हि यथा …… जलाधारेष्विवांशुमान् इति॥१८॥
चोदयति –
३३३। अम्बुवदग्रहणात्तु न तथात्वम् – अम्बुनि सूर्यो यथा गृह्यते न तथा परमात्मा पृथिव्यादौ, अत परमार्थतस्स्थित:, अतो न निर्दोषत्वमिति। परिहरति॥१९॥ –
३३४। वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच्च – नेति वर्तते। नैवम्। पृथिव्यादिष्वन्तर्भावात् परस्य तद्गतवृद्धिह्रासभाक्त्वं दृष्टान्तेन निवर्त्यते। इत्युभयदृष्टान्तोपादानसामञ्जस्यादवगम्यते। आकाशमेकं हि यथा इति वस्तुतस्स्थितमाकाशं, वस्तुतोऽनवस्थितं च सूर्यकमुभयमुपादत्ते, अनवस्थितस्य यथा न दोषस्पर्श: तथा स्थितस्यापि हेत्वभावादिति ज्ञापयितुम्। विवक्षितधर्मसाम्यज्ञापनाय सिंह इवेति दृष्टान्तो दृश्यते। अथवा दर्शनाच्चेति। अश्व इव रोमाणि विधूय पापम् इत्यादौ विवक्षितसाम्यान्वयो दार्ष्टान्तिके हि दृश्यते। अश्वो हि रोमाणि सहजानि स्वावयवभूतानि मूर्तद्रव्याणि स्वशरीरं कंपयन् कानिचिन्मुञ्चति। आत्मा तु स्वेन कदाचिदनुष्ठितानि क्षणध्वंसितया विनष्टानि कर्माणि भगवदप्रीतिकराणीति भगवता स्वाप्रीतिकृतदु:खानि दातुं प्रवृत्तेन उपासनप्रीतिकृतानुग्रहान्निवर्तितानीति तत्संपर्काभावमनुसन्दधाति॥२०॥
अथात आदेशो नेति नेति इति सकलविशेषप्रतिषेधात् नोभयलिङ्गमित्यत आह –
३३५। प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय: – द्वे वाव ब्रह्मणो रूपे इत्यारभ्य, कृत्स्नस्य प्रपञ्चस्य ब्रह्मणो रूपत्वेनाप्रज्ञातस्य रूपत्वमुपदिश्य, पुनस्तस्यैव प्रतिषेधासंभवात्, प्रकृतैतावन्मात्रं न भवति ब्रह्मेति ब्रह्मण: प्रकृतेयत्तां नेति नेति इति प्रतिषेधति। तत: – पश्चात्, पूर्वमनुक्तं गुणगणं ब्रवीति च, न ह्येतस्मादिति नेत्यन्यत्परमस्ति इति नेति निर्दिष्टाद्ब्रह्मणः अन्यन्न ह्यस्तीत्युत्कृष्टम्। अथ नामधेयम् सत्यस्य सत्यम् इति च, तन्निर्वचनम् – प्राणा वै सत्यं तेषामेव सत्यम् इति । प्राणा: – जीवात्मान: वियदादिवदुत्पत्त्यभावात् सत्यम्, तेभ्योऽप्येष सत्यम् ज्ञानसङ्कोचाद्य- भावात्। अत: प्रकृतेयत्ता प्रतिषेधादुभयलिङ्गमेव॥२१॥
प्रत्यक्षेण सन्मात्रम् ब्रह्मैव गृह्यते, अन्यत्सर्वं भ्रान्तमिति, नेति नेति इति निषेधार्थ इत्यत्राह-
३३६। तदव्यक्तमाह हि – ब्रह्मस्वरूपं न केनापि प्रमाणेन व्यज्यते, तथाऽह हि श्रुतिगण: न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् इत्यादि:। प्रत्यक्षादिना तु पटादेरेवास्तित्वं गृह्यते न ब्रह्मण:॥२२॥
३३७। अपि संराधने प्रत्यक्षानुमानाभ्याम् – अपि चात्यर्थप्रियानुध्यानरूपसम्यक्प्रीणने सति ब्रह्मस्वरूपं गृह्यत इति श्रुतिस्मृतिभ्यामवगम्यते। नायमात्मा प्रवचनेन लभ्य: इति श्रुति:। नाहं वेदै: इत्यादिस्मृति:॥२३॥
३३८। प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् – संराधनकर्मण्यभ्यासात्, येषां ब्रह्मस्वरूपदर्शनं जातम्, ज्ञानानन्दादेरिव जगदैश्वर्यस्यावैशेष्यं प्रतीयते। अहं मनुरभवं सूर्यश्च इत्यादौ॥२४॥
३३९। अतोऽनन्तेन तथा हि लिङ्गम् – अत: द्वे वाव ब्रह्मणो रूपे इत्यादिनोपदिष्टेनानन्तेन कल्याणगुणगणेन योगो ब्रह्मणस्सिद्ध:। तथा सत्युभयलिङ्गमेव ब्रह्म ॥२५॥ इति उभयलिङ्गाधिकरणम्॥
३–२–६
३४०। उभयव्यपदेशात्त्वहिकुण्डलवत् – आत्मैवेदं सर्वम्, अस्मान्मायी सृजते इत्येकत्वनानात्वव्यपदेशात्। अहे: कुण्डलभावादिवत् ब्रह्मस्वरूपस्यैव द्वे वाव ब्रह्मणो रूपे इत्यादिनोक्त: पृथिव्यादिभाव:॥२६॥
३४१। प्रकाशाश्रयवद्वा तेजस्त्वात् – प्रकाशतदाश्रययोर्यथा स्वरूपभेदेऽपि तेजस्त्वयोगेनैक्यम्, एवमचिद्ब्रह्मणोश्चैकजातियोगेन॥।२७॥
३४२। पूर्ववद्वा – वाशब्द: पक्षद्वयव्यावृत्त्यर्थ:। यथा पूर्वत्र जीवस्य प्रकाशजातिगुण शरीरवद्विशेषणतैकस्वभावतया विशिष्टैकदेशत्वेनांशत्वम्, एवमचिद्वस्तुनोऽपि। आत्मैवेदं सर्वं चिदचितोरेकेनैव शब्देन ऐक्याभिधानमित्यंशत्वमप्येकरूपमिति पूर्ववद्वेत्युक्तम्। इतरपक्षयो: ब्रह्मणस्सदोषतादिदुर्वारमित्यर्थ:। यस्य पृथिवी शरीरम्, यस्यात्मा शरीरम् इति चिदचिद्वस्तुनोश्शरीरतया तद्विशेषणस्वभावता सिद्धा॥२८॥
३४३। प्रतिषेधाच्च – नास्य जरयैतज्जीर्यति, विजरो विमृत्यु: इत्यादिनाऽचिद्धर्मप्रतिषेधात् चैवम्॥२९॥ इति उभयव्यपदेशाधिकरणम् ॥ ६ ॥
३–२–७
३४४। परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्य: – जन्माद्यस्य यत: इत्यादिना प्रतिषेधाच्च इत्येतदन्तेन यत्परमकारणं ब्रह्म प्रतिपादितम् अत:परमपि किञ्चित्तत्त्वमस्तीति युक्त्याभासेनाशङ्क्यते। अथ य आत्मा स सेतु:, एतं सेतुं तीर्त्वा, चतुष्पाद्ब्रह्म, अमृतस्यैष सेतु: इत्यादिभिरस्य ब्रह्मण: सेतुत्वतरितव्यत्वपरिमितत्वप्रापकत्वव्यपदेशेभ्य:, तेनेदं पूर्णं पुरुषेण सर्वम्, ततो यदुत्तरतरम्, इत्येतस्मादर्थान्तरव्यपदेशाच्चान्यत्परमस्तीति॥३०॥
३४५। सामान्यात्तु – तु शब्देनैतद्व्यावर्तयति। नैतद्युक्तम्। कुत:? न ह्येतस्मादिति नेत्यन्यत्परमस्ति इति मूर्तामूर्तप्रपञ्चप्रकारतया तद्विशिष्टात्, इति नेति निर्दिष्टात् ब्रह्मणोऽन्यत्परं नास्तीत्यादिनिषेधसहस्रात्। परस्मिन् ब्रह्मणि सेतुत्वव्यपदेश: प्रशासनात् सर्वलोकासङ्करकरत्वेन सेतु सामान्यात्तु तथाह – अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय इति। सर्वं खल्विदं ब्रह्म तज्जलान् इति शान्त उपासीत इत्यारभ्य, उक्तजगन्निमित्तोपादनभूतस्यैव ब्रह्मण: एतमित: प्रेत्याभिसंभवितास्मि इति परमप्राप्यत्ववचनात् । तरतिरपि प्राप्तिवचन: ॥३१॥
३४६। बुध्यर्थ: पादवत् – चतुष्पादित्युन्मानव्यपदेशोऽपि, वाक्पाद: चक्षु: पाद: इतिवदुपासनार्थ:॥३२॥
३४७। स्थानविशेषात्प्रकाशादिवत् – अपरिमितस्यापि स्थानविशेषसंबन्धादवच्छिद्यानुसन्धानं युज्यते, प्रकाशाकाशादेरिव विततस्यापि वातायनघटादिना॥३३॥
३४८। उपपत्तेश्च – प्राप्यस्यैव परमात्मन: प्रापकत्वोपपत्ते:, यथाऽऽह। यमेवैष वृणुते तेन लभ्य: इति॥३४॥
३४९। तथाऽन्यप्रतिषेधात् – यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् इत्यस्मिन्वाक्ये पुरुषादन्यस्य ज्यायस्त्वप्रतिषेधादितोऽधिकं नास्ति, ततो यदुत्तरतरम् इति तु, यत: पुरुषतत्त्वादन्यदुत्कृष्टं नास्ति, तत उत्तरतरं पुरुषतत्त्वमेव अरूपमनामयम्, य एतद्विदुरमृतास्ते भवन्ति, अथेतरे दु:खमेवापियन्ति इत्युपक्रमप्रतिज्ञातं सहेतुकमुसंहृतम्। तमेव विदित्वाऽति मृत्युमेति नान्य: पन्था विद्यतेऽयनाय इत्युपक्रमे प्रतिज्ञातम्। अन्यथा उपक्रमविरोधश्च ॥३५॥
३५०। अनेन सर्वगतत्वमायामशब्दादिभ्य: – अणोरणीयान्महतो महीयान् , तेनेदं पूर्णं पुरुषेण सर्वम्, व्याप्य नारायण: स्थित:, नित्यं विभुं सर्वगतं सुसूक्ष्मं, इत्यादिशब्दैरनेन ब्रह्मणा स्वव्यतिरिक्ततत्त्वस्य व्याप्तत्वमनवगतम्। तत्तु तस्मात्परं वारयति॥३६॥ इति पराधिकरणम् ॥
३–२–८
३५१। फलमत उपपत्ते: – अत: – परस्माद्ब्रह्मण एव कर्मभिरुपासनेन चाराधितात् भोगापवर्गरूपफलं सिद्ध्यति, कर्म क्षणध्वंसि न कालान्तरभाविफलायालमिति सर्वज्ञात् परमकारुणिकात् फलसिद्धिरुपपद्यते॥३७॥
३५२। श्रुतत्वाच्च – श्रुतमेव हि अन्नादो वसुदान:, एष ह्येवानन्दयाति, इति तस्यैव फलदायित्वम्॥३८॥
३५३। धर्मं जैमिनिरत एव – धर्ममेव अत: – उपपत्ते:, श्रुतत्वाच्च, फलदायिनं जैमिनिर्मेने। उपपत्तिस्तु कृष्यादेर्मर्दनादेश्च कर्मणस्साक्षात्परंपरया वा फलसिद्धिदर्शनम्। श्रुतत्वञ्च कामिन: कर्तव्यतया कर्मविधानान्यथानुपपत्त्या कर्मैवापूर्वद्वारेण तत्तत्फलसाधनमिति निश्चय:॥३९॥
३५४। पूर्वं तु बादरायणो हेतुव्यपदेशात् – पूर्वोक्तं परमपुरुषस्यैव फलदायित्वं भगवान् बादरायणो मन्यते, वायव्यं श्वेतमालभेत इत्यादिषु स एवैनं भूतिं गमयति इति भगवदात्मकतया वाय्वादे: कर्मविधिष्वेव फलहेतुत्वव्यपदेशात्। वाक्यशेषस्थं विध्यपेक्षितं हि। प्रतितिष्ठन्ति ह वा इत्यादिषु स्वीक्रियते। यो वायौ तिष्ठन् इति हि श्रूयते॥४०॥ इति फलाधिकरणम् ॥ ८ ॥
इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे तृतीयस्याध्यायस्य द्वितीय: पाद:॥