विषयवाक्यदीपिका ईक्षतिकर्माधिकरणम्

॥ श्रीरस्तु ॥

॥ श्रीमते रामानुजाय नमः॥

।। विषयवाक्यदीपिका ।।

।।श्रीरङ्गरामानुजमुनिप्रणीता।।

ईक्षतिकर्माधिकरणम्

ईक्षतिकर्म व्यपदेशात् सः (ब्र.सू.1.3.12)प्रश्नोपनिषदि पंचमप्रश्ने ।अथ हैनं शैष्यं सत्यकामः प्रपच्छ ।।स्पष्टोऽर्थः ।।स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोंकारमभिध्यायीत कतमं वा व स तेन लोकं जयति ।।ह वा इति प्रसिद्ध्यर्थः । तदित्यव्ययं स य इत्येतदधिकारिसामान्यपरम् । अयमर्थः हे भगवन्पूजार्ह । योऽधिकारी मनुष्याणां मध्ये मरणान्तम् एतदोंकारमभिध्यायति सः कतमं लोकं तेनोङ्कारेण प्राप्नोतीत्यर्थः । वा व शब्दोऽवधारणे प्रसिद्धौ वा ।।तस्मै स होवाच ।।स्पष्टोऽर्थः ।।एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारस्तस्माद्विद्वानेतेनैवायनेनै कतरमन्वेति ।।हे सत्यकाम एतदेव परं चापरं ब्रह्मोभयवाचकमित्यर्थः । वाच्यवाचकभावनिबंधनं सामानाधिकरण्यम् । तथैव व्यासार्यैः “इक्षतिकर्माधिकरणे” (ब्र.सू.1.3.12) व्याख्या तत्वात् । किं तदित्यत्राह यदोंकारस्तदुपासक एतेनैवोंकाररूपेणैकतरं परमपरं वा ब्रह्मान्वेत्युपास्त इत्यर्थः ।।स यद्येकमात्रमभिद्ध्ययीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसंपद्यते ।।स उपासकः यद्येकमात्रं ह्रस्वं प्रणवमपरब्रह्मवाचकमभिध्यायीतापरब्रह्मवाचकेन ह्रस्वेन प्रणवेन योऽपरं ब्रह्मोपास्ते स तेनैवैकमात्रोंकारकरणकाय परब्रह्मध्यानेनैव संवेदितो लब्ध सत्ताको जगत्यां भुव्यभिसंपद्यते ।।तमृचो मनुष्यलोकमुपनयन्ते ।।तमृङ्मंत्रा मनुष्यलोकं प्रापयन्ति ।।स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति ।।स मनुष्यलोकं नीतस्तपसानशनादिना ब्रह्मचर्येण मैथुनवर्जनेन श्रद्धयास्तिक्यबुद्ध्या यदि संपन्नो भवति । तदा महिमानं श्रेयस्साधनकं ब्रह्मोपासनमनुतिष्ठतीत्यर्थः। नचैचोह्रस्वत्वाभावात्कथमोंकारस्यह्रस्वत्वमितिशङ्कनीयम् । न्यूंखेह्रस्वस्योंकारस्यदर्शनात् ।।अथ यदि द्विमात्रेण मनसि संपद्यते ।।द्विमात्रेणापरब्रह्मवाचकेन प्रणवेन यस्य मनस्यपरब्रह्मध्यानं संपद्यते ।।सोऽन्तरिक्षं यजुर्भिरुन्नीयते स सोमलोकम् ।।अन्तरिक्षम्-अन्तरिक्षाश्रिते सोमलोकं द्विमात्रोपासकः पुमान्यजुर्मंत्रैरुन्नीयते अत्रांतरिक्षसोमलोकः उर्ध्वलोकमात्रोपलक्षकः आमुष्मिकमात्रपरः । अत एव “ईक्षति कर्माधिकरणभाष्ये” (ब्र.सू. 1.3.12) यदपरं कार्यमपरब्रह्मनिर्दिष्टं तदैहिकामुष्मिकत्वेन द्वेधा विभज्यैकमात्रं प्रणवमुपासीनानामैहिकं मनुष्यलोकावाप्तिं फलमभिधाय द्विमात्रमुपासीना नामामुष्मिकमंतरिक्षशब्दोपलक्षितं फलं चाभिधायेत्युक्तम् ।स सोमलोके विभूतिमनुभूय पुनरावर्तते ।।आमुष्मिकैश्वर्यमनुभूय तत्पुण्यावसाने पुनरावर्तते ।यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परमपुरुषमभिध्यायीत ।।एकमात्रत्वद्विमात्रत्वदशायामर्वाचीनफलसाधनेनैवाक्षरेण त्रिमात्रेण परमात्मान मभिध्यायीत आभिमुख्येन ध्यायतीत्यर्थः ।।स तेजसि सूर्ये संपन्नः यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकम् ।।स उपासकस्तेजोमंडले सूर्ये संगतः सन्नुदरमेव पादा यस्य स पादोदरःसर्प इति यावत् । यथा सर्पो जीर्णत्वचा विनिर्मुक्तो भवत्येवं पाप्मना विनिर्मुक्तःसन् ब्रह्मलोकं वैकुण्ठंं सामभिर्गीतप्रधानैर्मंत्रैरुन्नीयते । अत्र व्यासार्यैः स पाप्मना विनिर्मुक्त इति तच्छब्दांतर श्रवणात्स सामभिरित्यैकपद्यमाश्रित्य सामगानसहितैरिति वा सांत्ववचनसहितैः पुरुषैरिति वार्थः इति वर्णितम् ।।स एतस्माज्जीवधनात्परात्परं पुरिशयं पुरुषमीक्षते ।।”ईक्षति कर्माधिकरणे” (ब्र.सू. 1.3.12) यस्य हि कर्मनिमित्तं देहित्वं स जीवघन इत्युच्यते । चतुर्मुखस्यापि तच्छ्रूयते “यो ब्राह्मणं विदधाति पूर्वमि”त्यादिभाष्योक्तेर्जीवघन शब्देन संसारिमंडलमुच्यते । “मूर्तौ धन” इति काठिन्यशब्दितमूर्तौ धनशब्दस्य निपाति तत्वाद्देहद्वारत्वादात्मकाठिन्यस्य धनशब्दो देहिपर एव । तस्मात्परः परिशुद्धात्मा । तस्मादपि परभूतं पुरिशयं पूःप्राणिनः सर्वगुहाशयस्येति सर्वेषु प्राणिष्वंतरात्मतया शयानम् । “भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी च वर्तेते वासुदेवे सनातने” इति निरुपाधिक पुरुषशब्दवाच्यं भगवन्तं परवासुदेवमीक्षते इत्यर्थः । अत एव सामभिरुन्नीयते ब्रह्मलोकमित्यत्र ब्रह्मलोकशब्दस्यचतुर्मुखलोकपरत्वशंकाव्युदस्ता । चतुर्मुखलोकगतानां परवासुदेवेक्षणासंभवादिति द्रष्टव्यम् ।।तदेतौ श्लोकौ भवतः ।।तदोंकारध्यानमधिकृत्य वक्ष्यमाणौ श्लोकौ प्रवृत्तावित्यर्थः ।।तिस्रो मात्रा मृत्युमत्यःप्रयुक्ता अन्योऽन्यसक्ता अनविप्रयुक्ताः ।अविप्रयुक्ता न भवंतीत्यनविप्रयुक्ताः विप्रयुक्ता इति यावत् । अत्यंतद्रुतोच्चारणेन अन्योऽन्यसक्ततया अतिविप्रकृष्टकालतया अत्यंतविप्रयुक्ततया वा प्रयुक्ता स्तिस्रो मात्रा मृत्युमत्यः मृत्युप्रदाः अनर्थावहा इति यावत् ।क्रियासु बाह्यांतरमध्यमासु सम्यक्प्रयुक्तासु न कंपते ज्ञः ।यज्ञाद्या बाह्यक्रियाः आंतरा मानसक्रियाः मध्यमाः वाचकजपरूपादिक्रिया । आसु क्रियासु तिसृषु मात्रा सम्यगत्यं तसंयोगविप्रयोगमंतरेण प्रयुक्तासु सतीषु ज्ञः तत्प्रयोगाभिज्ञः पुमान्न कंपते फलान्न च्यवत इत्यर्थः ।।ऋुग्भिरेतं यजुर्भिरंतरिक्षं सामभिर्यत्तत्कवयो वेदयंते ।तमोंकारेणैवायनेनान्वेति विद्वान् यत्तच्छांतमजरममृतमभयं परं चेति ।।ऋभिरेतंमनुष्यलोकमित्यर्थः । यजुर्भिरंतरिक्षम्-आमुष्मिकमित्यर्थः । यत्तत्कवयोवेदयंतेकवयः क्रांतदर्शिन इत्यर्थः । “तद्विष्णोः परमं पदं सदा पश्यंति सूरयः” इत्युक्तरीत्या सूरयःयंलोकंपश्यंतितमोंकारेणैवमार्गेणान्वेति गत्वाच शांतमूर्मिषट्करहितंजरामरणशून्यमकुतोभयम् ।सर्वकारणत्वेन सर्वोत्कृष्टं ब्रह्म च प्राप्नोतीत्यर्थः ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.