विषयवाक्यदीपिका मध्वधिकरणम्

॥ श्रीरस्तु ॥

॥ श्रीमते रामानुजाय नमः॥

।। विषयवाक्यदीपिका ।।

।।श्रीरङ्गरामानुजमुनिप्रणीता।।

मध्वधिकरणम्

मध्वादिष्संभवादनधिकारंजैमिनिः (ब्र.सू.1.3.30)छान्दोग्ये तृतीयाध्यायारंभे मधुविद्या प्रस्तूयते ।।असौ वा आदित्यो देवमधु ।।वस्वादीनां देवानामामोदहेतुत्वान्मधु । अत्र मधुत्वदृष्टिः कर्तव्येत्यर्थः । मधुत्वोपयोगिनीं दृष्टिं संपादयति ।।तस्य द्यौरेव तिरश्चीनवँशः ।।तस्यऽऽदित्याख्यमधुनो द्युलोक एवाधारभूतस्तिर्यक्प्रसारितो वंशः ।।अंतरिक्षमपूपः ।।अंतरिक्षं मध्वपूपः । मध्वाश्रयापूपो हि तिरश्चीनवंशलग्नः सन् लंबते एवमंतरिक्षमपि द्युलोकलग्नं लंबत इव भातीत्यतोमध्वपूपत्वम् ।।मरीचयः पुत्राः ।।मरीचिशब्देन मरीचिस्थास्सवित्राकृष्टा भौम्य आप उच्यते । ता पुत्रा इव पुत्राः भ्रमरबीजभूता मध्वपूपच्छिद्रस्थाः सूक्ष्मकीटा इत्यर्थः ।।तस्यादित्यस्य ये प्रांचो रश्मयः ।।तस्य ये प्रांचो रश्मयः ।।त एवास्य प्राच्यो मधुनाड्यः ।।ता एव प्राग्दिगवच्छिन्नमधुनाड्यो मधुच्छिद्राणि ।।ऋुच एव मधुकृतः ।।ऋुङ्मंत्रा एव भ्रमराः ।।ऋुग्वेद एव पुष्पम् ।।ऋुग्वेदविहितं कर्मपुष्पस्थानीयम् ।।ता अमृता आपः ।।ताः कर्मणि प्रयुक्ताः सोमाज्यपयोरूपा आपः । अग्नौ प्रक्षिप्ताः पाकादिभिर्निर्वृत्ता अमृताः अत्यंतरसवत्यो भवंति ।।ता वा एता ऋुच एतमृग्वेदमभ्यतपन् ।।ता वा एता ऋुचः भ्रमरस्थानीयाः पुष्पेभ्यो रसमाददाना भ्रमरा इवैतदृग्वेद विहितं कर्मपुष्पस्थानीयमभ्यतपन् अभितापं कृतवत्य इव ।।तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ।।यशस्तेज इन्द्रियवीर्यान्नाद्यलक्षणो रसोऽजायतेत्यर्थः । ऋुग्भिर्मत्रैः स्तोत्रशस्त्राद्यंगभावमुपगतैः क्रियमाणं कर्म मधुनिर्वर्तकं सोमाज्यादिरसं मुंचति पुष्पमिव भ्रमरैराचूष्यमाणम् ।तेन च यशस्तेज इंद्रियवीर्यादिलक्षणं फलमुत्पन्नं भवति ।।तद्व्यक्षरत् ।।तद्यश आदिलक्षणं फलं विशेषेणागमत् ।।तदादित्यमभितोऽश्रयत् ।।गत्वा चादित्यमभितः श्रितवदित्यर्थः ।।तद्वा एतद्यदेतदादित्यस्य रोहितँ रूपम् ।।आदित्ये प्रत्यक्षतः परिदृश्यमानं यद्रूपं तत्कर्म निर्वर्त्त्य यशस्तेज आदि लक्षण फलरूपमित्यर्थः । रोहिते रूपे तद्बुद्धिः कर्तव्येति यावत् ।।अथ येऽस्य दक्षिणारश्मयस्ता एवास्य दक्षिणामधुनाड्यः । यजूंष्येव मधुकृतो यजुर्वेद एवपुष्पं ता अमृता आपः । तानि वा एतानि यजूंष्येतंयजुर्वेदमभ्यतपन् । तस्याभितप्तस्यय शस्तेज इन्द्रियं वीर्यमन्नाद्यं रसो जायत ।तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य शुक्लँ रूपम् । अथ येऽस्य प्रत्यंचो रश्मयः ता एवास्य प्रतीच्यो मधुनाड्यःसामान्येव मधुकृतःसामवेद एव पुष्पं ता अमृता आपःतानि वा एतानि सामान्येतँ सामवेदमभ्यतपन् ।तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसो जायत् । तद्यक्षरत्तदादित्य मभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्यकृष्णंरूपम् । अथ येऽस्योदंचोरश्मयः ताएवास्योदीच्यो मधुनाड्यः । अथर्वांगिरसएवमधुकृतः ।।अथर्वणांगिरसा च दृष्टा अथर्वांगिरसः ।।इतिहासपुराणं पुष्पम् ।।इतिहासपुराणविहितकर्मस्वथर्वांगिरसां विनियोगादृग्वेदादिवत् पुष्पत्वोक्तिरिति द्रष्टव्यम् ।।ता अमृता आपस्ते वा एतेऽथर्वांगिरस एतदितिहासपुराणमभ्यतपन् । तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँ रसोऽजायत । तद्व्यक्षरत्तदादित्य मभितोऽश्रयत् तद्वा एतद्यदेतदादित्यस्य परं (रः) कृष्णं रूपम् ।।अतिशयितं कृष्णंरूपमित्यर्थः ।।अथ येस्योर्ध्वारश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवदेशामधुकृतः ।।ब्रह्मविषयकोपनिषद्रहस्योपदेशा इत्यर्थः ।।ब्रह्मैव पुष्पं ता अमृता आपः । ते वा एते गुह्या आदेशाः एतद्ब्र्रह्माभ्यतपन् ।तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँ रसोऽजायत । तद्व्यक्षरत्तदा दित्यमभितोऽश्रयत्द्वा एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ।।समाहितदृष्टिभिर्वीक्ष्यमाणं मध्ये चलतीव स्फुरतीत्यर्थः ।।ते वा एते रसानाँ रसा वेदा हि रसा स्तेषामेते रसास्तानि वा एतान्यमृताना ममृतानि वेदा ह्यमृतास्तेषामेतान्यमृतानि ।।लोकसारभूतर्ग्वेदादिप्रतिपाद्यकर्मनिष्पाद्यत्वात् रोहितादिरूपाणामतिरसत्वम् । तथा वेदेभ्योऽपीष्टतत्साध्य (धन) प्रतिपादकतया भोग्यभूततयाऽमृतेभ्यो रोहितादिरूपाणंतत्प्रतिपाद्यकर्मनिष्पाद्यानामतिभोग्यत्वादमृतादप्यमृतत्वमित्यर्थः । अयमत्रनिर्गलितोऽर्थः ।प्रागाद्यूर्ध्वदेशांतःस्थितरश्मिनाडीतस्तत्तद्वेदोक्तकर्मकुसुमेभ्यस्तत्तद्वैदिकमंत्रमधुकरैरादित्य मंडलमानीतानि सोमाज्यपयःप्रभृतिद्रव्यनिष्पन्नानि यशस्तेजोवीर्यमिंद्रियमित्येवमात्मकानि लोहितं शुक्लं कृष्णं परंकृष्णं मध्ये क्षोभत इवेत्युक्तानि रोहितादीनि पंचामृतानि आदित्यमध्वाश्रयाणीति । एषां पंचानाममृतानां वसुरुद्रादित्यमरुत्साध्यगण भोग्यत्वं तदुपासीनानां वसुत्वादिप्राप्तिपूर्वकब्रह्मप्राप्तिरिति प्रतिपादयति ।तद्यत्प्रथमममृतं तद्वसव उपजीवंत्यग्निना मुखेन ।।अग्निमुखेन वसवो रोहितरूपलक्षणममृतमुपजीवन्तीत्यर्थः । उपजीवनं भक्षणमिति शंकां प्रतिषेधति ।।न वै देवा अश्रांति न पिबन्ति ।।चंद्रमिवेति भावः । पुनःकथमुपजीवनमित्यत्राह ।।एतदेवामृतं दृष्ट्वा तृप्यंति ।।यशस्तेजआदिलक्षणं रोहितं रूपं सर्वैः करणैरुपलभ्य तृप्यंतीत्यर्थः ।एतदेव रूपमभिसंविशन्ति ।।एतदेव रूपमभिलक्ष्यानुभूयेति यावत् । संविशन्ति भोगानंतरमुदासीना भवंतीत्यर्थः ।।एतस्माद्रूपादुद्यन्ति ।।प्राप्ते भोगकाले इति शेषः । सर्वत्रैतस्माद्रूपादिति ल्यब्लोपे पंचमी । एतद्रूपानु भवमुद्दिश्योद्यन्ति सोत्साहा भवंतीत्यर्थः।।स य एतदेवममृतं वेद ।।अनेन प्रकारेण वसुतृप्त्याधायकदर्शनगोचरत्वलक्षणवसूपजीव्यत्वादिना रोहितामृतं यो वेद ।।स वसूनामेवैको भूत्वाग्निनैव मुखेन एतदेवामृतं दृष्ट्वा तृप्यति । स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ।।तत्क्रतुन्यायेन तदुपासीनेऽपि वसुत्वं प्राप्य तथैव भवतीत्यर्थः कियंतं कालमित्यत्राह ।।स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेव तावदाधिपत्यँ स्वाराज्यं पर्येता ।।आदित्यस्य प्राच्यां दिश्युदयः प्रतीच्यामस्तमयश्च यावंतंकालमनुवर्तते तावंतं कालं वसूनां यदाधिपत्यं यदप्रतिहतसंकल्पत्वलक्षणं स्वाराज्यं च तत्पर्येता परितोगंताऽनुभवतीत्यर्थः ।।अथ यद्वितीयममृं ततद्रुद्रा उपजीवन्तींद्रेण मुखेन न वै देवा अश्नंति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यंत्येतदेव रूपमभिसंविशंत्येतस्माद्रूपादुद्यंति । स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वा इन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एत देवरूपमभिसंविशत्येतस्माद्रूपादुदेति । स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद्दक्षिणत उदेतोत्तरतोस्तमेता रुद्राणामेव तावदाधिपत्यं स्वाराज्यं पर्येता ।।पुरस्तादुदयपश्चादस्तमयापेक्षयाद्विगुणं कालं दक्षिणत उदयमुत्तरतोऽस्तमयं च कल्पयित्वा श्रुतिर्ब्रवीति नात्र कथंता कार्या । शिष्टंस्पष्टम् ।।अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेनमुखेन नावै देवाअश्नन्ति न पिबन्त्येितदेवामृतं दृष्ट्वा तृप्यन्ति त एतदेवरूपमभि संविशन्त्येतस्माद्रपू द्युद्यन्ति । स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एत देवरूपमभि संविशत्ये तस्माद्रूपादुदेति स यावदादिदित्योदक्षिणत उदेतोत्तरतस्तमेता आदित्याना मेव तावदाधिपत्यं स्वाराज्यं पर्येता ।अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन न वैदेवा अश्नंति न पिबंत्येतदेवाम-तं दृष्ट्वा तृप्यंति । त एतदेव रूपमभिसंविशंत्येतस्माद्रूपादुद्यंति स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्टवा तृप्यति सएतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव ता वदाधि पत्यँ स्वाराज्यं पर्येता । अथ यत्पंचमममृतं तत्साध्या उपजीवन्ति । ब्रह्मणा मुखेन नवैदेवा अश्नन्ति न पिबंत्येतदेवामृतंदृष्ट्वातृप्यन्ति सएतदेव रूपमभि संविशंत्येतस्माद्रूपादुद्यंति स य एतदेवाममृतं वेद साध्यानामेवैको भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति । स यावदादित्य उत्तरत उदेता दक्षिणतोस्तमेता द्विस्तावढूर्ध्वउदेता अर्वागस्त मेता साध्यानामेवतावदाधिपत्यंस्वाराज्यंपर्येता ।।वसुरुद्रादित्यमरुत्साध्यगणभोग्यरोहितादिपञ्चरूपात्मकपंचामृताश्रयदेव मधुत्वरूपितज्योतिर्मंडलाख्यरूपयुक्तस्योदयास्तमयादिकृत्यविशिष्टस्यादित्यनामकस्यादित्य शरीरककार्यावस्थब्रह्मण उपासनमुपदिश्य नामरूपकृत्यादिरहितकार्यावस्थारहितादित्य जीवशरीरकब्रह्मोपासनं दर्शयति ।।अथ तत ऊर्ध्व उदेत्यनैवोदेता नास्तमेता ।।अथ ब्रह्मदिवसरूपस्य कल्पस्य समाप्त्यनंतरं ततऊर्ध्व उदेत्य उदयास्तमयकृत्यप्राणयनु ग्रहरहित इत्यर्थः । उदायास्त शून्यः ।।नैवोदेता नास्तमेता एकल एव मध्ये स्थाता ।।एकस्वभाव एवोदासीनतया वर्तत इत्यर्थः । अत्राह भाष्यकारःकारणावस्थब्रह्मोपासनं विधीयते । असौ वादित्यो देवमध्वित्यारभ्याथ तत ऊर्ध्व उदेत्येत्यतः प्रागादित्यवस्वादिकार्य विशेषावस्थब्रह्मोपासनमुपदिश्यते । अथ तत ऊर्ध्व उदेत्येत्यादिनाऽऽदित्यांतरात्मतयावस्थितं कारणावस्थमेव ब्रह्मोपदिश्यत इत्युक्तम् । तत्राथ तत ऊर्ध्व उदेत्येत्यस्य मुक्तावस्थादित्यांतर्यामि ब्रह्मोपासनपरत्वेऽथ शब्दादिस्वारस्यात्कारणा वस्थमिति भाष्यस्याकार्यावस्थं मुक्तावस्थमित्यर्थ एवोचितः । नत्वादित्यभावप्राप्तिपूर्वावस्थम् । व्यासार्यैस्तु भाष्यस्वारस्यमवलंब्यादित्यनामरूपभाक्त्वास्थापूर्वभाव्यवस्थैव अथ तत ऊर्ध्व उदेत्येत्यादि संदर्भेण प्रतिपाद्यत इति वर्णितम् ।तेषामयमाशयः । अथशब्दो न निर्दिष्टानंतर्यार्थः । अपित्वर्थांतरप्रस्तावार्थः । अथ तत ऊर्ध्व उदेत्यनैवोदेता नास्तमेता एकल एव मध्येस्थातेत्यस्याप्युदयास्तमयतत्कार्यशून्यत्वमर्थः । तच्चादित्यभावपूर्वावस्थायां कल्पादौ संभवतीति ।।तदेषः श्लोकः ।।तस्मिन्विषये देवान्प्रति केनचिद्योगिना गीतःश्लोकः ।।न वै तत्र ननिम्लोचनोदियाय कदाचन ।देवास्तेनाहं सत्येन मा विराधिषि ब्रह्मणेति ।।हे देवास्तस्मिन्नादित्यभावमुक्तिकाले स मुक्तादित्यांतर्यामिपरमात्मा नास्तमितोनोदितश्चेतनसत्येन ब्रह्मणाऽहं मा विराधिषि विरोधं न गच्च्छामि । अप्राप्तिं न गच्छामीति यावत् ।।न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा है वास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद ।।य एतां मधुविद्यारूपां ब्रह्मोपनिषदं ब्रह्मविद्यां वेदानुतिष्ठत्यस्मै ब्रह्मविदे आदित्यो नोदेति नास्तमेति । आदित्योदयास्तमयाभ्यां न किंचित्तस्य प्रयोजनमित्यर्थः । सकृद्दिवा है वास्मै भवति । अस्मै ब्रह्मविदे सकृद्दिवैव भवति सकृदुदितमहरेवभवति ।। सदैवाहर्भवतीत्यर्थः । संततं सर्वविषयकसाक्षात्कारोऽस्य भवतीत्यर्थः । मधुविद्यासंप्रदायमाह ।।तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यः ।।तद्धैतन्मधुविज्ञानमित्यर्थः ।।तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ।।तद्धैतद्ब्रह्म उद्दालकाय पिता प्रोक्तवान् ।।इदं वा व तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् प्रणाय्याय वांतेवासिने ।।तस्माद्वेतोः इदं ब्रह्मविज्ञानं ज्येष्ठाय पुत्राय वा ब्रूयात् योग्याय शिष्याय वा प्रब्रूयात् । नान्यस्मै । प्रणाय्योऽसंमताविति निष्कामार्थे प्रणाय्यशब्दस्य निपातितत्वात् ।।यद्यप्यस्माइमामद्भिः परिगृहीतां धनस्यपूर्णांदद्यादेतदेवततो भूयइत्येतदेवततो भूय इति ।।समुद्रावृतां भोगोपकरणैः पूर्णामिमां पृथिवीं यद्यप्यस्मै आचार्याय दद्यात् ।तदपेक्षयाप्येतद्विज्ञानमेवाधिकम् । नैतस्यानुरूपो निष्क्रयोऽस्तीत्यर्थः । द्विरुक्तिर्विद्यासमाप्त्यर्था ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.